चीनदेशस्य अर्थव्यवस्था (China’s Economy)

अद्य चीनदेशस्य प्रचलितायाः अर्थव्यवस्थायाः उपरि दूरदर्शने कार्यक्रमः आसीत्। ते तर्कयन्ति यतो हि चीनदेशः आढ्यस्य मार्गे तीव्रगत्या धावति तर्हि चीनदेशस्य अपचितिः अवश्यं भविष्यति। अहं तेन विचारेण सह सम्मतः नास्मि। अहं मन्ये यतो हि चीनदेशः कस्मात् अपि अन्यदेशात् ऋणं न आददाति तर्हि चीनदेशस्य अपचितिः न भविष्यति।

२०१४-०३-३१ सोमवासरः (2014-03-31 Monday)

रविवासरः अपि कार्याय अगच्छत् (Sunday went in work)

मया गृहे अनेकानि कार्याणि कर्तव्यानि। मया चिन्तितं अद्य करिष्यामि इति किन्तु अद्यापि कार्यालयस्य एव कार्यम् अकरवम्। सन्तोषः अस्ति मया यानि कार्यालयस्य कार्याणि पूर्वमेव कर्तव्यानि तानि अद्य कृतानि। आगामिशनिवासरे गृहकार्याणि करिष्यामि।

२०१४-०३-३० रविवासरः (2014-03-30 Sunday)

अभिप्रायः (Opinion)

भारतीयमतदातॄणाम् अभिप्रायः अस्ति मोदीवर्यः भारतस्य आगामिप्रधानमंत्री भविष्यति इति किन्तु अहं मन्ये राहुलवर्यः एव तस्मिन् पदे १७-मई-२०१४-तिथौ आरोहयिष्यति। जनाः तु मोदीवर्यं वाञ्छन्ति किन्तु यदा निर्वाचनं पूर्णं भविष्यति तदा निर्वाचितसदस्याः जनानां इच्छायाः तिरस्कारं कृत्वा राहुलवर्यं पदे स्थापयिष्यन्ति। तस्मात् ते पुनः भ्रष्टाचरणं कर्तुं शक्ष्यन्ति। इति मम अभिप्रायः अस्ति।

२०१४-०३-२९ शनिवासरः (2014-03-29 Saturday)

प्रस्तावः (Proposal)

अद्य मया एकस्मिन् शोधप्रस्तावे मम भागः सम्पूर्णः कृतः। अस्मिन् शोधप्रस्तावे अन्ये त्रयः शोधकर्तारः अपि सहभगिनः सन्ति।

२०१४-०३-२८ शुक्रवासरः (2014-03-28 Friday)

विवेचनम् (Review)

अद्य मया चतुर्णां शोधपत्राणां विवेचनं कृतम्। अन्यानि अपि कार्याणि कृतानि। तस्मात् अहं क्लान्तः अस्मि।

२०१४-०३-२७ गुरुवासरः (2014-03-27 Thursday)

लोकसभासदस्यः (Member of Parliament)

ह्यः यदा अहं मम भार्यां तस्य विद्यालयं अनयम् अस्मि तदा तया अहं पृष्टः अद्य भवान् कुत्र गच्छति इति। मया वचम् आरब्धम् अहम् अद्य लोकसभाभवनं गमिष्यामि इति। मम वाक्यस्य मध्ये एव तया अहं पृष्टः अपि भवान् लोकसभासदस्यः अस्ति इति। अहं न जाने सा कदा मां कस्मिन् विभूतिरूपे पश्यति।

२०१४-०३-२६ बुधवासरः (2014-03-26 Wednesday)

हलन्त्यम् १।३।३ (The ending consonant is indicatory)

उपदेशे हलन्त्यम् इत् भवति। वृद्धिरादैच् १।१।१ इति सूत्रे एच् इति उपदेशे च् इति इत्-संज्ञकः अस्ति।

२०१४-०३-२५ मङ्गलवासरः (2014-03-25 Tuesday)