क्रियायोगाभ्यासः (Kriya Yoga Practice)

अद्य अस्माकं क्रियायोगस्य वार्षिकः अभ्यासकार्यक्रमः पूर्णताम् अगच्छत्। प्रतिवर्षं स्वामिसमर्पणानन्दः आगच्छति द्वाभ्यां दिवसाभ्याम् अत्र तिष्ठति। सः अस्मान् अभ्यासं कारयति च। अस्मिन् वर्षे तेन सह स्वमिप्रबोधानन्दः अपि आसीत्।

२०१२-०९-३० रविवासरः (2012-09-30 Sunday)

निष्ठा (Dedication)

अद्य क्रियायोगस्य दीक्षायाः परं स्वमिनौ तस्य अभ्यासम् अकारयतः। अभ्यासाय एका महिला चतुर्होरात्मकात् दूरात् अत्र आगच्छत्। सा सायंकाले प्रत्यागच्छत् श्वः पुनः प्रातः नववादने अत्र आगमिष्यति। मया सा निवेदिता अस्माकं गृहे तिष्ठतु इति किन्तु सा अवदत् तस्याः गृहे कुक्कूरौ स्तः तस्मात् तया गमनीयम् इति। सा रात्रौ एकादशवादने तत्र प्राप्स्यति प्रातः चतुर्वादने ततः केन्बरनगराय यात्राम् आरप्स्यते।

२०१२-०९-२९ शनिवासरः (2012-09-29 Saturday)

स्वामिसमर्पणानन्दः (Swami Samarpanananda)

अद्य क्रियायोगस्य शिक्षकः स्वामिसमर्पणानन्दः केन्बरानगरम् आगच्छत्। तेन सह स्वामिप्रबोधानन्दः अपि अस्ति। अद्य स्वामिसमर्पणानन्देन मन्दिरे क्रियायोगविषये व्याख्यानं दत्तम्। सः श्वः जनान् क्रियायोगे दीक्षिष्यते।

२०१२-०९-२८ शुक्रवासरः (2012-09-28 Friday)

जनाः आगच्छन् (People came)

अद्य सायंकाले नवरात्रि-उत्सवस्य उपकल्पनाय जनाः अस्माकं गृहे सम्मिलितवन्तः

२०१२-०९-२७ गुरुवासरः (2012-09-27 Thursday)

हिन्दीपाठः (Hindi Lesson)

अहं प्रौढजनान् हिन्दीभाषां अध्यापयामि। प्रवर्तनं सत्रं षठ्सप्ताहात्मिकम् अस्ति। अस्मिन् सत्रे एकः छात्रः अस्ति यस्य व्यवसायः उदयपुरनगरे अस्ति तस्मात् सः हिन्दीभाषां शिक्षते। उदयपुरनगरे मम गृहम् अपि अस्ति। अयं रोचकः संयोगः अस्ति।

२०१२-०९-२६ बुधवासरः (2012-09-26 Wednesday)

प्रेयान् (Dear Friend)

प्रेयान् प्रेयांसौ प्रेयांसः
प्रेयांसम् प्रेयांसौ प्रेयसः
प्रेयसा प्रेयोभ्याम् प्रेयोभिः
प्रेयसे प्रेयोभ्याम् प्रेयोभ्यः
प्रेयसः प्रेयोभ्याम् प्रेयोभ्यः
प्रेयसः प्रेयसोः प्रेयसाम्
प्रेयसि प्रेयसोः प्रेयस्सु/प्रेयःसु
हे प्रेयन् हे प्रेयांसौ हे श्रेयांसः

२०१२-०९-२५ मङ्गलवासरः (2012-09-25 Tuesday)

दिव्यांशुः आगच्छति (Divyanshu Comes)

दिव्यांशुः रात्रौ सार्धनववादने सिडनीनगरतः आगच्छत्। कार्यालये अधिकं कार्यम् अस्ति तस्मात् अहं तत् कालं यावत् कार्यालये एव आसम्। दिव्यांशुः कथयति भवन्तौ सदैव विलम्बेन मम सर्वयानस्थले नेतुं आगच्छतः इति। तस्मात् अहं यथाकालं तत्र प्राप्तवान्।

२०१२-०९-२४ सोमवासरः (2012-09-24 Monday)

द्वितीया विभक्तिः – ३ (Accusative Case – 3)

अभिनिविशते धिक् त्वाम् अभिक्रुध्यति निन्दति।
उपर्युपरि चाधोऽधः अभिद्रुह्यति चाध्यधि॥
सुरभारती – चतुर्थः भागः – Sanskrit Karyalaya, Sri Aurobindo Ashram, Pondicherry 605002

२०१२-०९-२३ रविवासरः (2012-09-23 Sunday)

आचार्यः अध्यापयिष्यति (Acharya will teach)

मम आचार्यः माम् अव्ययीसमासम् अध्यापयिष्यति। अहं मन्ये अव्ययीसमासः उपयोगी अस्ति इति। अव्ययीसमासेन निर्मिताः शब्दाः अव्ययीशब्दाः सन्ति तस्मात् तेषाम् उपयोगः सरलः भवति।

२०१२-०९-२२ शनिवासरः (2012-09-22 Saturday)

द्वितीया विभक्तिः – २ (Accusative Case – 2)

गृहम् अभितः/परितः/सर्वतः (गृहस्य चतुर्दिशम्) वृक्षाः सन्ति।
अभ्यासं विना/अन्तरेण/ऋते विद्या न भवति।
मम भ्राता नगरम् अध्यास्ते (नगरे अस्ति)।
गुरुम् अनु (गुरोः पृष्ठतः/पश्चात्) शिष्यः गच्छति।
रामं श्यामं च अन्तरा (रामस्य श्यामस्य च मध्ये) गोविन्दः उपविशति।
कटकं निकषा (कटकस्य निकटे) महानदी प्रवहति।
मङ्गलवारात् गुरुवारं यावत् (गुरुवारपर्यन्तम्) अवकाशः अस्ति।
सः दरिद्रं प्रति दयां करोति।
अश्वः द्रुतं धावति।
सुरभारती – चतुर्थः भागः – Sanskrit Karyalaya, Sri Aurobindo Ashram, Pondicherry 605002

२०१२-०९-२१ शुक्रवासरः (2012-09-21 Friday)