प्रसन्नतां लाति (Brings happiness)

केन विरचितमिदं विचित्रं हि मुख्यपृष्ठम्।
हास्यरसमेवाश्रित्य सर्वे रसास्समाहिताः॥

https://www.republicworld.com/ – Accessed 8.30am Thur 30 Sept 2021

२०२१-०९-३० गुरुवासरः (2021-09-30 Thursday)

अक्षरदोषः आचार्यं पीडयति (Spelling mistake troubles Acharya)

पादकन्दुकक्रीडकेभ्यः लिखिता वार्ता आचार्यं पीडयति यतो हि तस्यां वार्तायाम् अक्षरदोषोऽस्ति। न जाने आचार्यः कीदृशीं पीडामनुभविष्यति यदा ज्ञास्यति एबीसी इति महान् समवायोऽपि तथैव व्यवहरति। पश्यतु।

ABC versus Football Story

२०२१-०९-२९ बुधवासरः (2021-09-29 Wednesday)

तारकौ कन्हैयाजिग्नेशौ (Redeemers Kanhaiya Kumar and Jigneshbhai)

काङ्ग्रेसेन कन्हैयाजिग्नेशौ द्वौ तारकौ प्राप्तौ।
नवजोतामरिन्दरौ निमज्जकौ प्रणष्टौ च।

२०२१-०९-२८ मङ्गलवासरः (2021-09-28 Tuesday)

आङ्किकं स्वास्थ्यपरं परिचयपत्रम् (Health Identity Cards)

भारतप्रशासनस्य श्लाघ्यरूपं कार्यमस्ति आङ्किकं स्वास्थ्यपरं परिचयपत्रम् इति। सर्वेषां स्वास्थ्यपरं आलेखाः एकस्मिन्नेव स्थाने भविष्यन्ति यस्मात् जनाः कुत्रापि कमिन्नपि चिकित्सालये गन्तुं शक्ष्यन्ते।
सर्वं कुशलमिति मा चिन्तयतु। अचिरं विपक्षः न्यायालयं गमिष्यति अस्मिन् कार्ये स्वकल्पिताः अनेकाः त्रुटीः लक्षयिष्यते च। तथापि मन्ये इदं कार्यं श्लाघ्यम्।

२०२१-०९-२७ सोमवासरः (2021-09-27 Monday)

समत्वं योग उच्यते (Equanimity is Yoga)

नरेन्द्रस्य अनेकानि चित्राणि इतः ततः प्रसारयन्ते। तेष्वस्तीदं चित्रम्। सर्वे महाभागाः जानीयुर्यो नरेद्र आसीत् १९९०तमेवर्षे स एव नरेन्द्रोऽस्ति इदानीमपि। राष्ट्रपतिप्रसादात् बहिरस्ति वा अभ्यान्तरेऽस्ति तस्मात् न किमपि परिवर्तते। यत् नरेन्द्रः तदा चिन्तयति स्म तदेव स इदनीमपि चिन्तयति इति सम्यग् जानीयुः। स आबाल्यात् भारतस्य गौरवस्यैव चिन्तनं करोति। अहं सम्यग् जानामि भवन्तः सर्वेऽपि महाभागाः तस्मादेव चिन्तयन्ति। न सोऽस्मत् भिन्नोऽस्ति।

The same Narendra Damodardas Modi

२०२१-०९-२६ रविवासरः (2021-09-26 Sunday)

सावरकरपुस्तकविमोचनम् (Launch of Savarkar (Part 2) A Contested Legacy (1924-1966))

वीरविनायकदामोदरसावरकरस्य जीवनकथा विक्रमसम्पता महाभागेन लिखिता। तस्याः जीवनकथायाः विमोचनमद्याभवत्। मयापि तस्मिन् विमोचने भागः ग्रहीतः। विक्रमस्य शिक्षणं पिलानीग्रामे ओस्ट्रेलियादेशे च अभवत्। द्वयोरपि स्थानयोः मम निवासमस्त्येव।

Book Launch Sat 25 Sept 2021

२०२१-०९-२५ शनिवासरः (2021-09-25 Saturday)

फूलबसनबाईयादवमहाभागाः (Padmashree Phoolbasan Bai Yadav)

अद्य मया क्रान्तिकारिण्याः फूलबसन्माहाभागायाः व्याख्यानं श्रुतम्। सा खलु अद्वितीया नारी अस्ति। अखादित्वापि सा समाजस्य उद्धाहरणं करोति। तस्यै नमो नमः।

Daughters of Bharat | Empowering stories of transformation from Chhattisgarh by Padmashree Phoolbasan Bai Yadav

२०२१-०९-२४ शुक्रवासरः (2021-09-24 Friday)

विषुवः (Equinox)

अद्य विषुवः विषुवान् वा अस्ति। अत्र रात्री दिवसः समकालिकोऽस्ति। विषुवति आगतेऽपि घर्मो नागतः। कदागमिष्यति इति चिन्तयामि।

२०२१-०९-२३ गुरुवासरः (2021-09-23 Thursday)

रथ्याः (Horses)

मुक्तेषु रश्मिषु निरायतपूर्वकाया
निष्कम्पचामरशिखा निभृतोर्ध्वकर्णाः।
आत्मोद्धतैरपि रजोभिरलङ्घनीया
धावन्त्यमी मृगजवाक्षमयेव रथ्याः॥१।८ अभिज्ञानशाकुन्तलम्॥
तद्वहति रथयुगप्रासङ्गम् (४.४.७६)

२०२१-०९-२२ बुधवासरः (2021-09-22 Wednesday)

अदाणीगौतमाय नमो नमः (Reverential Salutations to Mr Gautam Adani)

अस्मिन् देशे एबीसीति समवायः यं लक्षयते तं त्रिष्वपि लोकेषु न कोऽपि रक्षितुं शक्नोति। पश्यतु कथं एबीसीति समवायेन पूर्वमन्त्री क्रिश्चियनपोर्टरमहोदयः मृगितः व्यापादितश्च

तैरदाणीगौतमवर्यस्य मार्गणं बहुवर्षेभ्यः पूर्वमेवारब्धं किन्तु इदानीमपि अदाणीगौतमवर्यः वर्ततैव तस्मात्तस्मै अदाणीगौतमाय नमो नमः।

२०२१-०९-२१ मङ्गलवासरः (2021-09-21 Tuesday)