Updates from January, 2012 Toggle Comment Threads | Keyboard Shortcuts

  • Himanshu Pota 11:03 am on January 31, 2012 Permalink | Reply  

    स्वापत्यानि उपदिशतु (Teach to your own children) 

    गत गुरुवासरे भारतस्य गण्तन्त्रदिवसे ओस्ट्रेलियादिवसे अपि मम मित्राणि सिडनीनगरतः अस्मान् मेलितुम् आगच्छन्।
    समाजः इदृषः समृद्धः अस्ति तथापि जनाः कथं दुःखिताः सन्ति अस्मिन् विषये वयं वार्तालापं कुर्मः स्म। मया कथितं जनाः बहिर्मुखिनः सन्ति न तु अन्तर्मुखिनः तस्मात् अन्यानाम् अनुवर्तनं कृत्व दुःखिताः सन्ति इति। तैः अन्यानाम् अनुकरणं न कर्तव्यम् इति। स्वगुणान् एव वर्धनं कुर्वन्तु इति। विलियमराजीववर्याभ्याम् इदं श्रुतं तत् परं विलियमवर्येन उक्तं कथं भवान् स्वापत्यानि इमम् उपदेशं न ददाति। अन्यान् उपदेशनं पूर्वं स्वापत्यानि उपदिशतु इति। तदन्तरं पश्यतु यदि ते भवतः उपदेशान् शृण्वन्ति इति।

    २०१२-०१-३१ मङ्गलवासरः (2012-01-31 Tuesday)

     
  • Himanshu Pota 9:09 pm on January 30, 2012 Permalink | Reply  

    आहरति (She brings) 

    आ + हृ इत्यस्य धातोः अर्थः अस्ति to bring, to fetch.
    सा पुस्तकानि आहरति। तौ भोजनम् आहरतः। ते वस्त्राणि आहरन्ति।
    अपि त्वं मम कृते फलानि आहरसि? युवां किम् आहरथः? यूयं मम भोजनं कदा आहरथ?
    अहं कन्दुकम् आहरामि। आवां यानं कुत्रापि न आहरावः। वयं बालकान् आहारामः।

    २०१२-०१-३० सोमवासरः (2012-01-30 Monday)

     
  • Himanshu Pota 10:54 am on January 29, 2012 Permalink | Reply  

    Useful Sentences 

    This is an old document I had from 1997 and prepared by Sanskrit Bharati. Hopefully it will be of use to some learners. Perhaps of use to those students who are looking for how to write Sanskrit essays, etc.
    Sentences

     
    • Srnivasa 2:06 pm on January 29, 2012 Permalink | Reply

      Thank you. With the new look web page, we can no longer see your blogroll.

      • Himanshu Pota 2:57 pm on January 29, 2012 Permalink | Reply

        I chose this theme to be able to display the comments along with the post. In other themes, comments are hidden and one has to clcik to display them. Since many times comments are more useful than the original post, I chose this theme. I have asked wordpress if there is a theme which displays both comments and blogroll. Can you recommend a more appropriate wordpress theme?

        Thanks.

        • Lakshmi Srinivas 4:13 am on January 30, 2012 Permalink

          I have to look it up on my Windows m/c. That will take some time

      • Himanshu Pota 10:30 am on February 1, 2012 Permalink | Reply

        I got it, this can be achieved by using the widget button on the dashboard page.
        धन्यवादः।
        हिमांशुः

  • Himanshu Pota 10:36 am on January 29, 2012 Permalink | Reply  

    तद्धितः (Taddhita Suffixes) 

    तेभ्यः प्रयोगेभ्यः हिताः इति तद्धिताः। (पृष्ठः ४५१ – बृहत् अनुवाद-चन्द्रिका चक्रधर नौटियाल `हंस॑ मोतीलाल बनारसीदास।)
    नैर्वाचनिकप्रचारः सम्प्रति परां काष्ठां भजते। (संस्कृतवार्ताः २०१२-०१-२६ सायम्)
    अहं मन्ये नैर्वाचनिकः इति निर्वाचनम् इति शब्दात् तद्धितप्रत्ययेन भवति।

