मा भूत् कालस्य पर्ययः (Let there be no loss of time)

इदम् अतिसुन्दरं वाक्यमस्ति मा भूत् कालस्य पर्ययः। श्रीवाल्मीकीरामायणे बालकाण्डे द्वाविंशतितमे सर्गे द्वादशे श्लोके इदं वाक्यमस्ति। अतिसुन्दरम्।

२०१०-०३-३१ बुधवासरः (2010-03-31 Wednesday)

समाहितम् (Concluded, with great concentration)

समाहितः इति शब्दः मया अनेकवारः पठितः। वाल्मीकीरामायणे अस्ति तपस्यन्तमिह स्थाणुं नियमेन समाहितम् इति। अत्र अस्य शब्दस्य अर्थमस्ति एकध्यानम् इति।
मया कार्यं समाहितम् इति वाक्ये समाहितम् इति शब्दस्य अर्थमस्ति अनुष्ठितं विहितम् वा।

२०१०-०३-३० मङ्गलवासरः (2010-03-30 Tuesday)

नवीनमार्गः (New Way)

अद्य वयम् एकेन नवीनमार्गेन ज्वलितायाः विद्यालयं अगच्छाम। पूर्वं वयं केन्बरानगरस्य मुख्यमार्गं अपरिहर्तुं विविधमार्गे गच्छामः स्म किन्तु अद्य यस्मिन् नवीनमार्गे अगच्छाम सः मार्गः मुख्यमार्गं द्विवारं अतिक्रमति तथापि यातायातकालस्य अपचयं करोति।

२०१०-०३-२९ सोमवासरः (2010-03-29 Monday)

दिव्यांशुः नूतनं गीतं रचति (Divyanshu makes a new song)

दिव्यांशुः ह्यः सिडनीनगरं तस्य गायकेन सह सङ्गीतरचनां कर्तुम् अगच्छत्। अद्य सायंकाले सः प्रत्यागच्छत्। तौ एकस्य नूतनस्य गीतस्य रचनाम् अकुरुताम्। तस्मिन् गीते एकस्य संयुक्तराज्यस्य गायकस्य स्वरः अपि अस्ति। तत् गीतं मह्यं रोचते।

२०१०-०३-२८ रविवासरः (2010-03-28 Sunday)

किमपि न कृतम् (Didn’t do anything)

अद्य प्रातःकाले अहं दिव्यांशुं कृष्णस्य गृहे नीतवान्। दिव्यांशुः कृष्णेन सह सिडनीनगरम् अगच्छत्। तत् परं मया मेल्बोर्नस्थप्रहलादवर्येण सह एकसङ्क्रमकविषये वार्तालापं कार्यं च अकरवम्। मध्याह्ने मित्रैः सह विहाराय भोजनाय च उद्याने अगच्छम्। ततः प्रत्यागम्य मया सुप्तम्। उत्थाय चलचित्रं दृष्टवान्। इति दिवसः।

२०१०-०३-२७ शनिवासरः (2010-03-27 Saturday)

दशवादनम् (Ten O’clock)

अद्य मया रात्रौ दशवादने गृहं प्रत्यागच्छम्। दिव्यांशुः नववादनपर्यन्तं कार्यं करोति स्म। शुचिता विश्वविद्यालये पुस्तकालये पठति स्म। नववादने दिव्यांशुः मां सूचितवान् सः आपणे एकलः अस्ति तस्मात् आपणं पिधानं कृत्वा धनं गणनाय विलम्बः भविष्यति इति। अन्ते ऊनविंशतिदशवादने सः गृहम् गमनाय सज्जः अभवत्। तत् परम् आवां शुचितां नीत्वा दशवादने गृहं प्रत्यागच्छाम।

२०१०-०३-२६ शुक्रवासरः (2010-03-26 Friday)

संपृक्तः (Mixed)

सः अस्मिन् कार्ये संपृक्तः अस्ति। सः पठन्कार्ये संपृक्तः नासीत्। वयं सर्वे राष्ट्रनिर्माणकार्ये संपृक्ताः स्याम।

२०१०-०३-२५ गुरुवासरः (2010-03-25 Thursday)

रामचन्द्रस्य जन्मदिवसः (Ramchandra’s birthday)

अद्य रामचन्द्रस्य जन्मदिवसः अस्ति। तुलसीदासेन अस्य दिवसस्य वर्णनं रामचरितमानसग्रंथे कृतम्। सः लिखति न तदा उष्णं न शीतं न अतिवातः न अनावातः सर्वथा संतुलितं वातावरम् आसीत्। केन्बरानगरे अस्मिन् काले प्रायः शीतम् आरब्धं भवति किन्तु अद्य रामचन्द्रस्य जन्मदिवसे यथा अयोध्यानगर्यां वातवरणम् आसीत् तथा अत्रापि आसीत्। सायंकाले अहं मम भार्यया सह भ्रमणाय अगच्छम्।  तत् तु अस्माकं रामनवमीसमारोहः आसीत्।

२०१०-०३-२४ बुधवासरः (2010-03-24 Wednesday)

हिन्दीपाठः (Hindi Lesson)

मङ्गलवासरे सायंकाले षट्वादनात् अष्टवादनपर्यन्तम् अहं हिन्दीभाषां पाठयामि। अद्य शुचितापि कक्षायाम् आसीत्। ज्वलिता प्रायः आगच्छति किन्तु अद्य तस्याः गणवाद्ययन्त्रस्य प्रदर्शनम् आसीत् तस्मात् सा न आगच्छत्।

२०१०-०३-२३ मङ्गलवासरः (2010-03-23 Tuesday)

कुत्र गच्छति (Where does it go?)

मम सोमवासरः कुत्र गच्छति इति अहं न जानामि। सोमवासरे यातायतैः मार्गाः परिपूर्णाः सन्ति तस्मात् कार्यालयाय नियतकालपूर्वं निर्गन्तव्यम्। अद्य मम शोधप्रतुतिकरणमपि आसीत्। सायंकाले रोचकाः दूरदर्शनकार्यक्रमाः दृश्यन्ते। सार्धसप्तवादनात् सार्धाष्टवादन् पर्यन्तं हास्यकार्यक्रमौ स्तः तत् परं सामयिककार्यक्रमः अस्ति। दूरदर्शनं संदृश्य अहं क्लान्तः भवामि तस्मात् रात्रौ प्रत्यग्रं स्वपिमि।

२०१०-०३-२२ सोमवासरः (2010-03-22 Monday)