Updates from February, 2019 Toggle Comment Threads | Keyboard Shortcuts

  • Himanshu Pota 11:54 pm on February 16, 2019 Permalink | Reply  

    निर्भरम् (Excessive) 

    व्याघ्रबुद्ध्या विनिर्मुक्तो बाणः पश्चात्तु गोमतौ।
    न तिष्ठति छिनत्येव लक्ष्यं वेगेन निर्भरम्॥विवेकचूडामणिः।४५३॥
    The arrow which is shot at an object with the idea that it is a tiger, does not, when that object is perceived to be a cow, check itself, but pierces the object with full force.
    भृशम्, गाढम्, तीव्रम्, अतिमात्रम्, अतिवेलम्, दृढम्, नितान्तम्, निर्भरम्, अत्यर्थम्, भरः, बाढम्, एकान्तम्, उद्गाढम्, अतिशयः इत्यमरः।
    English: Much or excessive
    Hindi: अतिशय (बहुत)

    २०१९-०२-१६ शनिवासरः (2019-02-16 Saturday)

    Advertisements
     
  • Himanshu Pota 11:27 pm on February 15, 2019 Permalink | Reply  

    कन्याधनम् (Dowry) 

    न जाने कथं भारते कोऽपि नरः चिन्तयति यतो हि सः नरः अस्ति सः कन्याधनम् अर्हति। न तु भारते ते अत्र ओस्ट्रेलियादेशम् अपि आगम्य स्ववधुं अतितरां धनाय पीडयन्ति। अत्र परिश्रमं कृत्वा कोऽपि धनं अर्जयितुं शक्नोति तस्मात् कथं ते ईदृशानि जघन्यानि कार्याणि कुर्वन्ति इति अहं बोधितुं न शक्नोमि।

    २०१९-०२-१५ शुक्रवासरः (2019-02-15 Friday)

     
  • Himanshu Pota 5:53 pm on February 14, 2019 Permalink | Reply  

    नरेन्द्रः पुनः प्रधानमन्त्री भवेत् (May Narendra become the PM again) 

    ह्यः लोकसभायां मुलायमसिंहयादवः अवदत् नरेन्द्रं पुनः प्रधानमन्त्री भवेत् इति। मम कर्णाभ्यां तु तानि वचांसि सुमधुरं गीतम् अस्ति।
    मुलायमः सः एव अस्ति किन्तु यदा सः नरेन्द्रम् आशंसते तदा सः प्रियः प्रतीयते किन्तु सः एव यदा भर्त्सयते तदा सः अप्रियतमः प्रतीयते। अयम् अस्ति मानवस्वभावः।

    २०१९-०२-१४ गुरुवासरः (2019-02-14 Thursday)

     
  • Himanshu Pota 11:20 pm on February 13, 2019 Permalink | Reply  

    समयभङ्गः (Broken Appointment) 

    केनापि सह विद्युतूर्जमापकस्य परिवर्तनाय समयकृतः अहम् अद्य गृहे तिष्ठामि स्म। कदा आगमिष्यते इति अहं न अजानम्। दिवसान्तरे कदापि आगमिष्यते किन्तु दिवसस्य मध्ये काऽपि माम् असूचयत् न आगम्यते इति। द्वितीयवारम् इदम् अभवत्। किं करणीयम्? यावत् मापकस्य परिवर्तनं न भविष्यति तावत् अस्माकम् गृहे उत्पादिता सौरोर्जा विक्रेतुं न शक्यते।  दण्डपालं परिदेवनं सूचयामि इति चिन्तयामि।

    २०१९-०२-१३ बुधवासरः (2019-02-13 Wednesday)

     
  • Himanshu Pota 9:11 am on February 12, 2019 Permalink | Reply  

    कुत्र आयाति? (From where does it come?) 

    गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः।
    गुरुः साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः॥
    सामान्यतः जनाः अस्य श्लोकस्य उच्चारणं नैकाभिः अशुद्धिभिः सह कुर्वन्ति। मुख्यशः तु तस्मै श्रीगुरुवे नमः इति।
    अद्य मया एकं बहुप्रचलितं हिन्दीगायनं – जहाँ डाल डाल पे सोने की चिडिया करती है बसेरा इति – श्रुतं तस्मिन् गायने अयं श्लोकः अस्ति यत्र श्लोकस्य उच्चारणे नैकाः अशुद्धयः सन्ति तेषाम् अस्ति श्रीगुरुवे इत्यपि। नैके जनाः इदं गायनं शृण्वन्ति श्रुत्वा ते अपि अशुद्धम् उच्चारणं कुर्वन्ति।
    कथं ते शुद्धम् अस्ति वा न वा इति कं संस्कृतज्ञं न पृच्छन्ति। कथं भाषां प्रति इदम् अवधानम्?

    २०१९-०२-१२ मङ्गलवासरः (2019-02-12 Tuesday)

     
  • Himanshu Pota 6:43 am on February 11, 2019 Permalink | Reply  

    दुष्करं कार्यद्वयम् (Two difficult things to achieve) 

    अस्मिन् संसारे दुष्करं कार्यद्वयम्। अन्येषु स्वमतस्य अनुष्ठानम् अन्यस्य धनं स्वयीकरणम् च। आदौ शिक्षकस्य कार्यं परं कार्यं धनाढ्यस्य। दाम्पत्ये एकस्मै अतिदुष्करम् एकस्यै स्वभावनियतम् इदं कार्यद्वयम्।
    Two things are very difficult to achieve!!!
    1. To plant your ideas in someone else’s head.
    2. To put someone else’s money in your own pocket.
    The one who succeeds in the first one is called a TEACHER.
    And the second is called a BUSINESSMAN.
    The one who succeeds in both is called a WIFE.
    The one who fails in both is called a HUSBAND!!!

    २०१९-०२-११ सोमवासरः (2019-02-11 Monday)

     
    • jyotiraj1959 3:36 pm on February 11, 2019 Permalink | Reply

      Sir Namaste. Can you please subscribe Dr Asheesh to this blog?

  • Himanshu Pota 2:12 pm on February 10, 2019 Permalink | Reply  

    कर्तुं त्वयि इत्यस्मिन् कथं सप्तमीविभक्तिः (to do to you – why saptamii vibhakti?) 

    तदाशु कर्तुं त्वयि जिह्ममुद्यते विधीयतां तत्र विधेयमुत्तरम्।
    परप्रणीतानि वचांसि चिन्वतां प्रवृत्तिसाराः खलु मादृशां गिरः॥किरातार्जुनीयम् १.२५॥
    अत्र कथं त्वयि इत्यस्मिन् सप्तमीविभक्तिः भवति। कृपया बोधयतु।

    इसलिय तुम्हारे प्रति कुटिल करने को तत्पर है। दुर्योधन के बारे में करने योग्य प्रतिक्रिया शीघ्र कीजिए। दूसरों के द्वारा कहे गए वचनों को इकट्ठा करने वाले मुझ जैसे गुप्तचरों के वचन बताने वाले सूचना देने वाले निश्चय ही (हैं)।

    २०१९-०२-१० रविवासरः (2019-02-10 Sunday)

     
  • Himanshu Pota 10:04 am on February 9, 2019 Permalink | Reply  

    नो चेत् (If not (like this)) 

    न मा नो इति त्रयः अव्ययशब्दाः निषेधः इत्यर्थे प्रयुज्यते। यथा निवेदयामि शृणोतु नो चेत् न्यायालयं नेष्यामि।
    अग्रे गीतं सरसकवयः पार्श्वयोर्दाक्षिणात्याः
    पश्चाल्लीलावलयरणितं चामरग्राहिणीनाम्।
    यद्यस्त्येवं कुरु भवरसास्वादने लम्पटत्वं
    नो चेच्चेतः प्रविश सहसा निर्विकल्पे समाधौ॥वैराग्यशतकम्
    नो चेत् चेतः –  चेतः चेतस् इति  प्रातिपदिकं सम्बोधनविभक्तिः एकवचनम्।
    (If there be music playing in front of you, by your side expert poets from the South,
    and behind you the courtesans waving fans and shaking their bracelets with a clinking sound, then indulge unstintingly in these worldly pleasures.
    If not, O Mind, enter the realm of beatitude devoid of all thoughts.)
    तद्यावदेतौ मत्पुत्रौ शिशुत्वात्त्वां शृगालं न जानीतः तावद् द्रुततरं गत्वा स्वजातीयानां मध्ये मिलितो भव। नो चेदाभ्यां हतो मृत्युपथं समेष्यसि। पञ्चतन्त्रम् – सिंहशृगालपुत्रयोः कथा।
    मेरे ये पुत्र अपनी शिशुता के कारण जबतक यह नहीं जान जाते कि तुम शृगाल हो तबतक शीघ्र यहाँ से भाग जाओ और अपनी जाति के शृगालों में मिल जाओ। अन्यथा कभी इनके द्वारा मारे जाकर तुम मृत्यु को प्राप्त हो जाओगे।

