प्रवालः (Leaf)

गीतायां पञ्चदशमस्य अध्यायस्य द्वितीये श्लोके अस्ति – गुणप्रवृद्धा विषयप्रवालाः।
कालिदासस्य माल्विकाग्निमित्रे चतुर्थे अङ्के प्रथमे श्लोके अस्ति – रूढरागप्रवालः।
रूढरागप्रवालः अरोहत् अवर्धत रागस्य प्रवालः प्रबालः किसलयः नवपल्लवः।

२०१६-०१-३१ रविवासरः (2016-01-31 Sunday)

स्तबकः (A bunch of flowers)

कुसुमस्तबकस्येव द्वयी वृत्तिर्मनस्विनः।
मूर्ध्नि सा सर्व लोकस्य शीर्यते वन एव वा॥नीतिशतकम् – ३३॥
मम भार्यायाः हिरेनः नाम एकः सम्बन्धी इमं श्लोकम् अप्रेषत। श्लोकं पठित्वा स्तबकः इति एकं नवीनं शब्दं प्राप्नवम्। अयम् अस्ति सत्सङ्गस्य प्रभावः।

२०१६-०१-३० शनिवासरः (2016-01-30 Saturday)

भारतस्य पराजयः (India’s defeat)

इदानीम् अहं भारत-औस्ट्रेलियादेशयोः मध्ये विंशति-विंशति-क्षेपण-स्पर्धा दूरदर्शनेन पश्यामि। मन्ये औस्ट्रेलियादेशं स्पर्धां जेष्यति।

२०१६-०१-२९ शुक्रवासरः (2016-01-29 Friday)

सम्भाषण-सहायः (Help in Sanskrit Conversation)

श्रीअरविन्दाश्रमेण सम्भाषण-सहायः नाम अत्युपयोगी पुस्तकं प्रकाशितम्। पुस्तके पञ्चनवतिपृष्ठाः सन्ति।
पुस्तके चत्वारिंशतधिकद्विशतं (240) धातवः रूपाणि सन्ति। तिङ्-रूपाणि कृदन्त-रूपाणि च सन्ति। सर्वाणि रूपाणि न दत्तानि किन्तु आधाररूपाणि सन्ति। कोष्ठकानि सारण्यः वा (tables) दत्तानि यस्मात् आधाररूपैः सह सर्वाणि रूपाणि रचयितुं शक्यते।
पुस्तके पञ्चाशतधिकशतं (150) प्रातिपदिकानां सञ्ज्ञानाम् वा आधाररूपाणि सन्ति। सर्वाणि रूपाणि कोष्ठकैः सह रचयितुं शक्यते। येषां शब्दानां रूपाणि सन्ति तेषां समानां प्रायः सहस्रानां शब्दानां सूची अस्ति येषां रूपाणि सारल्येन रचयितुं शक्यते। पुस्तकस्य प्राप्तिस्थानम् अस्ति –
http://sabda.sriaurobindoashram.org/catalog/booksearch.php?language_key=SAN

२०१६-०१-२७ बुधवासरः (2016-01-27 Wednesday)

श्री NS रामानुजताताचार्याः (Sri NS Ramanuja Tatacharya)

महामहोपाध्यायेत्याद्यनेकबिरुदभूषिताः न्यायवेदान्तादिनानाशास्त्रपारावारपारीणाः श्रुतिस्मृतिविहितभूषणाः सात्त्विकशिरोमणयः परमसहृदयाः श्रीनावल्पाक्कम् शठकोपरामानुजताताचार्याः अद्य भारतीयराष्ट्रपतिना पद्मभूषणेनापि अलंकृताः। पश्यतु

http://indianexpress.com/article/india/india-news-india/padma-awards-2016-full-list/

आचार्यवर्याणां जीवनचरितमत्र लिखितं –

http://www.thehindu.com/todays-paper/tp-national/tp-tamilnadu/navalpakkam-sri-ramanuja-tatacharya-satabhishekam/article1236793.ece

सुप्रसिद्धनव्यनैय्यायिकाः शिवजीवनभट्टाचार्याः श्रीरामानुजताताचार्यानन्तरेण अकथयत् “Dr NS Ramanuja Tatacharya is the greatest living Indian philosopher” इति।

पाश्चात्यदार्शनिकः ग्रन्थकारश्च Prof Stephen H Phillips ‘Classical Indian Metaphysics’ नाम्नि स्वग्रन्थे अाचार्यवर्याणां साहाय्यामन्तरेण एवं लिखति –

Concerning Gangesa and New Logic, I worked with Dr NS Ramanuja Tatacharya, who edited most of Gangesa’s philosophic masterpiece, the tattvacintamani. In Tirupati, I made a tape reading of a reading and interpretation of sections of Gangesa by Dr Tatacharya, who, in Sanskrit, patiently explained the text. Several passages in my translations here in chapter 5 might well have remained incomprehensible did I not have, what is in effect, a Sanskrit commentary by Dr Tatacharya on tape.

निम्नलिखितमपि पठितव्यं

http://www.thehindu.com/todays-paper/tp-national/tp-tamilnadu/for-sanskrit-scholar-small-salary-meant-no-distractions/article3638702.ece

अहो भाग्यमस्माकं यदेवंविधगुणगणगरिष्ठानामाचार्याणां कीर्तिः अद्यापि भारते सकलभुवने च तनोति।

२०१६-०१-२६ मङ्गलवासरः (2016-01-26 Tuesday)

आधिक्यम् (In abundance)

अपि in majority इति अर्थे आधिक्यं वा बाहुल्यं वा बहुत्वं उपयोक्तुं शक्यते? यथा – तस्मिन् विद्यालये बालिकानाम् आधिक्यं/बाहुल्यं/बहुत्वम् अस्ति।

२०१६-०१-२६ मङ्गलवासरः (2016-01-26 Tuesday)