सदानन्दवर्येण सह संभाषणम् – १ (Talking with Dr Sadananda – 1)

अहं सदानन्दवर्येण सह स्का‍ईपक्रमकेन माध्यमेन संभाषणं करोमि। तस्मात् किञ्चित् वाक्यानि अत्र लिखामि।

अस्तु तावत्। Till then. पञ्चदशनिमेषात्परं पुनर्दर्शनाय। अधुनाहं प्रत्यागतः। मया पत्राचारो विहितः। अगस्तमासस्य प्रथमदिनाङ्कादारभ्य चतुर्विंशति-दिनाङ्कं यावत् प्रचलिष्यति। Starting from the 1 Aug it will go till 24. चतुर्भ्यः सप्ताहेभ्यः। सप्ताहचतुष्टयात्मकः कालः। मार्गोऽवरुद्धः। किं कारणम्। मार्गविषये वयं चर्च्चा कृतवन्तः तस्मात् मार्गोऽवरुद्धः जातः। लाभान्विताः भवन्ति।

२००७-०७-३१ मङ्गलवासरः (2007-07-31 Tuesday)

ज्वलितायाः जन्मदिवसः (Jwalita’s Birthday)

अद्य ज्वलितायाः जन्मदिवसः अस्ति। सा ह्यः ज्वरिता आसीत् किन्तु अद्य प्रातःकाले उत्थाय सा अकथयत् अहं सर्वरूपेण स्वस्थास्मि। सा मन्यते जन्मदिवसे विद्यालयं निश्चितरूपेण गन्तव्यम् इति।

२००७-०७-३० सोमवासरः (2007-07-30 Monday)

हल्-सन्धिः पाठः – २ (Hal-sandhi, second lesson)

ह्यः श्रीनिवसवर्येण अधोलिखितानि सूत्राणि पाठितानि।

तोर्लि ८।४।६०॥ तल्लयः।

उदः स्थास्तम्भोः पूर्वस्य ८।४।६१॥

तस्मादित्युत्तरस्य १।१।६७॥

आदेः परस्य १।१।५४॥

झरो झरि सवर्णे ८।४।६५॥

खरि च ८।४।५५॥ उत्थानम्।

झयो होऽन्यतरस्याम् ८।४।६२॥ वाग्घरिः, वाघरिः।

शश्छोऽटि ८।४।६३॥ तच्छिवः, तच्शिवः।

मोऽनुस्वारः ८।३।२३॥ हरिं वन्दे।

नश्चापदान्तस्य झलि ८।३।२४॥ यशांसि।

अनुस्वारस्य ययि परसवर्णः ८।४।५८॥ शान्तः।

वा पदान्तस्य ८।४।५९॥ त्वङ्करोषि, त्वं करोषि।

२००७-०७-२९ रविवासरः (2007-07-29 Sunday)

कीदृशः तर्कः (What logic!)

अद्य आवयोः कन्यायाः जन्मदिवसस्य उत्सवः आसीत्। सा तस्याः सखीन् चलचित्र-क्रीडाविपणिम् आगमनस्य निमन्त्रणम् अददात् (gave invitation to come to the video games shop)। आरम्भकालः पञ्चवादने आसीत्। तस्याः एका सखा सार्ध-पञ्चवादने आगच्छत्। मया तस्याः पिता पृष्टः – कथं विलम्बः अभवत्। सः अकथयत् – यतो हि आवां गृहात् पञ्चवादने निरगच्छाव (left home at five)। अयं कीदृशः तर्कः अस्ति अहं न जानामि।

२००७-०७-२८ शनिवासरः (2007-07-28 Saturday)

प्राध्यापकः नरेशः आगच्छत् (Professor Naresh Visits)

गान्धीनगर्स्थे Dhirubhai Ambani Institute of Information & Communication Technology संस्थाने श्रीनरेशः प्राध्यापकः अस्ति। सः चिरकालात् अस्माकं मित्रः अस्ति। ह्यः सः केन्बरानगरस्थः NICTA इति नाम्न संस्था गमनाय आगच्छत्। तेन सह मिलित्वा मनसि अतीव आनन्दः अजायत्। सः सज्जनः स्वविषये कुशली विनम्रः च अस्ति।

२००७-०७-२७ शुक्रवासरः (2007-07-27 Friday)

