Updates from December, 2014 Toggle Comment Threads | Keyboard Shortcuts

  • Himanshu Pota 7:54 pm on December 31, 2014 Permalink | Reply  

    शुभकामनाभिः सह उपहारः (A gift with best wishes) 

    २०१५-तमस्य नूतनवर्षस्य नैकाभिः शुभकामनाभिः सह सुबन्तरूपसंग्रहम् इति उपहारं निवेदयामि। त्रुटयः क्षम्यताम्।

    subantaruupaNi

    २०१४-१२-३१ बुधवासरः (2014-12-31 Wednesday)

     
    • Srinivasa 3:59 am on January 1, 2015 Permalink | Reply

      It’s wonderful work. One can see lot of hard work and experience has gone into it. Congratulations!

  • Himanshu Pota 7:56 pm on December 30, 2014 Permalink | Reply  

    महेन्द्रसिंहस्य वारः पारयति (Mahendar Singh’s Innings are Over) 

    अद्य मेल्बोर्ननगरे बोर्डर-गवास्कर-वैजयन्ती-स्पर्धायां मध्ये महेन्द्रसिंहधोनीवर्यः फालक-निकष-स्पर्धायाः स्वनिवृत्तिम् अघोषयत्।

    २०१४-१२-३० मङ्गलवासरः (2014-12-30 Tuesday)

     
    • Srinivasa 4:04 am on January 1, 2015 Permalink | Reply

      फालक-निकष-स्पर्धा – test cricket? धोनीवर्येण स्वपश्चिमे वयसि त्यागपत्रं दत्तः । अत्र कोऽपि चर्चनीयः विषयः नास्तीति मन्ये।

  • Himanshu Pota 7:11 pm on December 29, 2014 Permalink | Reply  

    अभिहर्यत (Behave with Affection) 

    सहृदयं सांमनस्यमविद्वेषं कृणोमि वः।
    अन्यो अन्यमभि हर्यत वत्सं जातमिवाघ्न्या॥अथर्व-वेदः ३।३०॥

    हर्य् धातुः धातुपाठे भ्वादिगणीयः परस्मैपदी इति अस्ति। तस्मात् अत्र हर्यत इति प्रयोगं न बोधामि। इदं ब्रह्म (मंत्रम्) वेदे अस्ति तस्मात् कदाचित् भिन्नं रूपम् अस्ति।
    अघ्न्या इति धेनुः गौः वा।

    २०१४-१२-२९ सोमवासरः (2014-12-29 Monday)

     
  • Srinivasa 9:50 am on December 29, 2014 Permalink | Reply  

    अभिविनीत (abhiviniita – trained in) 

    कस्यां कलायां अभिविनीते भवत्यौ – ‘In which art are you two ladies trained?’
    गृहीतविद्यः धनुर्वेदे अभिविनीतः – ‘After getting his education, he has been trained in archery’
    छन्दःशास्त्रेषु अभिविनीतः – ‘One who’s trained in the treatises dealing with prosody (and phonetics)

    अहं विद्युत्शास्त्रे अभिविनीतोऽस्मि – ‘I am trained in electrical engineering’

    २०१४-१२-२८ रविवासरः (2014-12-28 Sunday)

     
    • Himanshu Pota 7:59 pm on December 31, 2014 Permalink | Reply

      अपि प्रशिक्षितः (प्रशिक्षणम्) इति अभिविनीतः इति अर्थे प्रयोक्तुं शक्यते?
      कस्यां कलायां प्रशिक्षिते भवत्यौ?

      • Srinivasa 3:36 am on January 1, 2015 Permalink | Reply

        आम्, प्रयोक्तुं शक्यते इति मन्ये ।

    • Sumaira Chacon 3:23 am on January 1, 2015 Permalink | Reply

      This is a great lesson. It really helps to illustrate the verb. Thank you!

  • Himanshu Pota 1:29 pm on December 28, 2014 Permalink | Reply  

    पारँ कर्मसमाप्तौ (paara – to finish work) 

    अद्य दूरदर्शनस्य संस्कृतसमाचारे अस्ति पारयेयुः इति शब्दः। पारँ इति चुरादिगणीयः उभयपदी सेट् धातुः अस्ति।
    लट् पारयति पारयतः पारयन्ति
    लिङ् पारयेत् पारयेताम् पारयेयुः
    लोट् पारयतु-पारयतात् पारयताम् पारयन्तु
    लङ् अपारयत् अपारयताम् अपारयन्
    लुङ् अपपारत् अपपारताम् अपपारन्
    लिट् पारयाञ्चकार पारयाञ्चक्रतुः पारयाञ्चक्रुः
    आशीर्लिङ् पार्यात् पार्यास्ताम् पार्यासुः
    लुट् पारयिता पारयितारौ पारयितारः
    लृट् पारयिष्यति पारयिष्यत पारयिष्यन्ति
    लृङ् अपारयिष्यत् अपारयिष्यताम् अपारयिष्यन्
    सः गृहकार्यं पारयेत्। अहं मम व्याख्यानं पारयामि। अपि त्वं क्रयकार्यं अपारयः।

