महासारेति (Starting from Mahaasaara)

कालिदासविरचिते मालविकाग्निमित्रे अस्ति अयं श्लोकः।
महासारप्रसवयोः सदृशक्षमयोर्द्वयोः।
घारिणीभूतधारिण्योर्भव भर्ता शरच्छतम्।१५॥
यथा अहम् इमं श्लोकम् अवबोधामि तथा तस्य अनुवादम् अधः ददामि।
May the lord (or the provider, here meaning the king) of Dharini (the queen’s name) and the earth, (the lord) of two great children (one produced by Dharini and the other produced by the earth), (the lord) of the two types of alike forgiveness (one practised by Dharini and another by the earth), be a hundred years.
Taking out the text in the paranthesis, it reads:
May the lord of Dharini and the earth, of the two children, of the two alike forgiveness, be a hundred years.

२०१५-०२-२८ शनिवासरः (2015-02-28 Saturday)

रोहिणी-बक्षी-वर्या (Rohini Baxi)

कृपया लन्दननिवासिन्याः रोहिणीवर्यायाः लेखौ पठन्तु –
http://www.dailyo.in/arts/grabbing-sanskrit-by-the-roots-yskas-nirukta-and-semantic-etymology/story/1/2308.html
http://all-about-sanskrit.blogspot.com/

२०१५-०२-२७ शुक्रवासरः (2015-02-27 Friday)

अनुदानाय आवेदनम् (Grant Application)

अद्य अस्माभिः एकस्मै अनुदानाय आवेदनम् अपारयाम (completed)। आवेदनाय कार्यम् अधिकं नासीत् किन्तु कथम् आवेदनपत्रस्य आयोजनं भवेत् इति चिन्तने महान् कालः विनष्टः। कार्यं पूर्णं कृत्वा अहं शमितः (relieved) अस्मि।

२०१५-०२-२६ गुरुवासरः (2015-02-26 Thursday)

अन्नावर्यः (Anna)

अन्नावर्यः पुनः आन्दोलनमार्गे समुत्पद्यते। भूम्यधिग्रहणविधेयकम् अहं सम्यग् न बोधामि किन्तु अहं मन्ये अन्नावर्यः अपि सम्यग् न बोधति। अन्नावर्येण अरविन्दकेजरीवालवर्येण सह अस्मिन् आन्दोलने कार्यं न कर्तव्यम् इति मम मन्त्रणा अस्ति। अन्नावर्यस्य पूर्वान्दोलनानि सफलीभूतानि यतो हि सः निर्दलीयः आसीत्। एकेन सत्तारूढेन दलेन सह मिलित्वा सः स्वस्य प्रभावं न्यूनीकरोति।

२०१५-०२-२५ बुधवासरः (2015-02-25 Wednesday)

टेरेसामाता – मम मतस्य अनुमोदनम्

यत् मया ह्यः लिखितं तस्य अनुमोदनं जन्गन्नाथवर्यः अपि करोति। कृपया पठतु – http://www.firstpost.com/india/mohan-bhagwats-remark-on-mother-teresa-she-wouldve-probably-agreed-with-the-rss-chief-2118215.html

अन्यम् अनुमोदनम् – http://www.dailyo.in/opinion/mother-teresa-was-as-secular-as-mohan-bhagwat/story/1/2241.html

२०१५-०२-२४ मङ्गलवासरः (2015-02-24 Tuesday)

टरेसामाता (Mother Teresa)

टरेसामाता स्वस्याः सम्प्रदायस्य प्रचारम् अकरोत् तस्मिन् विषये कापि शङ्का नास्ति। सा अपि तथैव अनेकवारम् अवदत्। एकं वारं एकः औस्ट्रेलियादेशीयः भारतं गत्वा ताम् अपृच्छत् मया भारतस्य सेवार्थं किं कर्तव्यम् इति। सा उदतरत् भवान् अत्र आगच्छति किन्तु अपि भवान् जानाति औस्ट्रेलियादेशे अस्माकं सम्प्रदायस्य सदस्यानां सङ्ख्या अपचीयते (is decreasing) तथा भवान् तत्र गत्वा सङ्ख्या कथं वर्धेत (gets increased) इति चिन्तव्यम् अत्र भवते किमपि कार्यं नास्ति इति। इदं प्रकरणं टरेसामातायाः मुद्रणालयेन प्रकाशिते पुस्तके अस्ति। सा सर्वदा कथयति – अहं मम सम्प्रदायस्य प्रचारं करोमि इति। सा कदापि अस्मिन् विषये असत्यं न अवदत् तस्मात् अहं न बोधामि कथम् अन्ये जनाः टरेसामाता यथा उक्तवती तस्य सत्यस्य आच्छादनस्य प्रयत्नं कुर्वन्ति।
पठितव्यम् – http://en.wikipedia.org/wiki/The_Missionary_Position। टेरेसामाताम् एकं न्यायकर्मी अलिखत् –
If you contact me I will put you in direct contact with the rightful owners of the property now in your possession. – तं वाक्यम् अस्मिन् पत्रे पठितव्यम् –
https://howgoodisthat.wordpress.com/2008/07/13/charles-keating-gave-other-peoples-money-to-mother-teresa/

२०१५-०२-२३ सोमवासरः (2015-02-23 Monday)

अधुनैव कर्तव्यम् (Install this right NOW)

This is a message from Vishvas on a Sanskrit group. Install this right away and also install stardict if you haven’t already done so. It takes less than five minutes and it will be the best Sanskrit learning asset you ever had. All the best.

