विपरीतच्छेदगुणाः (Multiplied with opposite denominators)

विपरीतच्छेदगुणा राश्योश्छेदांशकाः समच्छेदाः।
सङ्कलितेंऽशा योज्या व्यवकलितेंऽशान्तरं कार्यम्॥ब्रह्मगुप्तगणितम्॥
छेदः denominator, अंशकः numerator, समच्छेदाः on common denominator, सङ्कलितः added, व्यकलितः subtracted.
By the multiplication of the numerator and denominator of each (fractional) quantities by the other denominators, the quantities are reduced to a common denominator. In addition, the numerators are united, in subtraction their difference is taken. Translation by Venugopal D. Heroor.
विपरीत छेदगुणः विपरीतच्छेदगुणः – छे च (६.१.७१) इति सूत्रेण तुक् आगमः भवति तत् परं स्तोः श्चुना श्चुः (८.४.४०)  इति सूत्रेण चत्वम्।
तुक् प्रकरणम्।
ह्रस्वस्य पिति कृति तुक् (६.१.६९) विजित्य।
संहितायाम् (६.१.७०) इति अधिकारसूत्रमस्ति।
छे च (६.१.७१) स्वच्छन्दः।
आङ्माङोश्च (६.१.७२) आच्छादयति।
दीर्घात् पदान्ताद् वा (६.१.७३) चेच्छिद्यते।

२०१९-०८-३१ शनिवासरः (2019-08-31 Saturday)

निर्भर्त्स्य (Having rebuked)

तत्सूनुना रूपकशतेन विक्रीयमाणः पुस्तको गृहितः। तत्छ्रुत्वा तस्य पिता अवदत् – धिङ्मूर्खः! त्वं लिखितैकश्लोकं रूपकशतेन यद् गृह्णासि, एतया बुद्धया कथं द्रव्योपार्जनं करिष्यति? तदद्यप्रभृति त्वया मे गृहे न प्रवेष्टव्यम्। एवं निर्भर्त्स्य गृहान्निसारितः। इति मित्रप्राप्तितन्त्रे वणिकपुत्रकथा।
रूपकम् (Rupee)
धिक् मूर्खः धिङ्मूर्खः (यरोऽनुनासिकेऽनुसिको वा (८.४.४५))
गृहात् निसारितः गृहान्निसारितः (यरोऽनुनासिकेऽनुसिको वा (८.४.४५))
यर् – वर्गीयवर्णाः अन्तःस्थाः श ष स।
यरः परः यदि अनुनासिकः वर्णः अस्ति तर्हि यरः अनुनासिकः भवति। वाङ्नम्रः षण्मुखः जगन्नाथः।

२०१९-०८-३० शुक्रवासरः (2019-08-30 Friday)

आशा (a direction, a hope)

आशा इति आ समन्तात् अश्नुते व्याप्नोतिति (pervade or fill from everywhere) – आङ् अशू पचाद्यत् टाप् – इति कल्पद्रुमः।
आशा इति शब्दस्य एकः अर्थः आकाङ्क्षा अन्यः अर्थः दिक् अपि अस्ति।
आकाङ्क्षा इत्यर्थे – आशा हि परमं दुःखं नैराश्यं परमं सुखम्।
दिक् इयर्थे –
ततो वेलातटेनैव फलवत्पूगमालिना।
अगस्त्याचरितामाशामनाशास्यजयो ययौ॥रघुवंशम् ४.४४॥
Then by the seacoast (which was) like a garland made of beetle-nut trees, the effortless victor went in the direction where August lived.
अनाशास्यजयः – (a victor who does not pray for victory)
वेला अपि रुचिकरः शब्दः अस्ति समुद्रवर्धनम् (tide) समुद्रः कालः। मन्ये समुद्रवर्धने कालस्य बोधनं भवति तस्मात् वेला इति कालः समुद्रवर्धनं समुद्रः च।
द्वयोः अर्थयोः
आशापूरैककर्मप्रवणनिजकरप्राणिताशेषविश्वः (सूर्यः)।
पण्डितान् प्रार्थये उपरि लिखितं समासितं शब्दं व्याख्यापयतु।
प्रवणः disposed to करः किरणः।

२०१९-०८-२९ गुरुवासरः (2019-08-29 Thursday)

दिदृक्षा (A desire to see)

द्रौपदीं प्रार्थयन्तस्ते स्वयंवरदिदृक्षया॥महाभारतम्॥
Those suitors (came) with a desire to see Draupadi in Svayamvara.
सः दिदृक्षां धार्यते। सः दिदृक्षते। तस्य दिदृक्षा सफलीभवेत्।
दिदृक्षा स्त्री द्रष्टुमिच्छा दृश-सन्-भावे अ। दर्शनेच्छायाम् इति वाचस्पतेयम्।

२०१९-०८-२८ बुधवासरः (2019-08-28 Wednesday)

लक्ष्म (The Chief)

यस्मिञ्जाते महावीर्ये शान्तनुर्लोकविश्रुतः।
शोकं दैन्यं च दुःखं च प्रजहात् पुत्रलक्ष्मणि॥महाभारतम् ६.१४.४३॥
That great brave chief, on whose birth as a son, Shantanu, the world renowned, was freed from grief, depression, and sorrow.
शान्तनुः अतिदुष्करवर्तम अतिक्राम्य पुत्रं भीष्मं प्राप्नोत्। सः शान्तनोः आनन्दहेतुः अभवत्। सः शान्तनोः प्रियः अपि किन्तु सः अन्येषां पुत्राणाम् प्रणाशनस्य कष्टानामपि स्मारकः।

२०१९-०८-२७ मङ्गलवासरः (2019-08-27 Tuesday)

अपि चरमं प्राप्तम् (Reached the final point?)

