विद्मः (We know)

विदँ ज्ञाने अदादिः परस्मैपदी सकर्मकः सेट् भिदादि
लट्
प्रथमपुरुषः – वेद, वेत्ति – विदतुः, वित्तः – विदुः, विदन्ति
मध्यमपुरुषः – वेत्थ, वेत्सि – विदथुः, वित्थः – विद, वित्थ
उत्तमपुरुषः – वेद, वेद्मि – विद्व, विद्वः- विद्म, विद्मः
न चैतद्विद्मः कतरन्नो गरीयः।
य एनं वेत्ति हन्तारम्।
वेदाविनाशिनं नित्यं य एनमजमव्ययम्।
तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि।
श्रुत्वाप्येनं वेद न चैव कश्चित्।
तान्यहं वेद सर्वाणि न त्वं वेत्थ परंतप।
वेदाहं समतीतानि वर्तमानानि चार्जुन।
भविष्याणि च भूतानि मां तु वेद न कश्चन॥
ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम्।
साधिभूताधिदैवं मां साधियज्ञं च ये विदुः।
प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः॥
न मे विदुः सुरगणाः प्रभवं न महर्षयः।
भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम्।

२०२०-०१-३१ शुक्रवासरः (2020-01-31 Friday)

अनुवादाभ्यासः पृष्ठम् १०१ (Translation Exercise (page 101))

सङ्ख्यावाचकविशेषणः – एकाधिकशततमं पृष्ठम् (१०१)}
बृहदनुवादचन्द्रिका  – चक्रधर नौटियाल हंस शास्त्री

१. विक्रमवत्सराणां चतुरुत्तरे सहस्त्रद्व्ये (गते) शताब्दीर्विलुप्तं भारतवर्षं स्वातन्त्रयं लब्धवत् — India got its independence in Vikram Shatabdi 2004.
२. दशसहस्राणि पञ्चशतानि द्विषष्टिं चाष्टाभिः शतैश्चतुष्पञ्चाशता गुणय — १०५६२ x ८०० x ५४।
३. अस्माकं श्रेण्यां दशाधिकं शतं छात्राः सन्ति दयानन्दविद्यालये तु दशमश्रेण्यां दशशती छात्राः सन्ति — In our class there are 110 students but in the tenth standard in Dayananda College there are a thousand students.
४. प्रयागविश्वविद्यालये पञ्चसप्ततिच्छात्रेभ्यः पारितोषिकानि वितीर्णानि — In the Prayag University prizes were distributed to 75 students.

२०२०-०१-३० गुरुवासरः (2020-01-30 Thursday)

दत्तश्रवणो नारायणः (Narayanji)

अस्ति वाग्मी कान्तो विद्वान् नारायणो मित्रं मम।
नेदं शृणोति दत्तश्रवणो यत इच्छति सः॥

२०२०-०१-२९ बुधवासरः (2020-01-29 Wednesday)

सा आहूता किन्तु तया सुप्तम् (She was called but she slept)

हूतानि भूतानि न श्रूयन्ते जागरितान्यपि।
हूताः सुप्ता योगिनः श्रूयन्त अनुक्रियन्ते च॥
वचिस्वपियजादीनां किति (६.१.१५) इति सूत्रेण किति प्रत्यये सम्प्रसारणं भवति। किं नाम सम्प्रसारणम्? इग्यणः सम्प्रसारणम् (१.१.४५) यस्मात् अत्र य् -> इ, व् -> उ इति भवति।
वचिस्वपियजादि इति एकादश धातवः सन्ति वच् स्वप् यज् वप् वह् वस् वेञ् व्येञ् ह्वेञ् वद् श्वि।
वच् क्त -> उ अ च् त -> उ च् त अत्र सम्प्रसारणाच्च (६.१.१०८) इति सूत्रेण उकारस्य अकारस्य च एक्ः पूर्वादेशः उकारादेशः इति भवति, अन्ते चोः कुः (८.२.३०) इति सूत्रेण उक्त सुँ उक्तः इति रूपं सिद्ध्यते।
तथा क्त इति प्रत्यये यज् इष्टः, वप् उप्तः, वह् ऊढः, वस् उषितः, वे उतः, सम् व्ये संवितः, वद् उदितः, श्वि शूनः।
ह्वे क्त इति हु त भवति सम्प्रसारणात्। तत् परं हलः (६.४.२) इति सूत्रेण अङ्गस्य दीर्घः भवति तस्मात् हू त सुँ हूतः इति रूपं सिद्ध्यते।
किन्तु दीर्घत्वम् अङ्गस्य एव भवति तस्मात् स्वप् क्त सुँ सुप् त सुँ सुप्तम् इति भवति। अत्र उकारः अङ्गस्य नास्ति यतो हि उकारः पकारः परः अस्ति।

