Updates from August, 2007 Toggle Comment Threads | Keyboard Shortcuts

  • Himanshu Pota 12:21 am on August 31, 2007 Permalink | Reply  

    सेनवर्येण सह पुनः पठनम् (Reading again with Mr Sen) 

    सामान्यतः अहं सेनवर्येण सह शुक्रवासरे संस्कृत-साहित्यात् किंचन पठामि। अधुना आवां नलोपाख्यानम् इति पठावः। सामान्यतः प्रतिशुक्रवासरे किन्तु अद्य आवां षड्-सप्ताहेभ्यः परम् अमिलाव। सेनवर्यः सेवानिवृतः अस्ति किन्तु सः पठनकार्ये अतिव्यस्तः अस्ति। तस्य शब्दकोशस्य ज्ञानम् अति बृहतस्ति। तेन सह संस्कृत-शिक्षणस्य आनन्दः अन्यतरः एव अस्ति। किन्तु सः यानं चालयितुं न शक्नोति सः अस्मत् नगरस्य अन्यस्मिन् भागे च वसति तस्मात् अहं सहजरूपेण तस्य गृहं गन्तुं न शक्नोमि। यदा अवकाशं प्राप्स्यामि तदा गमिष्यामि।

    २००७-०८-३१ शुक्रवासरः (2007-08-31 Friday)

    Advertisements
     
  • Himanshu Pota 10:42 am on August 30, 2007 Permalink | Reply  

    दिश् – स्त्रीलिङ्गः (Direction – feminine) 

    अद्य मया प्रायः एकस्मात् मासात् परं श्रीसदानन्दवर्येण सह सम्भाषणं कृतम्। सः संस्कृत-सम्भाषणं यादृशं सरलीकरोति सुकरं च करोति तस्य आनन्दः भिन्नः एव। सः केषांचित् वाक्यानाम् अनुवादम् अकरोत्।

    कस्यां दिशि – which direction। दिशि सप्तमी-एकवचने – दिश् प्रातिपदिकमस्ति ।

    यस्यां कस्याम् अपि दिशि – in whichever direction

    सर्वासु दिक्षु – in every direction – दिक्षु सप्तमी-बहुवचने।

    सर्वाणि रूपाणि सन्ति –

    दिक्-दिग् दिशौ दिशः

    दिशम् दिशौ दिशः

    दिशा दिग्भ्याम् दिग्भिः

    दिशे दिग्भ्याम् दिग्भ्यः

    दिशः दिग्भ्याम् दिग्भ्यः

    दिशः दिशोः दिशाम्

    दिशि दिशोः दिक्षु

    हेदिक्-हेदिग् हेदिशौ हेदिशः

    २००७-०८-३० गुरुवासरः (2007-08-30 Thursday)

     
    • पंक्ज 1:06 am on September 1, 2007 Permalink | Reply

      धन्यवाद हिमाँशु जी

    • Kiran 3:18 am on September 4, 2007 Permalink | Reply

      The locative singular i.e. saptamI ekavachana of dik is dishi as you have correctly written. Only in the second last line of the post, it needs correction.

  • Himanshu Pota 12:49 am on August 29, 2007 Permalink | Reply  

    विमलावर्या (Vimala) 

    प्रायः दशवर्षपूर्वं एका विमलावर्या अस्माभिः सह संस्कृतं अशिक्षत किन्तु प्रायः १९९९वर्षे सा लुप्ता (disappeared) अभवत्। ह्यः तस्य दूरभाषः आसीत् – अहं सिडनीनगरे वसामि संस्कृतं पुनः शिक्षते च। सा मम वृत्तपत्रं (blog) च अपश्यत्। सा हितोपदेषात् एका कथा पठित्वा स्वशब्दे अलिखत् च। तां कथां सा मां अप्रेषयत्। अहं मन्ये विमलावर्या अधुना खलु संस्कृतं जानाति।

    २००७-०८-२९ बुधवासरः (2007-08-29 Wednesday)

     
  • Himanshu Pota 12:48 am on August 28, 2007 Permalink | Reply  

    पूर्णं चन्द्रग्रहणम् (Full lunar eclipse) 

    अद्य औस्ट्रेलियादेशे पूर्णं चन्द्रग्रहणं दृष्टुं शक्यते। रात्रौ अष्टवादने ग्रहणम् आरब्धवान् प्रायः द्वौहोरामितं तादृशं तिष्ठवान् च। तस्य दर्शनम् अतीव रमणीयमासीत्।

    २००७-०८-२८ मङ्गलवासरः (2007-08-28 Tuesday)

     
    • Kiran 3:30 pm on September 4, 2007 Permalink | Reply

      grahaNa is a neuter gender word in Sanskrit.
      It should be grahaNam.
      Same is with the sentences below.