    २०१४-१२-२८ रविवासरः (2014-12-28 Sunday)

     
    • Srinivasa 4:42 am on January 1, 2015 Permalink | Reply

      तुमुन् प्रत्ययसहितप्रयोगः :-

      भोक्तुं पारयति ( पर्याप्तिवचनेष्वलमर्थेषु ३।४।६६ – काशिकावृत्ति) – he’s capable of eating,
      स एवेदं कर्तुं पारयति य: खलु असिधाराव्रतमाचरति (नवीन अनुवाद चन्द्रिका पृष्ठ २७३- This job can be done only by he who’s sworn to tread the sword’s edge

      • Himanshu Pota 7:25 am on January 1, 2015 Permalink | Reply

        अपि भवान् यद् लिखति तस्य अर्थः अस्ति भोक्तुं पारयति इति भोक्तुं शक्नोति इति समार्थौ स्तः ? धन्यवादः ।

  • Himanshu Pota 10:49 pm on December 27, 2014 Permalink | Reply  

    एकः सप्ताहः गतः (One Week Gone) 

    मम अवकाशस्य एकः सप्ताहः गतः। मया कति दिवसाः गताः इति अपि विस्मृताः। मया सप्ताहपर्यन्तं किं कृतम् इति अपि अहं न जानामि। श्वः गृहात् बहिः गन्तव्यम्। कालस्य आवागमनं द्रष्टव्यम्।

    २०१४-१२-२७ शनिवासरः (2014-12-27 Saturday)

     
    • hnbhat 11:08 pm on December 27, 2014 Permalink | Reply

      आवागमनं किम्?

      • Himanshu Pota 11:15 am on January 1, 2015 Permalink | Reply

        कदाचित् मया कालस्य गमनागमनम् इति प्रयोक्तव्यम् । अपि अयं तु शुद्धः प्रयोगः अस्ति?

    • Srinivasa 9:54 am on December 29, 2014 Permalink | Reply

      आगमनं च गमनं च ?

  • Himanshu Pota 10:35 pm on December 26, 2014 Permalink | Reply  

    भारतरत्नम् (Bharat Ratna) 

    भारतप्रशासनं मदनमोहनमालवीयम् अटलबिहारीवाजपेयिनम् भारतरत्नम् इति पुरस्कारं दास्यति। विवादः अस्ति यदि तौ पुरस्कारम् अर्हतः। अयं निरर्थकः विवादः अस्ति। अहं मन्ये राजीवगांधिनम् अपि अयं पुरस्कारः अमिलत्। यदि राजीवगांधी इमं पुरस्कारं लब्धुं शक्नोति तर्हि कोऽपि इमं पुरस्कारम् अर्हति। राजीवगांधिनः पुरस्कारे प्राप्ते पुरस्कारस्य किमपि मूल्यं नास्ति।

    २०१४-१२-२६ शुक्रवासरः (2014-12-26 Friday)

     
    • Srinivasa 10:07 am on December 29, 2014 Permalink | Reply

      मालवीयवर्यस्य एकैव दोषः आसीत्। सः १९३४ वर्षे कांग्रेसदलं त्यक्त्वा हिन्दूमहासभां प्राविशत् । ततः प्रभृति सः कांग्रेसदलाय नेहरूवर्याय च अप्रियः अभवत्।

  • Srinivasa 4:33 am on December 26, 2014 Permalink | Reply  

    अव्ययीभावः समासः (Indeclinable Compound) वर्तते (continues) 

    अनुगङ्गं वाराणसी (‘Banaras is situated/extends along the Ganga’)
    अनुयमुनं मथुरा
    अनुगङ्गं हस्तिनापुरं
    अनुशोनं पाटलीपुत्रं इत्यादि

    यस्य चायामः (२।१।१६) इत्यनेन अनुः यस्य दैर्घ्यं सूचयति तेन (लक्षणभूत-) शब्देन सह विकल्पेन समस्यते, अव्ययीभावश्च समासो भवति।
    अनुगङ्गं वाराणसी इत्यत्र गङ्गायाः प्रसिद्धत्वात् गङ्गैवात्र लक्षणम्, न तु वाराणसी। प्रसिद्धं हि लक्षणं भवति नाप्रसिद्धम् ।

