कारकप्रकरणम् – त्रिपञ्चाशदधिकशततमं पृष्ठम् – द्वितीयः भागः (Second Case (Part II) – Exercises p, 153)

कारकप्रकरणम् (द्वितीया विभक्तिः – द्वितीयः भागः) – त्रिपञ्चाशदधिकशततमं पृष्ठम् (१५३)}
बृहदनुवादचन्द्रिका – चक्रधर नौटियाल हंस शास्त्री

११. विद्या धर्म की और जाती है — विद्या धर्मम् अनुगच्छति। १२. परिश्रम के बिना विद्या नहीं होती है — न परिश्रमं विना विद्या भवति। १३. सिपाही वन तक चोर का पीछा करता है — राजपुरुषः वनं यावत् चौरम् अनुधावति। १४. मेरा गाँव काशी के समीप है — मम ग्रामः काशीं निकषा अस्ति। १५. हम ईश्वर को नमस्कार करते है — वयम् ईश्वरं नमस्कुर्मः। १६. अवन्ती के चारों ओर दो कोश तक सुन्दर बगीचे हैं — अवन्तीं परितः द्वौ क्रोशौ सुन्दराणि उद्यानानि सन्ति। १७. राम चित्रकूट पर्वत पर बहुत दिन रहे — रामः चित्रकूटपर्वतं बहुदिवसान् अध्यवसत्। १८. जो स्वार्थ के बिना दूसरों को सताते हैं उन्हें धिक्कार है — धिक् तान् ये स्वार्थं विना अन्यान् पीडयन्ति। १९. हाय मेरा दुर्भाग्य कि मेरा इकलौता पुत्र भी मर गया – हा दुर्भाग्यं मम एकलः पुत्रः अपि दिवं गतः। २०. जो कृष्ण का भक्त नहीं है उसके ऊपर विपत्ति पडे — यः कृष्णस्य भक्तः नास्ति तम् उपर्युपरि विपत्तिः पतेत्।

आचार्येण अनूदितानि वाक्यानि। 

विद्या धर्ममन्वेति। न परिश्रमं विना विद्यां प्राप्नोति। भटः आवनं चौरमनुधावति। मम ग्रामः उपकाशीमस्ति वयमीशवरं नमस्कुर्मः। अवन्तीपरितः द्विक्रोशपर्यन्तं रमणीयानि उपवनानि सन्ति । रामः चित्रकूटपर्वतं  चिरमध्यवसत् अथवा  चिरं कालमध्यवसत्। हा अयं दुर्भाग्यस्य एकलः पुत्रः अपि दिवंगतः।

२०१९-१२-३१ मङ्गलवासरः (2019-12-31 Tuesday)

न अवस्यति (Does not complete)

सो [षो अन्तकर्मणि] इति दिवादिः परस्मैपदी सकर्मकः अनिट् धातुरस्ति।
न जाने कथं सः कार्यं न अवस्यति इति। स्यति इत्यस्य सिद्धये ओतः श्यनि (७.३.७१) इति स्मर्तव्यम्।

व्यवस्यति इति कार्ये व्यापृतोऽस्ति (busy or engaged).
अहो बत महत्पापं कर्तुं व्यवसिता वयम् (गीता १.४५)।
व्यवसो + क्त + सुँ = व्यवसितम्। अत्र द्यतिस्यतिमास्थामित्ति किति (७.४.४०) इति सूत्रं स्मर्तव्यम्।

व्यवसाययन्ति (makes (someone) engaged in work) इति णिजन्तरूपम्।
व्यवसाययामि यान् कार्येषु न ते व्यवस्यन्ति।
न मां व्यवसाययति तदापि व्यवसितोऽहम्॥

२०१९-१२-३० सोमवासरः (2019-12-30 Monday)

अवबोधनम् (Understanding)

अद्य पुनः मम मनसि शङ्काभवत् आद् गुणः (६.१.८७) इति सूत्रेण कस्य गुणः भवति। अनुवृत्त्या सहेदं सूत्रमस्ति आद् गुणः अचि एकः पूर्वपरयोः संहितायाम्।
देव + ऋषिः अत्र आदस्ति तत् परमचि अस्ति कथं अकारस्य ऋकारस्य च स्थाने एकः अकारः आदेशः न भवति?
अन्यञ्च कस्य आदेशः भवति इत्यस्य सूचनं षष्ठीविभक्तिः ददाति किन्तु अस्मिन् सूत्रे षष्ठिविभक्तिः नास्ति। तस्मिन्निति निर्दिष्टे पूर्वस्य (१.१.६६) इत्यस्मात् तस्मादित्युत्तरस्य (१.१.६७) इत्यस्मात् च षष्ठिविभक्तेः निर्देशनं भवति।
मन्ये अकारः गुणः एव अस्ति तस्मा ऋकरस्य गुणः एकादेशः भवति।
देव + ऋषिः = देवर्षिः।