  • Himanshu Pota 12:47 am on August 27, 2007 Permalink | Reply  

    गृहे आसं किन्तु (Stayed home, but!) 

    अद्यापि अहं अस्वस्थः आसं तस्मात् गृहे एव स्थास्यामि इति अमन्ये। प्रातःकाले शुचिता अकथयत् – भवान् गृहे एव अस्ति तस्मात् मां मम विद्यालयं नयतु तत् परं मध्याह्ने मां पुनः गृहम् आनयतु इति। मध्याह्ने यदा अहं ताम् आनेतुं गृहात् गच्छन् अस्मि तदा तस्याः माता अवदत् – भवान् बहिः गच्छति ततः किञ्चित् आलूकम् आनयतु इति। यदा अहं शुचितायाः विद्यालयं प्राप्तवान् शुचिता तस्याः मित्रेण सह आसीत्। शुचिता अवदत् – मम मित्रस्य सर्वयानं गतवान् कृपया तां तस्याः गृहमपि नयतु इति। यदा आवां गृहं प्रत्यागच्छतां तावत् द्वौहोरामितं कालं जातम्। अहं मन्ये यदि अहं कार्यालयं अगमिष्यं तर्हि अधिकं विश्रामम् अकरिष्यम्।

    २००७-०८-२७ सोमवासरः (2007-08-27 Monday)

     
  • Himanshu Pota 1:47 am on August 26, 2007 Permalink | Reply  

    विसर्गसन्धिः (Visarga Sandhi) 

    ह्यः अहम् अतिवज्वरितः आसम्। श्रीनिवासवर्यस्य लघुसिद्धान्तकौमुद्यां पाठे स्थातुं शक्ष्यामि अथवा न शक्ष्यामि इति न अजानम्। यदा अस्वपं तदा न अजानं दिवसः अस्ति अथवा रात्रिः। किञ्चित् होरां परं अहं अजागरम् तत्क्षणे सङ्गणितं निकषा आगम्य उपाविशम्। यदा समयः दृष्टं तदा ज्ञातं सम्यक् नववादनम्। नववादने श्रीनिवसवर्यः कक्षा आरब्धवान्। ह्यः वयम् अधोलिखितानि सूत्राणि अपठाम-

    विसर्जनीयस्य सः ८।३।३४॥

    वा शरि ८।३।३६॥

    ससजुषो रुः ८।२।६६॥

    अतो रोरप्लुतादप्लुते ६।१।११३॥

    हशि च ६।१।११४॥

    भोभगो‍अघो‍अपूर्वस्य योऽशि ८।३।१७॥

    हलि सर्वेषाम् ८।३।२२॥

    रोऽसुपि ८।२।६९॥

    रो रि ८।३।१४॥

    ढ्रलोपे पूर्वस्य दीर्घोऽणः ६।३।१११॥

    विप्रतिषेधे परं कार्यम् १।४।२॥

    एतत्तदोः सुलोपोऽकोरनञ्समासे हलि ६।१॥१३२॥

    सोऽचि लोपे चेत्पादपूरणम् ६।१।१३४॥

    २००७-०८-२६ रविवासरः (2007-08-26 Sunday)

     
  • Himanshu Pota 1:46 am on August 25, 2007 Permalink | Reply  

    जनदिवसः (Open Day) 

    अद्य केन्बरानगरे वर्तमानेषु त्रिषु विश्वविद्यालयेषु जनदिवसः इति अस्ति। ते जनदिवसस्य आयोजनं परस्परं कुर्वन्ति यतो हि ये छात्राः एकः विश्वविद्यालयः प्रवेशाय दृष्टुम् आगच्छन्ति ते अन्यौ अपि विश्वविद्यालयौ पश्येयुः इति ते मन्यन्ते। मया तत्र दशवादनात् द्वादशवादन-पर्यन्तं तिष्ठानि। किन्तु अहं प्रातःकाले अपि अतीज्वरितः आसम्। येन-केन-प्रकारेण मया विश्वविद्यालयः प्राप्तः किन्तु तत्र गेरीवर्यः मां झटिति गृहं प्रत्यागमयत्। गृहं प्राप्य अहं अस्वपम्।

    २००७-०८-२५ शनिवासरः (2007-08-25 Saturday)

     
  • Himanshu Pota 1:44 am on August 24, 2007 Permalink | Reply  

    ज्वरितः अस्मि (Feverish) 