    २०१२-०१-२९ रविवासरः (2012-01-29 Sunday)

     
    • venkataraman v 1:44 pm on January 30, 2012 Permalink | Reply

      I shall be grateful if you can send me all the lessons from the start.
      subburathinam
      venkataraman v

  • Himanshu Pota 2:10 pm on January 28, 2012 Permalink | Reply  

    यत् धातुः (yat – to strive) 

    ह्यः प्रमोदवर्येण यत् इति धातुः प्रयुक्तः। यत् इति भ्वादिगणीयः अत्मनेपदी धातुः अस्ति।
    लट्लकार-रूपाणि
    यतते यतेते यतन्ते
    यतसे यतेथे यतध्वे
    यते यतावहे यतामहे
    लृट्लकारे यतिष्यते इत्यादयः।
    लङ्लकार-रूपाणि
    अयतत अयतेताम् अयतन्त
    अयतथाः अयतेथाम् अयतध्वम्
    अयते अयतावहि अयतामहि
    यातकः-तिका, यत्यम्, यत्नः, आयत्तः, आयत्तवान्, यतिः, यतमानः।
    यतितव्यम्, यतनीयम्, यत्यम्, यतितुम्, यतयितुम्, यतित्वा, यतयित्वा, प्रयत्य।
    ईषच्चेतः, दुश्चेतः, सुचेतः।

    २०१२-०१-२८ शनिवासरः (2012-01-28 Saturday)

     
    • Bibhuti 1:14 am on February 2, 2012 Permalink | Reply

      वालकः पठनाय यतते । शिशू धावनाय यतेते । वालिकाः गमनाय यतन्ते ।……… इत्येवं वाक्यानि लिखामो वा ?

  • Himanshu Pota 8:52 am on January 27, 2012 Permalink | Reply  

    सांस्कृतिकरिक्थम् (Cultural Inheritance) 

    २६-०१-२०१२तमस्य गण्तन्त्रदिवसस्य संस्कृतसमाचरे अस्ति भारतस्य समृद्धं वैविध्यपूर्णं सांस्कृतिकरिक्थं प्रस्तोष्यते इति। रिक्थं इति शब्दः उपयोगी शब्दः अस्ति।
    रिक्थग्राहम् – inheriting property, रिक्थजातम्  – collected estate (of a deceased person), रिक्थभागी  – an heir, रिक्थभाक् – an heir.
    http://newsonair.nic.in/Text-nsd-Bulletins-schedule.asp

    २०१२-०१-२७ शुक्रवासरः (2012-01-27 Friday)

     
    • hnbhat 7:25 pm on April 13, 2012 Permalink | Reply

      रिक्थ-शब्दः inherited property इत्यर्थे प्रयुज्यते, संस्कृते, प्रायेण। वैदिकग्रन्थेषु क्वचित् inheritance इत्यनूद्यते केवलं धनार्थे।

      इति सामान्यवत्करणेन, धनमिति यावत्।

      उत्तराधिकारी उत्तराधिकारः इति inheritance इतस्त्य legal implication. सांस्कृतिकपरम्परा इति cultural heritage इति सुवचम् सुग्रहं च।

  • Himanshu Pota 9:07 am on January 26, 2012 Permalink | Reply  

    अनुवादः (Translation) 

    हमें समाज की बुराइयों को दूर करने का यत्न करना चाहिए। (पृष्ठः ४७१ – बृहत् अनुवाद-चन्द्रिका, चक्रधर नौटियाल `हंस॑ मोतीलाल बनारसीदास।)
    अस्माभिः समाजस्य दोषाः अपाकर्तुं प्रयत्नं कर्तव्याः।
    अपि अयम् अनुवादः समीचीनमस्ति? अस्य अनुवादस्य अन्यान् विकल्पान् अपि कृपया ज्ञापयतु।

    २०१२-०१-२६ गुरुवासरः (2012-01-26 Thursday)

     
    • Pramod Kushwaha 3:31 am on January 27, 2012 Permalink | Reply

      (1)वयं समाजस्य दोषान् अपाकर्तुं यतेमहि (2)अस्माभिः समाजस्य दोषाः अपाकर्तुं यतनीया:। अत्र ‘कर्तव्याः’ इति प्रयोगं न समीचीनम् । ‘करणीया:’ इति समीचीनम् ।

      • Himanshu Pota 8:23 am on January 27, 2012 Permalink | Reply

        मम अवबोधनम् अस्ति यतो हि कर्तव्याः इति करणीयाः इति उभौ एकस्मिन् एव अर्थे प्रयोक्तुं शक्येते। भवान् कथयति तयोः उपयोगः भिन्नः अस्ति इति। कथम् ?

