न इव इत्यर्थे (na – identical, same, like)

नदं न सिन्धुमिव इति सायणाचर्यः। न उपमा इति मेदिनी।

संहिता

न॒दं न भि॒न्नम॑मु॒या शया॑नं॒ मनो॒ रुहा॑णा॒ अति॑ य॒न्त्यापः॑ ।
याश्चि॑द्वृ॒त्रो म॑हि॒ना प॒र्यति॑ष्ठ॒त्तासा॒महि॑ः पत्सुत॒ःशीर्ब॑भूव ॥ मण्डलम् १, सूक्तम् ३२, ऋक् ८

पदपाठः

न॒दम् । न । भि॒न्नम् । अ॒मु॒या । शया॑नम् । मनः॑ । रुहा॑णाः । अति॑ । य॒न्ति॒ । आपः॑ ।
याः । चि॒त् । वृ॒त्रः । म॒हि॒ना । प॒रि॒ऽअति॑ष्ठत् । तासा॑म् । अहिः॑ । प॒त्सु॒तः॒शीः । ब॒भू॒व॒ ॥

२०२०-०८-३१ सोमवासरः (2020-08-31 Monday)

बुभूषन् (Wanting to become)

भू सन् शतृ सुँ = बुभूषन्। अत्र सन्यङोः (६.१.९) इति सूत्रेण द्वित्वं तत् परं ह्रस्वः (७.४.५९) इति सूत्रेण उकारः, अभ्यासे चर्च (८.४।) इत्यनेन बकारः।

संहिता

अ॒पाद॑ह॒स्तो अ॑पृतन्य॒दिन्द्र॒मास्य॒ वज्र॒मधि॒ सानौ॑ जघान ।
वृष्णो॒ वध्रि॑ः प्रति॒मानं॒ बुभू॑षन्पुरु॒त्रा वृ॒त्रो अ॑शय॒द्व्य॑स्तः ॥ मण्डलम् १, सूक्तम् ३२, ऋक् ७

पदपाठः

अ॒पात् । अ॒ह॒स्तः । अ॒पृ॒त॒न्य॒त् । इन्द्र॑म् । आ । अ॒स्य॒ । वज्र॑म् । अधि॑ । सानौ॑ । ज॒घा॒न॒ ।
वृष्णः॑ । वध्रिः॑ । प्र॒ति॒ऽमान॑म् । बुभू॑षन् । पु॒रु॒ऽत्रा । वृ॒त्रः । अ॒श॒य॒त् । विऽअ॑स्तः ॥

२०२०-०८-३० रविवासरः (2020-08-30 Sunday)

रेचलहंटरमहाभागा (Rachel Hunter)

सुविख्याता रेचलमहाभागा गतषण्मासैः सद्गुरोः आश्रममध्यवसत्। यदाहं न्यूजीलेण्डदेशमध्यवसं तदा सा तत्र सुविख्यातासीत् तस्मात् दूरदर्शने दृष्टे तस्याः साक्षात्कारं कथं सा सद्गुरोः आश्रमे कोरोनाविषाणुकाले कालं अयापयत् इति मम उत्सुकता अवर्धत

12112070_895583643850890_5545871089954254067_n

२०२०-०८-२९ शनिवासरः (2020-08-29 Saturday)

अवधूतः (An ascetic)

अव धू क्त सुँ = अवधूतः।
धू धूञ् कम्पने  (to shaketo tremble) स्वादिः  उभयपदी  सकर्मकः  वेट्

अवधूतोपेक्षिते च कम्पिते चाश्रमान्तरे। अतिवर्णाश्रमी योगी अवधूतः स उच्यते।
अक्षरत्वात् वरेण्यत्वात् धूतसंसारबन्धनात्।
तत्त्वमस्यर्थसिद्धत्वादवधूतोऽभिधीयते॥

२०२०-०८-२८ शुक्रवासरः (2020-08-28 Friday)

हास्यकारः पाणिनिः (Panini the humorist)

जनाः मन्यन्ते वैयाकरणाः शुष्कव्यवहारिणः सन्ति। कदाचित् तत् शक्यं किन्तु पाणिनिः हास्यमपि सम्यग् जानाति इति मन्ये। कथम्?
अ अ (८.४.६८) इति अष्टाध्यायी इत्यस्यामन्तिमं सूत्रमस्ति। आदौ अ इ उ ण् इति माहेश्वरसूत्रेण छात्रान् बध्नाति अ अ (८.४.६८) इत्यन्तिमेन सूत्रेण सः छात्राणां विमोचनं करोति। हास्यरसिक एवैवं कर्तुं शक्नोति। तस्मै श्रीपाणिनये नमः। भूयोऽपि नमो नमस्ते।