    अद्य प्रभातकाले अहं किञ्चित् अस्वस्थः अस्ति इति अन्वभवम्। शुक्रवासरे अहं सेनवर्येण सह संस्कृतं शिक्षे किन्तु तस्य गृहं न गन्तुम् अशक्नवम्। स्वकार्यालये अपि विश्रामं न कर्तुम् अशक्नवम् च। एकः परम् एकः शोधछात्रः मया सह मन्त्रणाय आगच्छत्। सार्धत्रयः वादने पीटरवर्येण सह व्यावृत्ति-ज्यामिती-विषयं (Differential Geomerty) अशिक्षे। तदा दिव्यांशुः विश्विद्यालयात् मां आह्व्यत् – मम गृहं नयतु इति। यदा मया तस्य विश्वविद्यालयं प्राप्तं सः तत्र नासीत्। अहं तं पञ्चदश-कला-पर्यन्तम् अप्रतीक्षे। ततः यदा गृहं प्राप्तं तदा सपाद-षठ्-वादनम्। ज्वलितायाः तरण-शिक्षणस्य कालं सार्ध-षठ्-वादनम्। झटिति अहं ज्वलितां तरणकुण्डम् अनयम्। तत् कृत्वा यदा अहम् उपाविशं तदा अजानम् अहं कीदृशः ज्वरितः अस्मि। तत्र पठनाय मम सकाशे पुस्तकानि सन्ति किन्तु किमपि पठितं न अशक्नवम्। गृहं प्रत्यागमय अस्वपम्।

    २००७-०८-२४ शुक्रवासरः (2007-08-24 Friday)

     
    • पंक्ज 7:09 am on August 30, 2007 Permalink | Reply

      अहम् आशा करोमि भवान् अधुना ज्वर मुक्त अस्ति ।

      (Please Forgive my Sanskrit – I hope your fever is gone now. And you are feeling alright now).

  • Himanshu Pota 12:02 am on August 23, 2007 Permalink | Reply  

    कति इत्यादयः (How many, etc.) 

    कति (how many), यति (as many as), तति (so many), सर्वाणि लिङ्गानि रूपाणि बहुवचने एव सन्ति –

    कति यति तति

    कति यति तति

    कतिभिः यतिभिः ततिभिः

    कतिभ्यः यतिभ्यः ततिभ्यः

    कतिभ्यः यतिभ्यः ततिभ्यः

    कतीनाम् यतीनाम् ततीनाम्

    कतिषु यतिषु ततिषु

    २००७-०८-२३ गुरुवासरः (2007-08-23 Thursday)

     
    • पंक्ज 4:42 am on August 24, 2007 Permalink | Reply

      Thanks so much

    • Anunad Singh 11:10 pm on August 24, 2007 Permalink | Reply

      अत्युपयोगी संक्षिप्तं च पाठम् !

  • Himanshu Pota 12:00 am on August 22, 2007 Permalink | Reply  

    कियत् इत्यादयः (How much, how great, etc.) 

    कियत् (how much, how great), इयत् (so much, so many), यावत् तावत् (so much so great), विशेषणशब्दानां रूपाणि धीमत् इव भवन्ति। स्त्रिलिङ्गे ते शब्दाः कियती इयती यावती तावती भवन्ति।

    पुंलिङ्ग-रूपाणि

    कियान् कियन्तौ कियन्तः

    कियन्तम् कियन्तौ कियतः

    कियता कियद्‍भ्याम् कियद्‍भिः

    कियते कियद्‍भ्याम् कियद्‍भ्यः

    कियतः कियद्‍भ्याम् कियद्‍भ्यः

    कियतः कियतोः कियताम्

    कियति कियतोः कियत्सु

    हेकियन् हेकियन्तौ हे कियन्तः

    नपुंसकलिङ्ग-रूपाणि

    कियत् कियतौ कियन्ति

    कियत् कियतौ कियन्ति

    शेषः पुंलिङ्गवत्।

    २००७-०८-२२ बुधवासरः (2007-08-22 Wednesday)

     
    • Subhash 3:16 am on August 24, 2007 Permalink | Reply

      Could you also clarify the use of these w.r.t directions?
      (both north-east-west-south, and right-left etcc…)
      For eg
      which direction
      whichever direction
      all direction etc…

c
Compose new post
j
Next post/Next comment
k
Previous post/Previous comment
r
Reply
e
Edit
o
Show/Hide comments
t
Go to top
l
Go to login
h
Show/Hide help
shift + esc
Cancel