        • Pramod Kushwaha 2:55 am on January 28, 2012 Permalink

          कर्मणि क्रियायाः सम्भावनां दर्शयितुम् – कृत्यः, कृत्या, कृत्यम्
          कर्मणि क्रियायाः उद्देश्यम् दर्शयितुम् – कर्तव्यः, कर्तव्या, कर्तव्यम्
          क्रियया कर्मणः सुखस्य अपेक्षां दर्शयितुम् – करणीयः, करणीया, करणीयम्
          एतावत् प्रयोगं प्रायः द्रष्टम् ।

        • Hn Bhat 11:02 pm on April 9, 2012 Permalink

          तयोरेव कृत्य-क्त-खलर्थाः।

          इति भावे कर्मणि च कृत्य-प्रत्ययान्तानां प्रयोगः।

          कर्तव्यम्, करणीयम्, इत्युभयोरपि सकर्मकत्वात् नार्थभेदः, कर्तव्यं करणीयं वा कर्म – कर्तुं योग्यं कर्म – प्रत्ययेनाभिधीयते।

          यतनीयम् इति भावे एव प्रयोगः, अकर्मकत्वात् तत्र यतनीयमस्माभिः इत्येव प्रयोगः न्याय्यः, यत्नः कर्तव्यः, करणीयः इति वा साधुः।

          न पुनरथे भेदः प्रत्यययोः।

        • Hn Bhat 11:04 pm on April 9, 2012 Permalink

          त् प्रयोगं प्रायः द्रष्टम् । – प्रयोगशब्दस्य नपुंसकशब्दे प्रयोग एव दुष्टः। इति बोध्यम्।

      • hnbhat 6:55 pm on April 10, 2012 Permalink | Reply

        यत् धातुरकर्मकः, ततश्च भावे प्रयोग एव उचितः। अस्माभिर्दोषाणामपाकरणाय यतनीयम् इति साधुरिति मे मतिः।

        अपकरणस्य कर्म दोषा एव, परं तु यत् – धातोः कर्म नास्ति, दोषास्तु अपकृ इति धातोरेव कर्म इति तत्र दोषानित्येव कर्मणि द्वितीया। शेषत्वेन विवक्षिते, यतधानुनानभिधानात्, दोषाणामपाकरणाय इति वक्तव्यम्। अथवा, दोषानपाकर्तुंमस्माभिर्यतनीयमिति। अथवा, दोषाणामपाकरणे अस्माभिर्यत्नः कर्तव्यः इति बहुभिः प्रकारैरेक एवार्थ सूचयितुं शक्यते।

    • Saralhindi 9:07 am on January 27, 2012 Permalink | Reply

      In Gujarat most people write Sanskrit Shlokas in Gujarati Lipi.

      Why not write Hindi and Sanskrit in Gujarati Lipi without horizontal lines in clean appearance?

      • Saralhindi 9:11 am on January 27, 2012 Permalink | Reply

        અનુવાદઃ (Translation)

        હમેં સમાજ કી બુરાઇયોં કો દૂર કરને કા યત્ન કરના ચાહિએ૤ (પૃષ્ઠઃ ૪૭૧ – બૃહત્ અનુવાદ-ચન્દ્રિકા, ચક્રધર નૌટિયાલ `હંસ૑ મોતીલાલ બનારસીદાસ૤)
        અસ્માભિઃ સમાજસ્ય દોષાઃ અપાકર્તું પ્રયત્નં કર્તવ્યાઃ૤
        અપિ અયમ્ અનુવાદઃ સમીચીનમસ્તિ? અસ્ય અનુવાદસ્ય અન્યાન્ વિકલ્પાન્ અપિ કૃપયા જ્ઞાપયતુ૤

