अध्यवसायः (Mental Effort)

अधि अव सो भावे घञ् सुँ -> अध्यवसायः
सो  [ षो अन्तकर्मणिदिवादि: परस्मैपदी अनिट् सकर्मकः

जीवने यत् किमपि प्राप्यते तत् तु अध्यवसायेनैव। यः अध्यवसायं न करोति सः न किमपि प्राप्नोति।

२०१९-०४-३० मङ्गलवासरः (2019-04-30 Tuesday)

समवायः (Perpetual co-inherence)

सम् अव् अयँ घञ् सुँ -> समवायः।
समवायो नित्यसम्बन्धः। पृथिव्यां गन्धः समवायेन नित्यसम्बन्धेन स्थितः। अत्ः समवायेन गन्धवत्त्वं पृथिव्या लक्षणम्।
अवयवावयविनोर्गुणगुणिनोः क्रियाक्रियावतोर्जातिव्यक्त्योर्नित्यद्रव्यविशेषयोच्च यः सम्बन्धः स समवायः इति सिद्धान्तमुक्तावली।

२०१९-०४-२९ सोमवासरः (2019-04-29 Monday)

अधिक्षेपः (Insult)

अधि क्षिपँ घञ् सुँ -> अधिक्षेपः
भवादृशेषु प्रमदाजनोदितं भवत्यधिक्षेप इवानुशासनाम्।
तथापि वक्तुं व्यवसाययन्ति मां निरस्तनारीसमया दुराधयः॥किरातार्जुनीयम् १.२८॥
अन्वयः – भवादृशेषु प्रमदाजनोदितम् अनुशासनम् अधिक्षेप इव भवति तथापि निरस्तनारीसमयाः दुराधयः मां वक्तुं व्यवसाययन्ति।
आपजैसों के लिये स्त्रियों के द्वारा कहे अनुशासन के निर्देश अपमान की तरह ही हैं। फिर भी नारी की विनयशीलता को दूर कर देने वाली मेरी मानसिक व्यथाएँ मुझे कहने के लिये प्रेरित कर रही हैं।

२०१९-०४-२८ रविवासरः (2019-04-28 Sunday)

व्यतिरेकः (Absence)

तत्सत्त्वे तत्सत्त्वमिति अन्वयः तदभावे तदभावो व्यतिरेकः। That present, its presence is anavaya, that absent, its absence is vyatireka.
पृथिवीसम्बन्धसत्त्वे जलादिषु गन्धसत्त्वम् पृथिवीसम्बन्धाभावे तत्र गन्धाभावः इत्यन्वयव्यतिरेकाभ्यां जलादिषु गन्धस्योपलब्धिरिति वक्तुं शक्यते।

२०१९-०४-२७ शनिवासरः (2019-04-27 Saturday)

पूर्णात् पूर्णमुदच्यते (From complete arises complete)

यः पूर्णम् अजानीत (The Man Who Knew Infinity) इत्याख्यातं चलचित्रम् अहं मम द्वितीयया सह अद्य अपश्यम्। चलचित्रस्य नायकौ स्तः श्रीनिवसरामानुजन्वर्यः टोमस्-हार्डीवर्यः च। मया पूर्वमेव चलचित्रस्य आधारपुस्तकं पठितम्। मया टोमस्-हार्डीवर्यस्य A Mathematician’s Apology इत्याख्यातं पुस्तकमपि पठितम्। तस्मात् चलचित्रस्य चलनं मया ज्ञातमेव किन्तु तथापि चलचित्रं मह्यम् अरोचत।

२०१९-०४-२६ शुक्रवासरः (2019-04-26 Friday)

स्मृतिदिवसः (Anzac Day)

अयं स्मृतिदिवसः ओस्ट्रेलियादेशे पवित्रतमः दिवसः अस्ति। ओस्ट्रेलियान्यूजीलेण्डदेशयोः ये अपि सैनिकाः देशाय प्राणान् अत्यजन् तेभ्यः अयं स्मृतिदिवसः अस्ति। अद्य अवकाशः अस्ति तस्मात् दिवसे एव अहं भ्रमाणाय गृहात् नातिदूरे पर्वतमस्तके अगच्छम्।

Gungahlin Town Centre

इदं चित्रं अस्माकम् उपनगरस्य केन्द्रे यानि नूतनानि भवानि आरोहन्ति तेषां चित्रमस्ति।

