अभिगच्छति (Visits)

व्यापृतया क्रमेण विमानस्थानकानां प्रथमानि दशस्थानानि अस्मिन् जालपत्रे दत्तानि सन्तिhttp://edition.cnn.com/2016/09/09/aviation/worlds-busiest-airports-final-2015/index.html
अहं तानि सर्वाणि दशस्थानकानि अभ्यगच्छम्। ते विमानस्थानकानि व्यापृतानि सन्ति तस्मात् मन्ये अधिकांशजनाः अपि तानि स्थानकानि अभ्यगच्छन्।

२०१६-०९-३० शुक्रवासरः (2016-09-30 Friday)

प्रहारः (Attack)

सेनाशिविरस्य उपरि आतङ्किनां प्रहारस्य समाचारं श्रुत्वा दुखं भवति। किं करणीयम्।

२०१६-०९-१८ रविवासरः (2016-09-18 Sunday)

प्रमुखस्वामिने स्मरणसभा (Tribute to Pramukh Swami)

अद्य केन्बरास्वामिनारायणसमाजेन प्रमुखस्वामिने स्मरणसभा आयोजिता। प्रमुखस्वामी १३अगस्त२०१६तिथौ दिवं गतः। सभायां अहम् अपि मम वचनेन प्रमुखस्वामिनं श्रद्धाञ्जलिम् अर्पयम्।

२०१६-०९-१७ शनिवासरः (2016-09-17 Saturday)

१०-०९-२०१६तिथौ संस्कृतवार्तावली

ऋषिराजवर्य,

नमो नमः।
रेखामहाभागया सह भवता प्रस्तुता १०-०९-२०१६तिथौ संस्कृतवार्तावली मह्यं भृशम् अरोचत।
आमोदोयं द्विगुणीकृतः समापतितेन शिक्षकदिवसेन इति उपादेयताम् इति अन्ये च रेखावर्यायाः शब्दप्रयोगाः मनोहराः आसीत्।
शिक्षकदिवसोपलक्षे भवतः शिक्षकयोः हरदत्तगणदासयोः स्पर्धायाः उल्लेखम् अपि बहु समीचीनम् आसीत्।
शिष्टा/श्लिष्टा क्रिया कस्यचिदात्मसंस्था
संक्रान्तिरन्यस्य विशेषयुक्ता।
यस्योभयं साधु स शिक्षकाणां
धुरि प्रतिष्ठापयितव्य एव॥ मालविकाग्निमित्रम् १.१६॥
सुनीलवर्यस्य शिक्षकदिवसस्य पुरस्कारवितरणकार्यक्रमस्य विवरणं रुचिकरम् आसीत्।
मङ्गलावर्या यदा संस्कृतसम्भाषणम् आरभते तदा मनसि इच्छा जागर्ति सा कदापि न विरमेत्। तस्याः मधुलिप्तां वाणीं सरलं मनोहरं च संस्कृतसम्भाषणं श्रुत्वा एकं विशेषं सन्तोषम् अनुभवामि।  

पूर्वमेव अहं मन्ये चन्द्रगुप्तवर्यस्य संस्कृतानुरागः मम अनुरागः च इति एकमेव वस्तु आवयोः समानम् अस्ति किन्तु साक्षात्कारे मया ज्ञातं सः अपि मम शिक्षासंस्थानेन बङ्गलुरुस्थेन भारतीयविज्ञानसंस्थानेन शिक्षाम् अप्राप्नोत्। अयं तु हर्षविषयः। मम मनसि तस्मै विशेषं आदरस्थानम् अस्ति।
इति भवदीयः
हिमांशुः

संस्कृतवार्तावली २-९-२०१६तिथौ

ज्योतिमहाभागा, गवीशवर्य,
भवद्भ्यां २-९-२०१६तिथौ प्रस्तुता वार्तावली मह्यम् अतीव अरोचत। वर्धापयामि।
कार्यक्रमेषु रञ्जनवर्यस्य साक्षातकारं तु अतीव ज्ञानवर्धकं मनोहरं च आसीत्। रन्ञ्जनवर्यस्य मधुरस्वरं संस्कृतभाषणं च आनन्ददायकम् आसीत्। अर्धहोरावधिः कुत्र गच्छति इति न जाने।
समाचारे औस्ट्रेलियादेशस्य उल्लेखम् आसीत् तस्मै धन्यवादः।  केनबरानगरे अपि संस्कृतस्य पाठनं प्रचारं च भवति। प्राप्ते अवसरे तस्य अपि उल्लेखं भवेत् इति प्रार्थये।
भवद्भ्यां मम नैके धन्यवादाः।
इति भवदीयः
हिमांशुः

हरितः वृक्षः (Green Tree)

यस्य वृक्षस्य चित्रं गतसप्ताहे मया स्थापितं सः वृक्षः अद्य हरितः अभवत्।

122kellewaytree13sept2016

२०१६-०९-१४ बुधवासरः (2016-09-14 Wednesday)

संस्कृतपाठः (Sanskrit Lesson)

अद्य सायं मन्दिरे सार्धषट्वादनात् सार्धसप्तवादनपर्यन्तं संस्कृतपाठः आसीत्। वर्गे पञ्च युवानः सन्ति पञ्च वयस्कराः सन्ति। सर्वेभ्यः श्रीअरविन्दाश्रमेण प्रकाशिता सरलसंस्कृतसरणिः रोचते। अद्य वयं सरण्याः पञ्चमपाठम् आरभामहि।

२०१६-०९-१३ मङ्गलवासरः (2016-09-13 Tuesday)

कुञ्चिकां व्यस्मरम् (Forgot the key)

अद्य अहं मम कार्यालयकक्षस्य कुञ्चिकां गृहे व्यस्मरम्। अद्य अहं कार्यालये अष्टवादने प्राप्नवम् किन्तु साहाय्यकर्मकराः सार्धाष्टवादने आगच्छन्ति तस्मात् मया प्रतिक्षणीयम्। अहम् अचिन्तयं कक्षात् बहिः स्थित्वा सङ्गणित्रेण अन्यकार्यं करिष्यामि किन्तु दिष्टेन मम सङ्गणित्रं अन्तर्जालेन सह सम्पर्कं कर्तुं न अशक्नोत्। अतः मम अर्धहोरावधिः नष्टः अभवत्।

२०१६-०९-१२ सोमवासरः (2016-09-12 Monday)

साक्षात् औस्ट्रेलियादेशः (Australia Personified)

अस्मत् कृते नोर्मन-मे-वर्यः साक्षात् औस्ट्रेलियादेशः आसीत् – http://www.abc.net.au/news/2016-09-11/legendary-abc-broadcaster-norman-‘nugget’-may-dies/7820584

सः अद्य दिवं गतः इति समाचारं श्रुत्वा दुःखितः अस्मि। तस्य मोक्षाय प्रार्थये।

normanmay

Courtesy ABC Australia

२०१६-०९-११ रविवासरः (2016-09-11 Sunday)

http www bbc com news world asia india…

http://www.bbc.com/news/world-asia-india-37241762?post_id=10154309427039660_10154509825759660#_=_

न जाने कथं बीबीसी इति अस्याः वार्तायाः प्रकाशनम् अन्वमन्यत।

पठतु – http://www.nytimes.com/2016/08/27/world/asia/mother-teresa-critic.html