२०१९-१२-२९ रविवासरः (2019-12-29 Sunday)

आप्यायन्तु ममाङ्गानि (Grow (make stronger) my body parts)

आप्यायन्तु ममाङ्गानि अत्र कथं परस्मैपदी?
प्यैङ् वृद्धौ इति आत्मनेपदी भ्वादिः अकर्मकः अनिट् धातुः अस्ति।
ओँप्यायीँ वृद्धौ इत्यपि आत्मनेपदी भ्वादिः अकर्मकः अनिट् धातुः अस्ति।

२०१९-१२-२८ शनिवासरः (2019-12-28 Saturday)

अनुवदति अनुवदते (Repeats)

वदँ व्यक्तायां वाचि भ्वादिः परस्मैपदी सकर्मकः सेट् धातुरस्ति।
किन्तु कठः कलापस्य अनुवदते (People of kaTha branch follow the chanting of the kalaapa branch (of Veda)) इत्यस्मिन् वाक्ये अनुवदते इत्यामनेपदी अस्ति। कथमात्मनेपदी?
मया चिन्तितं कथमस्य समास्याया निराकरणं समाधानं वा करिष्यामि। कुत्र पश्यामि? तदा अनुबोधित आसं नीलेशवर्यस्य जालपत्रमस्ति यत्र भाष्येषु अन्वेषणं शक्यम्। मया नीलेशवर्यस्य निर्मिते जालपत्रे अनुवदते इत्यस्यान्वेषणमकरवम्। तस्मिन् कृते अनोरकर्मकात् (१.३.४९) इति सूत्रं प्राप्तम्। तस्मिन् प्राप्ते कदा कदा वद् इति धातोः आत्मनेपदी आगच्छति इति ज्ञातम् यत् (१.३.४७) इति सूत्रादारभ्य (१.३.५०) इति पर्यन्तमागतेषु सूत्रेषु निर्दिष्टम्।

शास्त्रे वदते (शास्त्र में उसकी बुद्धि प्रकाशित होती है)। कर्मकरान् उपवदते (नौकरों को सान्त्वना देता है)। व्याकरणे वदते (व्याकरण का सम्यक् ज्ञान प्राप्त करता है)। गेहे वदते (घर में पुरुषार्थ करता है)। क्षेत्रे विवदन्ते (खेत में विवाद करते हैं)। मन्त्री राजानम् उपवदते (मन्त्री राजा से एकान्त में सलाह करता है)।

२०१९-१२-२७ शुक्रवासरः (2019-12-27 Friday)

पूर्णमदः (This is infinite (and perfect))

एकेन मित्रेण निर्दिष्टम् Infinity and the Mind – The Science and Philosophy of the Infinite by Rudy Rucker, 1982 इति पुस्तकं पठत्विति। पुस्तके तृतीये पृष्ठे अस्ति In Aristotle’s words, “… being infinite is a privation, not a perfection but the absence of a limit …”
मन्ये भारतीयानामृषीणां असङ्ख्यम् अपरिमेयम् इति किमस्ति तस्य कल्पना सुदृढासीत्। त असङ्ख्यं अपरिमेयं पूर्णमित्येव (perfect) मन्यन्ते। ते उद्घोषयन्
पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते॥

२०१९-१२-२६ गुरुवासरः (2019-12-26 Thursday)

कारकप्रकरणम् (द्वितीया विभक्तिः – प्रथमः भागः) पृष्ठम् १५३ (Second Case (Part I) – Exercises p, 153)

कारकप्रकरणम् (द्वितीया विभक्तिः – प्रथमः भागः) – त्रिपञ्चाशदधिकशततमं पृष्ठम् (१५३)}
बृहदनुवादचन्द्रिका – चक्रधर नौटियाल हंस शास्त्री

१. अलकनन्दा तथा भागीरथी के बीच में देवप्रयाग है — अलकनन्दां भागीरथीं चान्तरा देवप्रयागः। २. ग्राम के दोनों और वन हैं — ग्राममुभयतः वनमस्ति। ३. ज्ञान के बिना सुख नहीं होता है — ज्ञानमन्तरेण न सुखम्। ४. सदा सच बोलना चाहिए — सदैव सत्यं वदेत्। ५. छात्र दस वर्षों तक अध्ययन करता है — छात्रः दश वर्षाणि अधीते। ६. सीता कोस भर चलती है — सीता क्रोशं चलति। ७. नगर के नीचे-नीचे जल है – नगरमधोऽधः जलमस्ति। ८. नगर और विद्यालय के बीच में तलाब है — नगरं विद्यालयं चान्तरा सरोवरोऽस्ति। ९. राजा चोर को दण्ड देता है – नृपः चौरं दण्डयति। १०. दुर्जन सज्जन को दुःख देता है — दुर्जनः सज्जनं दुःखयति।

२०१९-१२-२५ बुधवासरः (2019-12-25 Wednesday)