    नद्यः खलु प्रसिद्धाः न तु नगर्यः इति प्रमाणभूतवैयाकरणाः 🙂

    २०१४-१२-२५ गुरुवासरः (2014-12-25 Thursday)

     
    • hnbhat 12:49 pm on December 26, 2014 Permalink | Reply

      “अनुगङ्गं वाराणसी” इति। यद्यपि गङ्गावाराणस्यावुभे अप्यायमवत्यौ, तथाप्यायामवत्तया गङ्गायाः प्रसिद्धत्वाद्? गङ्गैवात्र लक्षणम्, न वाराणसी। प्रसिद्धं हि लक्षणं भवति, नाप्रसिद्धम्। तस्माद्ग्ङ्गयैवात्र समासो भवति, न वाराणस्या।

      इति न्यासकाराः।

      अनुर्यत्समया॥ २।१।१४॥ समीपमात्रे, त्वययीभावः विभाष्यते, “अनुवनम्, अशनिर्गतः” इति।

  • Himanshu Pota 3:29 pm on December 25, 2014 Permalink | Reply  

    शोभनं शोधकार्यं भविष्यति (Good Research Will Happen) 

    यदि भारतीयाः शोधकर्तारः भारतस्य समस्यायाम् उपरि एव शोधकार्यं करिष्यन्ति तर्हि तेषां शोधकार्यं उच्चतमम् भविष्यति। यावत् ते विदेशीयसमस्यासु उपरि शोधकार्यं करिष्यन्ति तावत् ते अधः एव गमिष्यन्ति। शोधकार्यं न केवलं बुद्धयाः फलम् अस्ति किन्तु बुद्धिः कां समस्यां निरीक्षति एतस्य भावस्य अपि फलम् अस्ति। शोधकर्तारः स्वच्छभारतः इति विषये शोधकार्यं करिष्यन्ति इति ज्ञात्वा अहं प्रसादयामि।
    http://indianexpress.com/article/cities/mumbai/sessions-on-swachh-bharat-make-in-india-at-science-congress/

    २०१४-१२-२५ गुरुवासरः (2014-12-25 Thursday)

     
  • Himanshu Pota 9:49 am on December 24, 2014 Permalink | Reply  

    अस्, इस्, उस् इति प्रत्ययाः (s-ending suffixes) 

    मैकडानलवर्यः संस्कृत-व्याकरण-प्रवेशिका इति पुस्तके लिखति – प्रायः सारे सकारान्त शब्द कृत्-प्रत्यय अस्, इस्, उस् से बनते है और प्रायः नपुंसकलिङ्ग होते हैं – इति।
    पण्डितेभ्यः – अष्टाध्याय्याम् एतेषां प्रत्यायानां किं स्वरूपम् अस्ति?

    २०१४-१२-२४ बुधवासरः (2014-12-24 Wednesday)

     
    • hnbhat 12:18 pm on December 24, 2014 Permalink | Reply

      प्रायः सारे सकारान्त शब्द कृत्-प्रत्यय अस्, इस्, उस् से बनते है और प्रायः नपुंसकलिङ्ग होते हैं – इति।

      A SANSKRIT GRAMMAR FOR STUDENTS (1927) – Author: MACDONELL महाशयः हिन्दीभाषायां लिखितवान् वा इमं ग्रन्थम्?

      • Himanshu Pota 3:33 pm on December 25, 2014 Permalink | Reply

        मेकडानलवर्येण आङ्ग्लभाषायाम् एव पुस्तकम् लिखितम् । किन्तु तस्य पुस्तकस्य पठनं सरलं नास्ति । कपिलशास्त्रीवर्येण तथा सहजः हिन्दी-अनुवादः कृतः यथा अहम् अपि पठितुं किञ्चित् अवगन्तुं च शक्नोमि।

    • hnbhat 1:08 pm on December 24, 2014 Permalink | Reply

      १३४. इसुसन्तः। १५१. असन्तो द्व्यच्कः।

      इति पाणिनीयं लिङ्गानुशासने, नपुंसकाधिकारे।

      4-188 सर्वधातुभ्योऽसुन् ॥ चेत: । सर: । पय: । सद: । इति उणादिसूत्रम्।

      2-108 अर्चिशुचिहुसृपिछादिछर्दिभ्य इसि: – । हवि: सर्पि: ।

      2-115 जनेरुसि: ॥ जनुर्जननम् ।

      इत्यादीन्युणादिसूत्रोक्ताः प्रत्ययाः, नाष्टाध्यायामेते प्रत्ययाः।

c
Compose new post
j
Next post/Next comment
k
Previous post/Previous comment
r
Reply
e
Edit
o
Show/Hide comments
t
Go to top
l
Go to login
h
Show/Hide help
shift + esc
Cancel