    २०१९-०२-०९ शनिवासरः (2019-02-09 Saturday)

     
  • Himanshu Pota 9:01 pm on February 8, 2019 Permalink | Reply  

    अलीकः (displeasing, falsehood, untruth) 

    अलीकः अवास्तविकः।
    शूलः शङ्करधन्वा अलीकम् इत्यमरः।
    सज्जनस्य हृदयं नवनीतं यद् वदन्ति कवयस्तदलीकम्।
    अन्यदेहविलसत्परितापात् सज्जनो द्रवति नो नवनीतम्॥
    Poets say that sages are like butter, this is untrue. Sages melt when someone else’s body is suffering not butter.

    स्वप्नो जागरणेऽलीकः स्वप्नेऽपि जागरो न हि।
    द्वयमेव लये नास्ति लयोऽपि ह्युभयोर्न च॥अपरोक्षानुभूतिः ५७

    २०१९-०२-०८ शुक्रवासरः (2019-02-08 Friday)

     
    • hnbhat 2:18 am on February 9, 2019 Permalink | Reply

      पीडार्थेऽपि व्यलीकं स्यादलीकं त्वप्रियेऽनृते ।। ३.३.३३७ ।।

      कथं भवतो लब्धः तादृशः अमरः? शब्दरकल्पद्रुमे –

      अलीकं , क्ली, (अल + ईकन् ।) अप्रियं । (“तद्यथा स महाराजो नालीकमधिगच्छति” । इति  रामायणे ।) मिथ्या । इत्यमरः ॥ (“ज्ञातेऽलीकनि-  मीलिते नयनयोः” । इति अमरुशतके ।) स्वर्गः ।  इति मेदिनी! ललाटं । इति हेमचन्द्रः ॥

      अलीकं , त्रि, (अल + ईकन् ।) मिथ्या । अप्रियं ।  अल्पं । इति शब्दरत्नावली

    • hnbhat 2:23 am on February 9, 2019 Permalink | Reply

      अलीकशब्दो नपुंसकलिंगः! न तु पुंलिंगः!

    • hnbhat 9:52 am on February 9, 2019 Permalink | Reply

      Sorry. I didn’t notice the second entry in Shabdakalpadruma and your second quotation.

  • Himanshu Pota 9:35 pm on February 7, 2019 Permalink | Reply  

    श्वयथुः (Swelling) 

    श्वयथुः शोथः शोफः इत्यमरः। सूजन इति भाषा।
    श्वयथुः पुंलिङ्गः टु ओ श्वि गतिवृद्ध्योः (ट्वितोऽथुच्॥३.३.८९॥) अथुच्।

    गम्भीरे श्वयथुः स्तन्यः कठिनोऽन्तर्मृशार्तिमान्।
    श्वाक्स्ताम्रोऽथवा दाहतोदस्फुरणपाकवान्॥
    In the deeper type (of arthritis), there occurs swelling, rigidity, hardness, agonizing pain inside the joints, dusky-red or coppery coloration, burning, pricking and throbbing pain, and tendency to suppuration.

    २०१९-०२-०७ गुरुवासरः (2019-02-07 Thursday)

     
c
Compose new post
j
Next post/Next comment
k
Previous post/Previous comment
r
Reply
e
Edit
o
Show/Hide comments
t
Go to top
l
Go to login
h
Show/Hide help
shift + esc
Cancel