Vishvasji’s message:

नमो नमः।

श्रीमता गिरीशमहाभागेन तत्सहोद्योगिभिश् च
http://sanskrit.jnu.ac.in/tinanta/tinanta.jsp?t=45 इत्यत्र प्रकाशितानि
(~४४० धातूनां) तिङन्तरूपाणि अधुना stardict सञ्चिका रूपेणोपलभ्यन्ते।

Example outputs:
Looking up “जग्मुः” yields (have to search using unicode Devanagari script):
From jnu-tiNanta
जग्मुः
गम्लृ (गतौ, भ्वादिगण, परस्मै, लिट्)
जगाम जग्मतुः जग्मुः
जगमिथ जग्मथुः जग्म
जगाम जग्मिव जग्मिम

Looking up गम्लृ yields (nearly) all lakAra-s.

Android phone screenshots: http://goo.gl/BKsgAo http://goo.gl/YqkoBh

The dictionary (and the associated spreadsheet) are available here:​
https://github.com/sanskrit-coders/stardict-sanskrit/tree/master/sa-head/jnu-tiNanta
and
https://github.com/sanskrit-coders/stardict-sanskrit/raw/master/sa-head/tars/jnu-tiNanta.tar.gz
.

Installation using the improved
https://play.google.com/store/apps/details?id=sanskritcode.sanskritdictionaryupdater
app
is simple if you have an android (version 5+) phone .



Vishvas /विश्वासः

द्विहोरा विनष्टा (Two Hours Wasted)

भारतस्य उच्चतमन्यायालयेन द्विहोरा निरर्थके विषये विनष्टा – http://economictimes.indiatimes.com/news/politics-and-nation/supreme-court-directs-not-to-arrest-teesta-setalvad-in-fund-embezzlement-case/articleshow/46301354.cms। न्यायालयस्य सकाशे कोटिः विवादाः (cases) सन्ति तथापि न्यायाधीशाः यान् विवादान् समाचारमाध्यमेन उद्वेगितान् तान् विवादान् एव शृण्वन्ति। मन्ये प्रत्येकस्मिन् दिवसे न्यूनातिन्यूनं लक्षं जनानां निग्रहणं रक्षिपुरुषाः कुर्वन्ति यदि ते सर्वे उच्चतमन्यायालये गमिष्यन्ति तर्हि न्यायालयस्य अन्यं कार्यं कथं भविष्यति।

२०१५-०२-१९ गुरुवासरः (2015-02-19 Thursday)

द्वादश कार्याणि (12 Steps)

धातोः पदतः निर्माणे द्वादश कार्याणि सन्ति।
तानि कार्याणि निर्देशाय अनयः इति पदस्य लङ्लकारः मध्यमपुरुषः एकवचनं रूपं निर्माणं पश्यामः।
प्रथमं कार्यम् – कः धातुः इति – यथा णीञ् प्रापणे भ्वादिगणीयः उभयपदी अनिट्।
द्वितीयं कार्यम् – इत्संज्ञा-लोपः – यथा णीञ् -> णी
तृतीयं कार्यम् – प्राकृतिकाणि कार्याणि – यथा णी -> नी
चतुर्थं कार्यम् – लकारः – यथा नी लङ् -> नी ल्
पञ्चमं कार्यम् – अट् / आट् – यथा अट् नी ल् -> अ नी ल्
षष्ठं कार्यम् – लस्य तिबादयः – यथा अ नी सिप् -> अ नी सि
सप्तमं कार्यम् – विकरणः – यथा अ नी शप् सि -> अ नी अ सि
अष्टमं कार्यम् – विकरणनिमित्तकार्यम् – यथा अ नी अ सि -> अ ने अ सि
नवमं कार्यम् – प्रत्ययनिर्माणम् – यथा अ ने अ सि -> अ ने अ स्
दशमं कार्यम् – प्रत्ययनिमित्तकार्यम् – यथा (अत्र इदं कार्यं नास्ति।)
एकादशं कार्यम् – सन्धिकार्यम् – यथा अ ने अ स् -> अनयस्
द्वादशं कार्यम् – त्रिपादीकर्यम् -यथा अनयस् -> अनयः

२०१५-०२-११ बुधवासरः (2015-02-11 Wednesday)

व्योः संयोगः (Conjunction with v and y)

संस्कृतभाषायां व्योः कस्यापि अन्यस्य व्यञ्जनस्य संयोगे चत्वारि एव रूपाणि सन्ति व्य् व्व् य्व् य्य् इति। पूर्वस्य वकारस्य अथवा पूर्वस्य यकारस्य वकारः यकारः च विहाय केनापि अन्येन व्यञ्जनेन सह संयोगः न भवति। तस्य तथ्यस्य पाणिनिः अस्मिन् सूत्रे ग्रहणं करोति – लोपो व्योर्वलि॥६-१-६६॥ वल् इति ह् य् विहाय सर्वे व्यञ्जनाः (हलः)। यदा व् अथवा य् वलः पूर्वम् अस्ति तदा तस्य लोपः भवति।
मया शब्दकोषे दृष्टम् व्ह् य्ह् इति संयोगात्मकः कोऽपि शब्दः नास्ति।

२०१५-०२-१० मङ्गलवासरः (2015-02-10 Tuesday)