यथा आङ्ग्लभाषायां संस्कृतलेखनम् तथा बोबीवर्यस्य श्वेतचित्रम्। http www…

यथा आङ्ग्लभाषायां संस्कृतलेखनम् तथा बोबीवर्यस्य श्वेतचित्रम्।
http://www.news.com.au/technology/online/social/us-politician-bobby-jindal-depicted-as-white-man-in-portrait-hanging-in-louisiana-state-capitol/news-story/6918590a96ab2776218e576fa93b0430?utm_source=outbrain&utm_medium=cpc&utm_campaign=technology

Bobby Jindal
Bobby Jindal

Advertisements

अधोलिखितः सन्देशः मया न लिखितः। किन्तु सन्देशः अयं…

अधोलिखितः सन्देशः मया न लिखितः। किन्तु सन्देशः अयं मह्यं रोचते तस्मात् अत्र स्थापयामि। मया का लेखिका इति गवेषणम् आरब्धं यदा ज्ञास्यामि तदा अत्रैव लेखिष्यामि।

श्री शालिवाहन शके 1938 दुर्मुखनाम संवत्सरः –
भारतीय नूतनवर्षं भवतां सर्वेषां कृते – नववर्षं नवं हर्षं समृद्धिं सुखसम्पदम् |
कार्यसिद्धिं परां वृध्दिं वितनोतु शुभं चिरम् ||
वर्षमेतन्नवीनं वो भूयात् बहुयशस्करम् |
तृप्तिदं शान्तिदं चैव सर्वं भवतु मड़्गलम् ||
प्रवर्षतु नवंवर्षं सुखमारोग्य ऋध्दताम् ||

समस्तप्रियजनाः
सृष्टिचक्राधारितं, विज्ञाननिष्ठं, वैश्विकं, अनादिकालतः इदानींपर्यन्तं प्रचलितं हिन्दुप्रणितकालगणनानुसारेण चैत्र शुक्ल प्रतिपदाया: एव श्रीश्वेतवाराहकल्पस्य कलियुगस्य नवसंवत्सरस्य च शुभारंभं भवति ।

एषाया: चैत्रशुक्लप्रतिपदाया: 5118 युगाब्दस्य
2073 विक्रमसंवतः
1938 शालिवाहनशकस्य
2542 जैनसंवतः “दुर्मुख:” नाम्ना संवत्सरः प्रारभ्यते ।

एतद् नववर्षदिनं
महाराष्ट्रे “गुढिपाड़वा”
आन्ध्रप्रदेशे “उगादि (युगादि)”
पूर्वोत्तरक्षेत्रे “विषुवदिनं”
राजस्थाने “सिंघारा”
अन्यत्र “ईष्टी”
सम्पूर्णभारते “नवरात्रारम्भ:”
एतै: रूपै: सम्पन्नं भवति

हिन्दु नववर्षस्य सर्वेभ्यः हार्दा: शुभाशया:।

इति उक्त्वा हिमांशुः अरुणम्

अपि भवान् ऊहितुं शक्नोति अहम् अरुणजेटलीवर्यं कस्मिन् विषये व्याख्यानं ददामि| एते चित्रे ३०मार्च२०१६तिथौ केन्बरानगरे योजमाने कार्यक्रमे विहिते|