मीतायाः जानुः भग्नः (Mita’s Knee fractures)

ह्यः मम भार्या मीता तयाः मित्रै सह आपणम् अगच्छत्। तत्र सा फल-शाकादि क्षेत्रे अपतत् स्वजानुः भग्नः अकरोत् च। अहं गृहे नासम् तस्मात् आवयोः पुत्रः तां चिकित्सालयं याने अनयत्। तत्र तस्याः क्ष-रश्मि-भाचित्रं ते गृहितवन्तः (took an x-ray photograph)। आगामिने दिवसाय विशेषज्ञ-चिकित्सकस्य मिलनं च निश्चितं कृतम्।

२००७-०७-२६ गुरुवासरः (2007-07-26 Thursday)

लघु-पाठ्यक्रमः – तृतीयः अन्तिमः दिवसः (Short Course – Third and last day)

अद्य लघु-पाठ्यक्रमस्य तृतीयः अन्तिमः दिवसः आसीत्। अद्य सुनीलवर्येण समतल-समन्वयानं नियन्त्रणं (control of flat systems) कथं क्रियते इति शिक्षयितम्। त्रिवादने पाठ्यक्रमः पूर्णः अभवत्। पाठ्यक्रमे पञ्चविंशति छात्राः आसन्। ते अकथयन् – पाठ्यक्रमः तेभ्यः अतिलाभकरः आसीत्।

२००७-०७-२५ बुधवासरः (2007-07-25 Wednesday)

लघु-पाठ्यक्रमः – द्वितीयः दिवसः (Short Course – Second day)

अद्य लघु-पाठ्यक्रमस्य द्वितीयः दिवसः आसीत्। मया दृढ-नियन्त्रणं (robust control) कथं क्रीयते इति चर्चितम्। मया अरेखाकारानां समन्वयानां पृष्ठपाती नियन्त्रणं (control of nonlinear feedback systems) कथं क्रियते इति विषये किञ्चित् सिद्धान्ताः चर्चितम् च। पराह्ने सुनीलः यन्त्रमानस्य नियन्त्रणम् (robot control) कथं क्रियते इति विषये उक्त्वान्।

२००७-०७-२४ मङ्गलवासरः (2007-07-24 Tuesday)

लघु-पाठ्यक्रमः (Short Course)

अद्य मया सुनीलवर्येण सह एकः लघु-पाठ्यक्रमः आरब्धम्। अयं त्रीदिवसीयः पाठ्यक्रमः अस्ति यान्त्रिक-समयवयानां नियन्त्रण-विषये (control of mechanical systems)। सुनीलः प्रातःकाले यान्त्रिक-समयवयानां प्रतिमानं कथं रचयितुं शक्यते इति अशिक्षयत् (taught how model mechanical systems can be modelled)। तत् परं मया पादस्य (of beam) ध्वन्यः (sound) च प्रतिमानं कथं क्रीयते इति शिक्षयितम्।

२००७-०७-२३ सोमवासरः (2007-07-23 Monday)

मम पिता केन्बरानगरे अपि वसति (My father lives in Canberra too!)

आगामिनि सप्ताहे अहं मम सहकर्मिणा सुनीलेन सह एकः लघुः पाठ्यक्रमः प्रस्तुतीकरोमि। तस्मात् तस्य पाठ्यक्रमस्य सज्जीकृत्वा अद्य प्रातः द्विवादने कार्यलयात् गृहं प्रत्यागच्छम्। आवयोः पुत्रः तदा जागर्ति अहं तम् अपृच्छम् -अपि  त्वं कथं जागर्षि। सः प्रत्यावदत् – अहं अस्य प्रश्नस्य चिरकालात् प्रतीक्षाम् अकरवम् अद्य मम ता इच्छा सम्पन्ना जाता इति। यतो हि सः रात्रौ यदा मित्रैः सह गच्छति तदा आवां सः यावत् न प्रत्यागच्छति तावत् जागृवः। सः प्रत्यागम्य सदैव पृच्छति – भवन्तौ कथं जागृतः इति। सः न जानाति अहं तस्य पिता इति न तु सः मम पिता। अहं मन्ये सः स्वयं मम पिता एव मन्यते इति।

२००७-०७-२२ रविवासरः (2007-07-22 Sunday)