मा द्राक्षीत् (Don’t Look Up – Movie)

२०२१संवत्सरस्य अन्तिमदिवसे मा द्राक्षीत् इति चलचित्रम् अद्राक्ष्व। जनाराधनाय शासकाः किं न कुर्वन्ति। यथा रामेणोक्तम्-
स्नेहं दयां च सौख्यं च यदि वा जानकीमपि।
आराधनाय लोकस्य मुञ्चतो नास्ति मे व्यथा॥१.३ उत्तररामचरितम्॥
इदमस्ति प्रजातन्त्रस्य अवसानं यथा पृथुना The Republic इति ग्रन्थे लिखितम्। इदानीं वयं पश्यामः विज्ञानस्य सर्वाण्युद्घोषणानि जनमतेष्याश्रितानि।
मन्ये Don’t Look Up इति चलचित्रस्यारम्भः यथा गम्भीररूपेणास्ति सः इदं चलचित्रं पातयति। अगुरुत्वमेव अस्य चलचित्रस्य लक्षणम्। आरम्भादेव तद् लक्षणं पालनीयम्।

२०२१-१२-३१ शुक्रवासरः (2021-12-31 Friday)

नान्य पन्था विद्यते समृद्ध्यै (There is no other path to prosperity)

न तत्रास्ति धनी कोऽपि यत्र निर्धन एकोऽपि।
सेवन्तामबलं नान्य पन्था विद्यते समृद्ध्यै॥

२०२१-१२-३० गुरुवासरः (2021-12-30 Thursday)

सुदिनम् (Great Weather)

भवन्तः सर्वे पूर्वे मम नैकानि शीत-घर्म-वर्षा-इत्यादीनि परिदेवनानि अश्रौषुः किन्तु नाद्य। यथा तुलसीदासमहाभक्तेन रामचरितमानसे रामचन्द्रस्य जन्मदिवसस्य वर्णनं कृतं तथैव सुदिनमत्रासीत्। अहमाकाशमवलोकयन्नुत्तररामचरितमपाठिषम्। अहो आनन्दः।

नौमी तिथि मधु मास पुनीता। सुकल पच्छ अभिजित हरिप्रीता॥
मध्यदिवस अति सीत न घामा। पावन काल लोक बिश्रामा॥
सीतल मंद सुरभि बह बाऊ। हरषित सुर संतन मन चाऊ॥
बन कुसुमित गिरिगन मनिआरा। स्त्रवहिं सकल सरिताऽमृतधारा॥बालकाण्ड दोहा १९१

२०२१-१२-२९ बुधवासरः (2021-12-29 Wednesday)

एकस्मिन्नेव पोते (Only in one ship)


२०२१-१२-२८ मङ्गलवासरः (2021-12-28 Tuesday)
भारतदेशात् व्यापाराय गम्यमाने एकस्मिन्नेव पोते या निधिरासीत् सा निधिराङ्ग्लदेशस्य सम्पूर्णस्य निधेरर्धमासीत्। स आसीत् भारतदेशः।
The Madre de Deus, an enormous Portuguese galleon returning from India, sailed into their web. Despite her thirty-two brass guns, the Madre de Deus lost the brief battle, and.Portugal lost a princely cargo. Under the ship’s hatches lay chests of gold and silver coins, pearls, diamonds, amber, musk, tapestries, calico, and ebony. The spices had to be counted by the ton —more than four hundred tons of pepper, forty-five of cloves, thirty-five of cinnamon, and three each of mace and nutmeg. The Madre de Deus proved herself a prize worth half a million pounds sterling — or approximately half the net value of the entire English Exchequer at that date (1592 CE).
The Illustrated Longitude: The True Story of a Lone Genius Who Solved the Greatest Scientific Problem of His Time. Dava Sobel and William J. H. Andrewes. Walker Publishing Company, Inc.; first paperback edition published in 2003. p. 20.

डेष्मण्डटूटूमहाभागं द्वेष्मि (I grudge Bishop Desmund Tutu)

जिह्रेमि किन्तु तं महाभागं द्वेष्मि इति मित्रैः सह भाजयामि (भाज पृथक्कर्मणि चुरादिः)।
तस्य स्मितमुखस्यास्ति कोपस्य शतहेतवः।
नास्ति ममैकोऽपि हेतुः कोपमूर्तिः तथाप्यस्मि॥

7 October 1931 – 26 December 2021

https://www.nobelprize.org/prizes/peace/1984/tutu/lecture/

२०२१-१२-२७ सोमवासरः (2021-12-27 Monday)

उपायनदिवसः (Boxing Day)

अद्य जनाः ह्यः प्राप्तानि उपायनानि उद्घाटयन्ति। इदं पञ्चाङ्गमस्ति सर्वेभ्यः उपायनम्। जानामि अस्य पञ्चाङ्गस्य प्रसारणं रंहसा सामाजिकमाध्यमे भवति। ये अग्रे सरन्ति ते पठन्ति वा न इति न जानामि किन्तु मया सर्वं पठितं तस्मात् पठित्वैव अत्र स्थापयामि।

२०२१-१२-२६ रविवासरः (2021-12-26 Sunday)

रुचँ दीप्तावभिप्रीतौ च (To shine, to please)

रक्ताशोकरुचा विशेषितगुणो बिम्बाधरालक्तः
प्रत्याख्यातविशेषकं कुरबकं श्यामावदातारुणम्।
आक्रान्ता तिलकक्रिया च तिलकैर्लग्नद्विरेफाञ्जनैः
सावज्ञेव मुखप्रसाधनविधौ श्रीर्माधवी योषिताम्॥३.५ मालविकाग्निमित्रे॥
अत्र रुचँ इति दीप्तौ इति अर्थे प्रयुक्तः। रुच् + टा = रुचा।
विशेषतः अतिशयितः तिरस्कृतः गुणः रागः यस्य सः तथोक्तः।
प्रत्याख्यातविशेषकं प्रत्याख्यातं तिरस्कृतं विशेषकम्।

२०२१-१२-२३ गुरुवासरः (2021-12-23 Thursday)

छात्रैः सह (With my students)

अद्य ये छात्राः अत्र सन्ति तेः सह pizza इति सहभाजयता मेलनं कृतम्।

Lake Burley Griffin, Canberra, 22 December 2021

२०२१-१२-२२ बुधवासरः (2021-12-22 Wednesday)