विद्युद्वितरणाय वयमेकस्य ग्रामस्य सर्वेक्षणं कुर्मः। न जाने मम छात्रैः ग्रामस्य चरमं प्राप्तं वा न वा। मन्ये मयापि तत्र गन्तव्यं निश्चेतव्यं च। किन्त्वहं साहाय्येन विना कार्यं पारयितुं शक्नोम्यिति न विश्वसिमि। चरमे प्राप्ते एव कार्यमग्रे सरिष्यति।लब्धे अवकाशे साहाय्येनैव पारयिष्यामि।

२०१९-०८-२६ सोमवासरः (2019-08-26 Monday)

आह्वानमागतम् (A call came)

In the meantime the Brahmana received an invitation from the king to receive the presents to be given on the occasion of the Parvana Shraddha.
मम अनुवादः – तदा सः ब्राह्मणः राज्ञः श्राद्धपर्वणि उपहारं ग्रहणाय आमन्त्रणं प्राप्नोत्।
हितोपदेशे – अथ ब्राह्मणाय राज्ञः पार्वणश्राद्धं दातुमाह्वानमागतम्।
अहं इच्छामि हितोपदेशे पञ्चतन्त्रे च यथा संस्कृतभाषा अस्ति तथा संस्कृतभाषामहमपि लिखेयम्। तस्मात् यथा मम मतिः अस्ति तस्य हितोपदेशस्य भाषाया सह तुलनां करोमि। पश्यतु कथं हितोपदेशस्य भाषा मनोहारिणी अस्ति।

२०१९-०८-२५ रविवासरः (2019-08-25 Sunday)

चिह्नानि कदा विलोप्स्यन्ति? (When will the marks disappear?)

चिन्तयामि केनापि कारितानि पञ्च चिह्नानि कदा विलोप्स्यन्ति। प्रयासेन न ते गमिष्यन्ति कृपया एव विलोप्स्यन्ति। इदानीं न विलुप्ते इमानि चिह्नानि कष्टकराणि भविष्यन्ति।
मूर्खस्य पञ्च चिह्नानि गर्वो दुर्वचनं मुखे।
हठी चैव विषादि च परोक्तं नैव मन्यते॥
Five signs of a fool: pride, ill speech (in the mouth), stubborn, dull, self-willed.

२०१९-०८-२४ शनिवासरः (2019-08-24 Saturday)

अपि प्रतिज्ञां पालयिष्यति? (Will he keep the promise?)

रामायणे अस्ति वर्षसहस्रस्य दीक्षां करोमि इति मुनिपुङ्गवः प्रतिज्ञामकरोत्। इदानीं लोकव्यावहारं दृष्ट्वा चिन्तयामि अपि सः स्वप्रतिज्ञां पालयिष्यति?
एवं वर्षसहस्रस्य दीक्षां स मुनिपुङ्गवः॥रामायणम् १.६४.२०
चकाराप्रतिमां लोके प्रतिज्ञां रघुनन्दन।
O Descendant of Raghu in this way that eminent ascetic took an unprecedented vow to practise penance for a thousand years.

२०१९-०८-२३ शुक्रवासरः (2019-08-23 Friday)

निपातनं त्राणम् (Protected)

अद्य केन्बरानगरे अस्माकं संस्कृतवर्गे छात्रैः अहं पृष्टः त्रै इति धातोः कः अर्थः इति। भ्रमितः अहं protect, torment इति अर्थौ अकथयम्। किन्तु त्रस् इति धातोः अर्थः torment इति भवति न तु त्रै इति धातोः।
त्रै  [त्रैङ् पालने] भ्वादि: आत्मनेपदी अनिट् सकर्मकः ङित्
वयमिदानीं क्तप्रत्ययरूपाणि शिक्षामहे।
त्रै क्त सुँ त्रातं त्राणम्। आदेच उपदेशेऽशिति (६.१.४५) इत्यनेन सूत्रेण आदादेशः तत् परं नुदविदोन्दत्राघ्राह्रीभ्योऽन्यतरस्याम् (८.२.५६) सूत्रेण रूपद्वयं त्राणः त्रातः।
रदाभ्यां निष्ठातो नः पूर्वस्य च दः (८.२.४२) इत्यस्मात् सूत्रात् नसत्तनिषत्तानुत्तप्रतूर्तसूर्तगूर्तानि छन्दसि (८.२.६१) सूत्रतः निष्ठातः किं भवति इति विधिसूत्राणि सन्ति। तकारस्य नकारः भवत्येव वा विकल्पेन भवति। चिन्तयामि अपि इयं प्रक्रिया निपातनमिति अभिधीयते। यतो हि अत्र नकारः पतति तस्मात् निपातनम्।

२०१९-०८-२२ गुरुवासरः (2019-08-22 Thursday)