रक्षाबन्धनम् (Rakhi)

अद्य सायङ्काले अहं मम भार्यया सह तस्याः भ्रातुः गृहम् अगच्छम्। मम भार्यया स्वभ्रातरं रक्षाबन्धनं कृतम्। बन्धनं परं अस्माभिः भोजनं कृतम्। गृहं प्रत्यागम्य इदानीम् अहम् अवकरः विषये Four Corners इति दूरदर्शनकार्यक्रमं पश्यामि।

२०१७-०८-०७ सोमवासरः (2017-08-07 Monday)

कार्यं कृतम् (Did work)

अद्य मन्दिरे शङ्करपूजा आसीत्। शतशिवलिङ्गानि कल्पितानि पूजीतानि च। किन्तु मया किञ्चित् कार्यं कर्तव्यं तस्मात् अहं पूजायां भागं न अगृह्णाम्। मनसि खेदः अस्ति।

२०१७-०८-०६ रविवासरः (2017-08-06 Sunday)

क्त्वा इति सप्तमः प्रत्ययः (The seventh suffix ktvaa)

सौम्यामहाभागा संस्कृतवाक्यरचना-कृदन्ताः इति पाठ्यक्रमं पाठयति – http://www.sanskritfromhome.in/course/krdantas। तस्मिन् क्रमे तया षड्प्रत्ययाः पाठिताः। ते प्रत्ययाः सन्ति ल्युट्-अनीयर्-ण्वुल्-तुमुन्-तव्य-तृच् इति। यथा पठनम्, पठनीयम्, पाठकः, पठितुम्, पठितव्यम्, पठिता/पठित्री इति। अद्य सप्तदशे पाठे सा क्त्वा-प्रत्ययस्य पाठम् आरभत। सा क्त्वा-प्रत्ययस्य मनोहराणि उदाहराणि रामायणात् अददात्। तस्याः वर्गे व्याकरण-अध्यात्मयोः पाठः मिथः भवति।

२०१७-०८-०५ शनिवासरः (2017-08-05 Saturday)

वर्षति (Rains)

यदा अहं भारतवर्षे आसं तदा तत्र जलं वर्षति किन्तु अत्र केन्बरानगरे न वर्षति। यावत् अहम् अत्र आगच्छम् तावत् अत्र अनवरतं जलं वर्षति। भारते ग्रीष्मकालः अस्ति तस्मात् तत्र घर्मः बाधते किन्तु अत्र शीतकालः अस्ति तस्मात् वर्षया सह शैत्यं बाधते।

२०१७-०८-०४ शुक्रवासरः (2017-08-04 Friday)

अपि अयं पण्डितः? (Is this a Pundit)

अद्य एकस्य पण्डितस्य लेखः समाचारपत्रे प्रकाशितः http://indianexpress.com/article/opinion/columns/nitish-kumar-bihar-jdu-bjp-alliance-lalu-prasad-yadav-corruption-4779525/। लेखकः अस्ति मान्यवरः Ashutosh Varshney, Director, Centre for Contemporary South Asia, Sol Goldman Professor of International Studies and the Social Sciences, Watson Institute for International and Public Affairs, Brown University, USA.
मान्यवरः लिखति भारतस्य राजनितौ एका समस्या अस्ति that ideology has ceased to matter in Indian politics इति। तत् परं सः तस्याः समस्याः समाधनम् अपि ददाति। सः महान् पण्डितः अस्ति। बहुप्रचलितानि समाचारपत्राणि तस्य लेखान् प्रकाशयन्ति। सः एकस्मिन् विश्वविद्यालये निर्देशकपदे आरूढः अपि अस्ति। सः खलु महान् पण्डितः अस्ति इति अस्माभिः मन्तव्यम्।
पश्यतु तस्य पण्डितस्य समाधानम् – In the short run, this problem can be overcome only if the Opposition can credibly demonstrate that the BJP, too, is corrupt.
सः न कथयति काङ्ग्रेसदलेन भ्रष्टाचारः न कर्तव्यः। सः न कथयति लालूप्रसादेन भ्रष्टाचारः न कर्तव्यः। सः न काम् अपि सकारात्मकनितिं दर्शयति। स्मर्तव्यं सः आदर्शस्य अभावम् अस्ति इति परिदेवनं करोति। पश्यतु सः कीदृशम् आदर्शं स्थापयति। तस्य आदर्शः अस्ति विपक्षस्य निन्दा एव कर्तव्या किन्तु स्वस्य भ्रष्टाचारं न त्यक्तव्यम् इति।
चिन्तनीयम् अस्ति यदि अमेरिकादेशे एतादृशाः पण्डिताः सन्ति एतादृशाः परामर्शदातारः सन्ति तर्हि अपण्डितः कीदृशः भवेत् इति।

२०१७-०८-०३ गुरुवासरः (2017-08-03 Thursday)

क्रमादेशः कल्पितः (Created a program)

विद्युत-ऊर्जा-उत्पादन-यन्त्रस्य कर्षण-नियन्त्रणाय (voltage control) मया अद्य एकः क्रमादेशः कल्पितः।

२०१७-०८-०२ बुधवासरः (2017-08-02 Wednesday)

शरदयादवः लालायति (Sharada Yadav is Salivating)

आङ्ग्लदेशस्य राज्ञीम् निकषा किमपि राजबलं नास्ति ततः अपि सा राजते। कथम् एतत्? सा कौटिल्येन जनान् चीत्वा पुरस्करोति। सा यस्मात् जनान् चिनोति यस्मात् पुरस्करोति च तस्मात् ये जनाः पुरस्कारं न प्राप्नुवन्ति ते सदैव पुरस्कारस्य अभिलाषां धारयन्ति। ये जनाः पुरस्कारम् अप्राप्नुवन् ते सदैव राज्ञ्याः गुणान् स्तुवन्ति यतो हि राज्ञ्याः प्रकाशात् ते अपि भान्ति। अस्मात् कौटिल्यात् सा अद्यापि विराजते।

SharadYadavSonia2017

तथैव सोनियामहाभागा अपि विराजते। शरदयादवाय नितीश-भाजप-दलयोः प्रणयः न रोचते। कथम्? अस्मिन् भाचित्रे पश्यतु कस्मात् शरदवर्यः आत्मानं सोनियामाहाभागया सह उपविश्य धन्यं मन्यते इति। इदम् अद्य मया लब्धं भविष्यकाले किं प्राप्स्यामि इति सः स्वप्नं पश्यति लालायति च। सः सोनिया-राहुलाभ्यां वशीकृतः। सः किमपि अन्यं न पश्यति। यदा सः स्वप्नात् जागरिष्यति तदा सः ज्ञास्यति न तत्र सोनियामहाभागा न तत्र राहुलः केवलः वराकः शरदः।

२०१७-०८-०१ मङ्गलवासरः (2017-08-01 Tuesday)