२०२०-०८-२७ गुरुवासरः (2020-08-27 Thursday)

अरण्ये विवत्सामि (I wish to live in a forest)

यथा उत्तररामचरितम् इति काव्ये रामः कथयति अरण्ये विश्राम्यन्ति मनीषिणाः इति तथाहमपि मन्य एकस्य जन्मनः सर्वाण्यपि वीर्याणि मया कृतानि सन्ति इति तस्मादिदानीमरण्ये विवत्सामि।
वस् + सन् + मिप् = विवत्सामि
अत्र सनि द्वित्वं भवति – सन्यङोः (६.१.९)। द्वित्वे कृते सन्यतः (७.४.७९) इत्यनेन अभ्यासस्य अतः इत् भवति। सः स्यार्द्धधातुके (७.४.४९) इत्यनेन सकारस्य तकारः भवति।

२०२०-०८-२६ बुधवासरः (2020-08-26 Wednesday)

तदाकर्ण्य (Having heard)


भार्गवरामो धनुर्भङ्गमाकर्ण्यागच्छद् किन्त्वस्मिन् श्लोके य आकर्णयति स तु प्राप इति धातोः कर्ता नास्ति। मन्ये क्त्वा इति प्रत्ययान्तस्य शब्दस्य तिङन्तधातोः च कर्तैकमेव भवितुम् अर्हति। किन्तु अत्र कथमेतद्। न जाने। कृपया अवगमयतु।

तदाकर्ण्य धनुर्भङ्गम् आयान्तं रोषभीषणम्।
विजित्य भार्गवं रामं अयोध्यां प्राप राघवः॥१.३९॥

राघवः प्राप। कुत्र प्राप? अयोध्यां प्राप। आयान्तं रोषभीषणं भार्वगरामं विजित्य।

प्र आप – आप्  (व्यप्तौ स्वादिः पर॰ सक॰ अनिट्) + तिप् (लिट्॰ प्र॰ एक॰)

After defeating the furious Bhargavarama who came to Rama upon hearing about the breaking of the bow of Siva, Rama returned to Ayodhya.

२०२०-०८-२५ मङ्गलवासरः (2020-08-25 Tuesday)

मेवाडस्य राणाकुम्भः (Kumbha of Mewar)

आचार्येण सूचितोऽहं राणाकुम्भस्य वीर्याणि न केवलं रणक्षेत्र आसन् किन्तु कलाक्षेत्रेऽप्यासन्। राणाकुम्भः मेदपाटेश्वरः चित्रकूटाधिपतिः इत्यपि आख्यातः। मेदपाटः इत्यपि मेवाडस्य एकमन्यमभिधेयमस्ति।
अहो भाग्यं न इदं मया पूर्वं ज्ञातम्। मम पितामहो राणाकुम्भस्य वंशजयोः फतहसिंहभूपालसिंहयोर्मन्त्र्यासीत्तथाप्यहमिदन्नाजानम्।
राणाकुम्भेन जयदेवस्य गीतगोविन्दम् इति काव्यस्य टीकामलिखत्। तेन संस्कृतभाषायां चत्वारि नाटकान्यपि लिखितानि।
राणाकुम्भस्य निधनं यदा सः पञ्चत्रिंशद्वर्षीय आसीत् तदाभवत्। सोऽल्पायुषोऽपि महान्ति कार्याण्यकरोत्।

300px-Walls_of_Kumbhalgarh
The walls of the fort of Kumbhalgarh extend over 38 km (Wikipedia) Rana Kumbha – 1433-1468 CE

२०२०-०८-२४ सोमवासरः (2020-08-24 Monday)

अकृतम् (Wrongly done or incomplete)

यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम्।
यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः॥गीता १५.११॥
तत्रैव सति कर्तारमात्मानं केवलं तु यः।
पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः॥गीता १८.१६॥

अकृतम् इति मम जीवनस्य कथैव अस्ति।

२०२०-०८-२३ रविवासरः (2020-08-23 Sunday)

केन्बरानगरे हिमपातः (Snow Fall in Canberra)

अद्य केन्बरानगरे हिमपातोऽभूत्। तीव्रः शीतोऽस्ति तीव्रवेगेन पवनः प्रवहति च। पादाभ्यां बहिर्गमनं वीरयोद्धुरेव कार्यमस्ति। तथापि अहं भ्रमणाय बहिरगच्छम्। प्रसन्नोऽस्मि।

12585928-3x2-large
Mount Taylor in Canberra’s south was covered in snow early in the day.(Facebook: Jack Gane)

२०२०-०८-२२ शनिवासरः (2020-08-22 Saturday)