सुनीलवर्यः (Sunil)

अद्य अहं वोशिंटननगरात् एम्ट्रेक-संयाने डेलावेयरराज्ये नुवार्कनगरम् आगच्छम्। अत्र सुनीलवर्यः वसति। अहं सुनीलवर्यस्य गृहे अद्य रात्रौ स्थास्यामि। प्रायः अष्टवर्षपूर्वम् अहं सुनीलवर्येण सह शोधकार्यम् अकरवम्।

२०१४-०७-३१ गुरुवासरः (2014-07-31 Thursday)

रजितवर्यः (Rajit)

अद्य सायङ्काले रजितवर्येण सह अमिलम्। सः लोसेञ्जलिसनगरतः अद्य चतुर्वादने वोशिंटनमगरम् आगच्छत्। तेन सह एकस्मिन् मेक्सिकन्-भोजनालये भोजनम् अखादम्। तेन सह भविष्याणां शोधकार्याणां चर्चाम् अकरवम्।

२०१४-०७-३० बुधवासरः (2014-07-30 Wednesday)

शुभाशिषवर्यः (Shubhashis)

अद्य सायङ्काले अहं शुभाशिषवर्यं तस्य परिवारं च अमिलम्। अहं तस्य गृहम् अगच्छम्। तैः मिलित्वा मां आनन्दः अन्वभवत्। शुभाशिषवर्यः १९७९-८१काले मम सहपाठी आसीत्।

२०१४-०७-२९ मङ्गलवासरः (2014-07-29 Tuesday)

क्रिसमुलेनीवर्यः (Chris Mullaney)

अद्य अहं सायङ्काले क्रिसमुलेनीवर्येण सह अमिलम्। अहं तेन सह प्रायः विंशतिवर्षं परं अमिलम्। आवां रात्रिभोजनम् भारतीय-भोजनालये अखादाव।

२०१४-०७-२८ सोमवासरः (2014-07-28 Monday)

अपागच्छम् (Departed)

अद्य अहं केन्बरानगरतः वोशिंटननगराय अपागच्छम्। दिव्यांशुः मां प्रातः नववादने विमानस्थलम् अनयत्। त्रिवारं विमानं परिवर्त्य रात्रौ सार्ध-एकादशवादने मया वोशिंटननगरं प्राप्तम्।

२०१४-०७-२७ रविवासरः (2014-07-27 Sunday)

उगिदचां सर्वनामस्थानेऽधातोः॥७।१।७०॥ (num insertion instruction)

उगिदचां सर्वनामस्थानेऽधातोः॥७।१।७०॥  http://avg-sanskrit.org/avgdocs/doku.php?id=sutras:7-1-70
अनुवृत्तिः – अङ्गस्य नुम्
उगित् इति उकारः ऋकारः ऌकारः इत्
मम संशयाः
१ अपि श्रेयस् इति श्री + ईयसुन् अस्ति? कृपया श्रेयस् इति शब्दस्य सिद्धिं दर्शयतु।
२ अपि ईयसुन् इति प्रत्ययः उगित् अस्ति?
श्रेयान् श्रेयांसौ श्रेयांसः
श्रेयांसम् श्रेयांसौ श्रेयसः
श्रेयसा श्रेयोभ्याम् श्रेयोभिः
श्रेयसे श्रेयोभ्याम् श्रेयोभ्यः
श्रेयसः श्रेयोभ्याम् श्रेयोभ्यः
श्रेयसः श्रेयसोः श्रेयसाम्
श्रेयसि श्रेयसोः श्रेयःसु
हे श्रेयन् हे श्रेयांसौ हे श्रेयांसः

२०१४-०७-२६ शनिवासरः (2014-07-26 Saturday)

शरदः शतम् (A Hundred Winters)

बहुप्रचलितम् आशीर्वचनम् अस्ति – त्वं जीव शरदः शतं वर्धमानः। यदि आशीर्वचनं कन्यायै दीयते तर्हि अपि तम् आशीर्वचनं भवति – त्वं जीव शरदः शतं वर्धमाना। कृपया अवबोधयतु।

२०१४-०७-२५ शुक्रवासरः (2014-07-25 Friday)

पुँल्लिङ्गः (Masculine Gender)

पुँल्लिङ्गः इति शब्दस्य विग्रहं कृपया दर्शयतु। अपि पुंस् इति प्रातिपदिकम् अस्ति? तत्र अनुस्वारः कुत्र आगतः? अपि अन्ये अपि अनुस्वारयुक्तानि प्रातिपदिकानि सन्ति?

२०१४-०७-२४ गुरुवासरः (2014-07-24 Thursday)

तालु (Palate)

उकारान्ताः शब्दाः पुंसि स्युः। अत्रापवादाः – श्मश्रुजानुवसुस्वाद्वश्रुजतुत्रपुतालुशब्दा नपुंसके भवन्ति।
यदि तालुनः (६।१) ऊर्ध्वभागे इकारः उच्चार्यते तर्हि स उदात्तसंज्ञकः भवति। (पृष्ठः १५, व्यावहारिकं पाणिनीयम्, २००९, डॉ नरेन्द्रः, संस्कृतकार्यालयः, श्रीअरविन्दाश्रमः, पुदुच्चेरी)।

२०१४-०७-२३ बुधवासरः (2014-07-23 Wednesday)

धूर्तः मनमोहनसिंहः (Scoundrel Manmohan Singh)

आ पञ्चादशवर्षात् अहं वदामि मनमोहनसिंहः धूर्तः अस्ति। सः सोनियामहाभागयाः राहुलमहाभागात् अपि धूर्तत्तमः अस्ति। कृपया पश्यतु –

http://www.thehindu.com/news/national/pmo-bhardwaj-were-involved-centre/article6238692.ece

२०१४-०७-२२ मङ्गलवासरः (2014-07-22 Tuesday)