प्रौढत्वे अन्यं सोपानम् आरूढम् (Climbed another step in maturity)

अद्य मयि एकः विचारः अवतरितः। समाजकार्यं न केनापि सम्प्रदायेन कर्तव्यम्। अनेन संमिश्रणेन हानिः जायते। पश्यतु यत् मया अद्य लिखितम्

२०२२-०१-३१ सोमवासरः (2022-01-31 Monday)

पक्षिणां रवः (Singing of Birds)

प्रायः अस्मिन् ऋतौ वृक्षाः विटपाश्च कपिलाच्छादनं धारयन्तीव दृश्यन्ते। किन्तु अस्मिन् वर्षे भृशं वर्षा अभूत् तस्मात् सर्वत्र हरितोऽस्ति यत्र पक्षिणः रमन्ते सर्वत्र पक्षिकुलानि दृश्यन्ते तेषां रवः निरन्तरं श्रूयते च। सः रवः आह्लादकोऽस्ति। न पूर्वं केन्बरानगरे अस्मिन् ऋतौ सः रवः श्रुतः।

२०२२-०१-३० रविवासरः (2022-01-30 Sunday)

आम्नायः (Sacred Tradition)

दक्षिणाम्नायशृङ्गेरीशारदापीठभूषणम्।
नमामि भारतीतीर्थं दक्षिणास्यनवाकृतिम्॥१ गुरुवर्यदशश्लोकी॥
म्ना अभ्यासे। शिति स्मर्तव्यम् – पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः (७.३.७८)
आङ् म्ना घञ् युक् सुँ आम्नायः श्रुतिः वेदः सम्प्रदायः निगमः उपदेशः कुलम् आगमः कुलक्रमः शिक्षादानम् तन्त्रशास्त्रम् अभ्यासः आम्रेडनम् आलोचनम्।

२०२२-०१-२९ शनिवासरः (2022-01-29 Saturday)

कृदन्तरूपाणि (Kridant Forms)

अष्टाध्यायी इति जालपत्रे धातूनां कानिचित् कृदन्तरूपाणि स्थापितानि। पश्यतु
तत्र कृत्प्रक्रियादर्शिकापि अस्ति। पश्यतु

२०२२-०१-२८ शुक्रवासरः (2022-01-28 Friday)

न्यूटनहेलीदेवयोः स्तेयम् (Newton and Halley’s Piracy)

वयं न्यूटनमहाभागं कोऽपि देव आसीत् इति मन्यामहे। न तस्य महाभागस्य सर्वाणि वीर्याणि देवतुल्यानि आसन्।
Flamsteed, meticulous to a fault, had spent forty years mapping the heavens – and had still not released his data. He kept it all under seal at Greenwich. Newton and Halley managed to get hold of most of Flamsteed’s records from the Royal Observatory, and published their own pirated edition of his star catalog in 1712. Flamsteed retaliated by collecting three hundred of the four hundred printed copies, and burning them. pp. 59-60, Dava Sobel, Longitude: The True Story of a Lone Genius Who Solved the Greatest Scientific Problem of His Time, Harper Perennial, 2011.
स्तेयं कथं न करणीयम्। सङ्कलानां यत् स्तेयं न्यूटनहेलीमहाभागाभ्यां कृतं तेषु दोषा आसन् यस्मात् नाविकानां महतोऽपहारस्य सम्भावनासीत्।
स्तेन + यत् = स्तेयम् स्तेनाद्यन्नलोपश्च (५.१.१२५)

२०२२-०१-२७ गुरुवासरः (2022-01-27 Thursday)

परिमृष्टा (Caught)

शकारः –
अन्धकारे पलायमाना माल्यगान्धेन सूचिता।
केशवृन्दे परामृष्टा चाणक्येनेव द्रौपदी॥१.३९ मृच्छकटिकम्॥
परामृष्टा गृहीता।
मृश् आमर्शने to touch, handle, consider, reflect, deliberate.
In the darkness, given away by the smell of the garland, the one running, is held by her hair like Chanakya (held) Draupadi.

२०२२-०१-२६ बुधवासरः (2022-01-26 Wednesday)

उपरता केशकर्तनविपणिः (Closed Barber Shop)

गतत्रयस्त्रिंशतं वर्षं यत्र मम केशकर्तनमभवत् सा विपणि इदानीमुपरता। एकं सत्रं पूर्णम्। इति अध्यायः। अस्य जीवनस्य पुस्तकस्य शनैः शनैः अध्यायाः अवसिताः भवन्ति। चिन्तयामि केनापि नूतनपुस्तकमुद्घाटनीयम्।

Salon Closed – 25 Jan 2022

२०२२-०१-२५ मङ्गलवासरः (2022-01-25 Tuesday)

ऐतिहासिकदिवसः (Historical Day)

अन्ते मया सर्वाणि आयुधानि स्रस्तानि समर्पितानि च। गुगलस्य प्रस्तावः स्वीकृतः। पञ्चविंशतिडोलरमिते व्यये विस्तृतं निधानं प्राप्तम्।

100 GB Google Storage – A Historical Day

२०२२-०१-२४ सोमवासरः (2022-01-24 Monday)

दृप्यामि (I am proud)

हरगोविन्दस्य वीर्याणि पठित्वाहं दृप्यामि। भारतीयाः निर्धनाः सन्ति इति सर्वे विलपन्ति। धनवन्तः इति बुभूषन्ति चेत् धनस्य आसक्तिः धनस्य लोलुपता प्रथमः कल्पः भवेत्। ये धनेभ्यः किमपि चिकीर्षन्ति ते एव सधनाः भवन्ति। यदा भारतीयाः विदेशे हरगोविन्देन कृतानि तादृशानि कार्याणि करिष्यन्ति तदैव भारतीयाः धनमार्गे गमिष्यन्ति।

२०२२-०१-२३ रविवासरः (2022-01-23 Sunday)

वाङ्मात्रेण जापयिष्यामि (I will greet by mere words)

विदूषकः – (तथास्थित एव) भो वयस्य न मे हस्तपादं प्रसरति तद्वाङ्मात्रेण जापयिष्यामि। जयतु जयतु भवान्। अभिज्ञानशाकुन्तले द्वितीयेऽङ्के।
जि जये णिच् मिप् = जापयिष्यामि। जि इत्यस्य सार्वधातुकार्धधातुकयोः (७.३.८४) इति सूत्रेण गुणः। तस्य गुणस्य आत् भवति क्रीङ्जीनां णौ (६.१.४८) इति सूत्रेण। अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ (७.३.३६) इति सूत्रेण पुगागमः।

२०२२-०१-२२ शनिवासरः (2022-01-22 Saturday)