२०२०-०१-२८ मङ्गलवासरः (2020-01-28 Tuesday)

श्रीविनयसहस्रबुद्धेमहाभागस्य केन्बरानगरे व्याख्यानम् (A lecture by Dr Vinay P. Sahasrabuddhe in Canberra)

शविवासरे २०२०-०१-२५तिथौ श्रीविनयसहस्रबुद्धेमहाभागेन भारते प्रजातन्त्रम् इति विषय अत्र केन्बरानगरे व्याख्यातम्। नामानुरूपं सः विनम्रः विद्वानपि अस्ति। सः राज्यसभासदस्यः भाजपादलस्य राष्ट्रीयोपप्रधानोऽस्ति। सः भारतीयसांस्कृतिकसम्बन्धपरिषदः प्रमुखोऽप्यस्ति।
सः एकपक्षेण मया सदृशोऽस्ति। येन भारतप्रशासनस्य छात्रवृत्त्या सः विद्यालयशिक्षणमप्राप्नोत् तेन छात्रवृत्त्या अहमपि विद्यानिकेतन इति विद्यालये मम शिक्षणं प्राप्नवम्।

२०२०-०१-२७ सोमवासरः (2020-01-27 Monday)

आज्ञापयतु (Please order)

दुष्करं चापि यत्कार्यं भवतां तत्करोम्यहम्।
आज्ञापयन्तु मां भृत्यं ब्राह्मणा दैवतं हि मे॥श्रीमद् अध्यात्मरामायणम् उत्तरकाण्डः षष्ठः सर्गः ५
(Ramachandra says) I will do your work even though difficult. Please order me your servant, Brahmins are my objects of worship.
आज्ञापयतु विज्ञापयतु इत्यनयोः ज्ञा नियोगे इति चुरादिगणीय धातुः अस्ति।
अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ (७.३.३६) इति सूत्रेण आकारान्तधातुभ्यः णिच् इति प्रत्यये पुक् आगमः भवति। तस्मात् ज्ञा णिच् तिप् -> ज्ञा प् इ शप् ति -> ज्ञापि अति ->  ज्ञापयति (सार्वधातुकार्धधातुकयोः (७.३.८४))।

२०२०-०१-२६ रविवासरः (2020-01-26 Sunday)

नियतान्तरं गमिष्यन्त्यौ उपानहौ (Shoes with fixed mileage)

ह्योऽस्माकं गृह एकोऽतिथिरागच्छत्। भोजनान्तरमावयोः कन्या अस्माभिः भ्रमणाय गन्तव्यमित्यवदत्।। दिवसे भीषणः घर्म आसीत् किन्तु सायंकाले शीतलो वातः प्रचलति स्म तस्मात् भ्रमणस्येच्छा। अस्माकमतिथिः भ्रमणाय गन्तुं न शक्नोमि यतो हि मम उपानहौ भ्रमणाय न युक्तौ इति अवदत्। मया सः पृष्टः कथमुपानहौ न युक्तौ इति। सः प्रत्यभाषतोपानहौ सुखप्रदौ स्तः किन्तु औपचारिककार्येष्वेव धारयामि न तु भ्रमाणाय इति।
अपरञ्च सः अवदत् सर्वासां उपानहां पदानां सङ्ख्या (step count) नियता अस्त्येव तस्मात् यानि पदानि भ्रमणाय उपयुनज्मि तानि पदानि उपानहां नियतपदेभ्यः अल्पयन्ति इति।
उपानह् इति उप् + नह् + क्विप् -> उपानह् इति संयोगे भवति। तस्य सुबन्तरूपाणि प्रत्ययानां योगे भवत्येव केवलं नहो धः (८.२.२४) इति सूत्रं पदान्ते झलि च उपयुज्यते।

IMG-3019
Precious Shoes with a Set Step Count

२०२०-०१-२५ शनिवासरः (2020-01-25 Saturday)