        ૨૦૧૨-૦૧-૨૬ ગુરુવાસરઃ (2012-01-26 Thursday)

        • Himanshu Pota 10:39 am on January 27, 2012 Permalink

          આપકી બાત સમઝ મેં આતી હૈ. ક્યા એસા નહીં હો સકતા કિ લિપિ દેવનાગરી હી હો કિન્તુ ઉપર કી લાઈન ન હો? શાયદ ઉપર કી લાઈન કી જરૂરત તબ રહી હો જબ રૂલ્ડ પેપર નહીં મિલતે હોં. મુઝે ખ્યાલ હૈ પુરાની પાણ્ડુલિપિયોં મેં સિર્ફ એક લાઈન હોતી થી ઔર શબ્દોં કે બીચ મેં અન્તરાલ નહીં હોતા થા.

    • Saralhindi 2:49 pm on January 27, 2012 Permalink | Reply

      Mr.Pota,

      There is no big difference in both languages except 15 letters.

      અસમાન મુલાક્ષર–अ=અ , ब=બ , क=ક , इ=ઈ , ख=ખ , च=ચ , ज=જ , फ=ફ , भ=ભ , ल=લ,द=દ,झ=ઝ, उ =ઉ,ण=ણ, ळ=ળ

      The easy way to learn Gujarati is to convert any Hindi article in Gujarati Script and read.Practice until you can read fast then learn speaking.

      Can you read my Hindi blog?

      you may take a look here by clicking a link below.

      http://saralhindi.wordpress.com/2011/08/11/%E0%AA%AE%E0%AB%81%E0%AA%B2%E0%AA%BE%E0%AA%95%E0%AB%8D%E0%AA%B7%E0%AA%B0/

      • Himanshu Pota 2:56 pm on January 27, 2012 Permalink | Reply

        મૈં સ્વયં ગુજરાતી હૂઁ પર જન્મ ગુજરાત સે બાહર કા હૈ ઇસલિયે ગુજરાતી થોડી કચ્ચી હૈ પર પઢ લેતા હૂઁ ઔર કામ ચલાઉ બોલ ભી લેતા હૂઁ.
        અગર ગુજરાતી ઔર દેવનાગરી લિપિ મેં જ્યાદા ફર્ક નહીં હૈ તો ફિર દેવનાગરી લિપિ લાઈન બિના કી ક્યા નહીં ચલેગી?

    • Saralhindi 3:22 pm on January 27, 2012 Permalink | Reply

      કૃષ્ણ ગોવિંદ કૃષ્ણ કૃષ્ણ ગોવિંદ કૃષ્ણ મનમોહન મુરલીધર ….
      कृष्ण गोविन्द कृष्ण कृष्ण गोविन्द कृष्ण मनमोहन मुरलीधर ….

      You may take a look both lines in BOLD or ITALIC form.
      As you know that Gujarati is written in Nagari Lipi.

      Most Hindi pundits think Hindi will loose it’s internal beauty without horizontal lines.They want to remind priestly Sanskrit to people.

      You may read this article.
      http://dpkraj.wordpress.com/2011/09/10/importance-of-hindi-and-poor-man-of-india-hindi-satire/#comment-608

    • Saralhindi 5:30 am on April 10, 2012 Permalink | Reply

      Mr.Pota,

      Is there any on-line Sanskrit type writer in roman script?
      I want on-line only,no down load please.
      thanks,

    • Saralhindi 6:01 am on April 12, 2012 Permalink | Reply

      Mr.Pota,
      Thanks for e-mail.
      I know on Google and Indic is no good.
      for key board see the link below….aa,i,ee,u,oo

      http://www.docstoc.com/docs/5109664/sanskrit-alphabet

    • sujay kumar 6:35 pm on March 26, 2017 Permalink | Reply

      Hi all.
      Can anyone please translate this in sanskrit.

