अद्य अहं सिडनीनगरे आसम्। प्रातःकाले समाचारपत्रम् अपठम्। द्वादशवादने स्टीववर्येण स्टेनवर्येण सह चर्चाम् अकरवम्। वयम् एकम् वातपुरस्य (air pump) नियन्त्रणाय कार्यं कुर्मः। तत् परं राजीवस्य गृहे अतिस्वादु भोजनम् अकरवम्। तत् परं राजीवस्य स्वसुः गृहं गतम्। तत्र विष्णुसहस्रनामस्त्रोतस्य पाठः कृतः। सिडनीनगरतः निर्गम्य रात्रौ एकादशवादने केन्बरानगरे अस्माकं गृहं प्राप्तम्।
२००९-०१-३१ शनिवासरः (2009-01-31 Saturday)