रणाजिरम्, निशम्य, गृद्धी, उदीर्णः (Battle field, observed, eagerly desirous, increase)

आतंकिनः सकलं भारतदेशं रणाजिरम् अकुर्वन्।
निशम्य तस्य क्रोधः सः भयभीतः अभवत्।
अहं संस्कृतगृद्धी अस्मि।
उदीर्णः लोभः नाशाय।

२००८-०७-३१ गुरुवासरः (2008-07-31 Thursday)

ज्वलितायाः जन्मदिवसः (Jwalita’s Birthday)

आवयोः कनीयस्याः कन्यायाः जन्मदिवसः अस्ति। प्रातःकाले सर्वप्रथमे मम माता ज्वलितायाः जन्मदिवसः अस्ति इति अवदत्। मया तु तस्याः जन्मदिवसः विस्मृतः। तस्याः ज्यायान् भ्राता ज्यायसी भगिनी तस्यै उपहारम् आनीतवन्तौ।

२००८-०७-३० बुधवासरः (2008-07-30 Wednesday)

कर्णावतीनगरे प्रस्फोटाः (Bombs in Ahembdabad)

ह्यः गुर्जरप्रदेशे कर्णावतीनगरे प्रस्फोटानां विस्फोटम् अभवत्। तस्मिन् विस्फोटे पञ्चाशत् लोकाः दिवं गताः। इयं घटना अतीव दुःखकरी अस्ति। मम भ्राता स्वपरिवारेण सह कर्णावतीनगरे वसति। ते कुशलिनः सन्ति।

२००८-०७-२८ सोमवासरः (2008-07-28 Monday)

संस्कृत-लघु-नाटिका (Sanskrit skit)

अद्य द्विवादनात् त्रिवादन-पर्यन्तं वयं एकायाः संस्कृत-लघु-नाटिकायाः अभिनयस्य पूर्वाभ्यासम् अकुर्म। सर्वे अभिनेतारः पूर्वाभ्यासे नासीत् तथापि पूर्वाभ्यासः लाभकारी आसीत्। नाटिकायां अभिनेतारः संवादाः पठिष्यन्ति ते संवादानां स्मरणं न कर्तुं शक्नुवन्ति। सर्वे अभिनेतारः विश्वविद्यालये छात्राः सन्ति।

२००८-०७-२७ रविवासरः (2008-07-27 Sunday)

पादाभ्यां विहारम् (Walk)

अद्य तापमानम् आरामदायकम् अस्ति अनिलः अपि मन्दः अस्ति। अत्र शीत-ऋतुः अस्ति तस्मात् अद्यतनस्य वातावरणम् मनोहरं भाति। मध्याह्ने अहं मम भार्याया सह पादाभ्यां विहारं कृतवान्।

२००८-०७-२६ शनिवासरः (2008-07-26 Saturday)

सिसीलियावर्या विगच्छति (Cecilia departs)

अस्माकं विभागे (In our department) एका व्याख्यात्री सिसीलियावर्या अद्य व्यगच्छत्। सा स्वव्यवसायम् आरब्धवान्। व्यवसाये सा  यादृशी व्यस्ता अभवत् पाठनाय सा अवकाशं न प्राप्तवती तस्मात् सा व्यगच्छत्।

२००८-०७-२५ शुक्रवासरः (2008-07-25 Friday)

हास्यविस्फोटः (Laughter Bang)

अद्य श्रीशैलेशलोढावर्यः श्री‍अरुणजेमिनीवर्यः च भारतात् अत्र केन्बरानगरम् आगम्य हास्य-कार्यक्रमम् अकुरुताम्। तौ एकलविद्यालयस्य प्रचारकरणाय सिडनीनगरम् आगच्छताम् ततः अस्माभिः तौ केन्बरानगरम् आमन्त्रितौ। कार्यक्रमः अति आनन्ददायकः आसीत्।

२००८-०७-२४ गुरुवासरः (2008-07-24 Thursday)

प्रशासनपद्धतिः (Governance)

विंशतिः वर्षः पूर्वं यदा मया अत्र मन्दिराय कार्यम् आरब्धं तदा न अजानम् अद्य भगवत्प्राप्तिं करणस्य चिन्ता न भविष्यति किन्तु मन्दिरस्य प्रशासनं कथं करणीयम् इति जनाः विवदिष्यन्ति। अहो भाग्यम्।

२००८-०७-२३ बुधवासरः (2008-07-23 Wednesday)

आपदा (Trouble)

अत्र केन्बरास्थस्य मन्दिरस्य समित्याम् अहम् सदस्यः अस्मि। अधुन नवसमित्यां निर्वाचनस्य कालं जातम्। समित्या भृशं कार्यं कृतं किन्तु किञ्चित् सदस्याः कथयन्ति इयं समिति कार्यं करोति किन्तु सम्यग् प्राशासनपद्धत्याः परिपालनं न करोति। तस्य वचनस्य कथम् उत्तरं दातव्यम् इति अहं न जानामि।

२००८-०७-२२ मङ्गलवासरः (2008-07-22 Tuesday)

प्रपत्रम् अददाम् (Gave the form)

आगामीवर्षे आवयोः कनियसी कन्या ज्वलिता अन्यं विद्यालयं गमिष्यति। अद्य अहं दिव्यांशुना सह तं विद्यालयम् अगच्छाव ज्वलितायाः प्रपत्रं च अदद्व।

२००८-०७-२१ सोमवासरः (2008-07-21 Monday)