      धर्म एवं धन का घनिष्ठ सम्बन्ध है| इस संसार में धन का अत्याधिक महत्व है| धन के बिना कोई कार्य नहीं हो सकता| धन के बिना यात्रा भी नहीं कर सकते| धन के बिना मनुष्य की चिकित्सा भी नहीं हो सकती| परिश्रम से कमाया हुआ धन अच्छा होता है| चोरी आदि से प्राप्त धन से पाप होता है| आजकल व्यक्ति धन के कारण धर्म को भूल गया है| धन के साथ धर्म का ध्यान रखना चाहिए| अत एवं धर्मयुक्त धन का सञ्चय करना चाहिए|

  • Himanshu Pota 9:08 pm on January 25, 2012 Permalink | Reply  

    शैत्यम् औष्णम् च (Coldness and Warmth) 

    अद्यत्वे केन्बरानगरे रात्रौ शैत्यम् किन्तु दिवसे औष्णम् अस्ति तस्मात् समयित्वं न भवति।

    २०१२-०१-२५ बुधवासरः (2012-01-25 Wednesday)

     
    • Lakshmi Srinivas 12:57 am on January 27, 2012 Permalink | Reply

      api taddhitaprayogaḥ anivāryaḥ?

      • Himanshu Pota 11:00 am on January 27, 2012 Permalink | Reply

        अनिवार्यः अस्ति अथवा नास्ति इति अहं न जानामि किन्तु तद्धितप्रत्ययेन विशेषनशब्दात् संज्ञाशब्दाः कर्तुं शक्यन्ते।

    • Hn Bhat 5:16 pm on April 10, 2012 Permalink | Reply

      यदि शैत्यं भवति, तदा औष्ण्यमपि भवति, न पुनः औष्णम् -।

  • Himanshu Pota 8:56 pm on January 24, 2012 Permalink | Reply  

    केनेषितम् (Missioned by Whom) 

    केनेषितं पतति प्रेषितं मनः। केन प्राणः प्रथमः प्रैति युक्तः।
    केनेषितां वाचमिमां वदन्ति। चक्षुः शोत्रं क उ देवो युनक्ति॥केनोपनिषद्.१॥
    By whom missioned falls the mind shot to its mark? By whom yoked moves the first life-breath forward on its paths? By whom impelled is this word that men speak? What god set eye and ear to their working? (Translation by Sri Aurobindo)
    युज् इति धातुः to join अर्थे प्रयुज्यते किन्तु तस्य अन्यः अर्थः to set to work अपि अस्ति। तस्मिन् अर्थे अत्र युज् इत्यस्य धातोः उपयोगः अस्ति।

    २०१२-०१-२४ मङ्गलवासरः (2012-01-24 Tuesday)

     
  • Himanshu Pota 11:31 pm on January 23, 2012 Permalink | Reply  

    नौकाविहारम् (Boating) 

    अद्य प्रातःकाले आकाशः मेघाच्छादितः आसीत् जलं च वर्षति स्म। तस्मात् वयं निश्चयम् अकुर्म प्रत्यागमिष्यामि यतो हि अत्र किञ्चित् अपि कर्तुं न शक्नुमः इति। किन्तु किञ्चित् अग्रे गत्वा सूर्यदेवस्य दर्शनम् अभवत् तस्मात् वयं परिवर्त्य उमम् (wharf) अगच्छाम। तत्र भाटनौकाम् आदाय समुद्रे नौकाविहाराय अगच्छाम। त्रिहोरापर्यन्तं विहारं कृत्वा सिडनीनगरं प्रति अगच्छाम। तत्र दिव्यांशुः स्वकार्याय अगच्छत्। सिडनीनगरे मीतावर्यायाः दन्तपरीक्षा अभवत् तत् परं वयं केन्बरानगरम् आगच्छाम। इति अवकाशः पूर्णः।

    २०१२-०१-२३ सोमवासरः (2012-01-23 Monday)

     
c
Compose new post
j
Next post/Next comment
k
Previous post/Previous comment
r
Reply
e
Edit
o
Show/Hide comments
t
Go to top
l
Go to login
h
Show/Hide help
shift + esc
Cancel