२०१९-०४-२५ गुरुवासरः (2019-04-25 Thursday)

अध्यासः (Wrong Supposition)

अध्यासः अधि + अस–क्षेपे घञ्
अध्यासः यथा स्मृतिरूपः परत्र पूर्वदृष्टावभासः।
इत्यतोऽस्मत्प्रत्ययगोचरे विषयिणि चिदात्मके युष्मत्प्रत्ययगोचरस्य विषयस्य तद्धर्माणां चाध्यासः। इसलिये अस्मत् प्रतीतिके विषयभूत चैतन्य स्वरूप युष्मत् प्रतीतिकि विषयभूत विषय और उसके धर्मोंका अध्यास।

२०१९-०४-२४ बुधवासरः (2019-04-24 Wednesday)

पुनरुत्थानं पर्व (Easter)

अद्य पुनरुत्थानस्य पर्वणः चतुर्दिवसीयं अवकाशं परं कार्यालम् आगच्छम्। मन्यन्ते शुक्रवासरे उद्धर्ता (the Christ) शरीरं तत्याज सोमवासरे सः मृत्युं जित्वा पुनः स्वदेहं प्रविश्य पुनरुत्तस्थौ। ओस्ट्रेलियादेशे अस्य पर्वणः शुक्रवासरे सोमवासरे च कार्यावकाशः।
सप्तत्रिंशतः वर्षेभ्यः पूर्वम् अहं पुनरुत्थानस्य पर्वणः शनिवासरे ओस्ट्रेलियादेशम् आगच्छम्।

२०१९-०४-२३ मङ्गलवासरः (2019-04-23 Tuesday)

अन्वयः (The natural order)

संस्कृतश्लोकानाम् अवबोधनाय तेषाम् अन्वयः लाभकरः भवति तस्मात् सर्वासु टीकासु प्रथमं तु अन्वयः दीयते।
अनु इण् अच् सुँ -> अन्वयः। भावे अच् इति प्रत्यये सति अयं शब्दः पुँल्लिङ्गः।
अनु पश्चात् एति गच्छति तस्मात् यः पश्चात् गच्छति सः अन्वयः।

   [ इण् गतौअदादि: परस्मैपदी अनिट् सकर्मकः

२०१९-०४-२२ सोमवासरः (2019-04-22 Monday)

सहस्रारः (A thousand petaled lotus)

सहस्रारः सहस्रारं वा – a kind of cavity said to be found in the top of the head and to resemble a lotus inverted (fabled as the seat of the soul) इति मोनियरविलियम्स्-शब्दकोषः।

कल्पद्रुमे अस्ति –
सहस्रार/ सहस्रारः सहस्रारः, पुं, क्ली, (सहस्रं आराणि कोणा यस्य .)शिरोऽवस्थिताधोमुखसहस्रदलकमलम् . यथा,“ सहस्रारे हिमनिभे सर्व्ववर्णविभूषिते .अ-क-थादित्रिरेखात्म-ह-ल-क्ष-त्रयभूषिते ..तन्मध्ये परबिन्दुञ्च सृष्टिस्थितिलयात्मकम् .एवं समाहितमना ध्यायेन्न्यासोऽयमान्तरः ..” इति तन्त्रसारोक्तान्तर्म्मातृकान्यासः ..(सहस्रं अराणि यस्येति . बहुचक्राङ्गविशिष्टे,त्रि . यथा, देवीभागवते . ६ . ५ . १८ .“ चक्रं सुमोच वेगेन सहस्रारं सुदर्शनम् ..” )

सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च।
मूर्ध्न्याधायात्मनः प्राणमास्थितो योगधारणम्॥गीता ६.१२
शिरसि उपरि एकं रन्ध्रम् अस्ति तत्रैव सहस्रारः अपि अस्ति। गीता कथयति अस्मात् रन्ध्रात् प्राणः निर्गच्छति।

मया पठितम् अस्मात् रन्ध्रात् दैविकशक्तिः अपि अस्माकं देहे अवतरति इति। तस्मात् सहस्रारे सततं ध्यानं स्थापितव्यं यत् रन्ध्रं उद्घाटयति यस्मात् दैविकशक्तेः अवतरणं संभवति।
https://en.wikipedia.org/wiki/Sahasrara

Ayyavali_Sahasrara

२०१९-०४-२१ रविवासरः (2019-04-21 Sunday)