Updates from June, 2007 Toggle Comment Threads | Keyboard Shortcuts

  • Himanshu Pota 7:59 pm on June 30, 2007 Permalink | Reply  

    नित्यवर्यस्य वंशी-वादनम् (Nitya’s Flute Concert) 

    अद्य सायंकाले सार्ध-सप्तवादने मन्दिरे नित्य-पार्करवर्यस्य वंशी-वादनस्य कार्यक्रमः आसीत्। प्रथमं तु अहं तस्मिन् कार्यक्रमे अगच्छम्। नित्यवर्यस्य वंशी-वादनम् अतीव-रञ्जकम् आसीत्। सः तस्य अनुष्ठानस्य नाम मनोरञ्जन इति (Colours of Mind) अददात्। तेन सह ऊर्ध्वके (on tabla) रोस-बिन्गमवर्यः तुम्बरे अर्चनावर्या च स्तः। (ऊर्ध्वकः तुम्बरम् च शब्दौ पृ १२८तः, संस्कृतस्य व्यावहारिकस्वरूपम्, डॉ-नरेन्द्रः, संस्कृतकार्यालयः, श्री‍अरविन्दाश्रमः, पुदुच्चेरी।)

    कार्यक्रमस्य मध्ये उत्थाय गृहं अधावं कौमुद्यां पाठे च किन्ञ्चित् विलम्बेन युक्तवान्। पाठः अस्माकं समये रात्रौ नववादने भवति।

    २००७-०६-३० शनिवासरः (2007-06-30 Saturday)

     
    • श्रीनिवासकृष्णन 12:13 am on July 2, 2007 Permalink | Reply

      मन्दिरे अभिरूपभूयिष्ठा परिषदासीत् इति मन्ये। अस्याः श्रुतिप्रसादनाय पार्करवर्येण किं प्रस्तुतं? अपि अचिरप्रवृत्तं शरदृतुमधिकृत्य किंचिदपि वादितम्? कथमासीत् ऊर्ध्वकतुम्बरयोः सम्मिश्रणं वंशीवादनेन?

    • Himanshu Pota 9:35 am on July 3, 2007 Permalink | Reply

      श्रीनिवासवर्य,
      पार्करवर्यः संगीतं स्वस्य आध्यातिमिकविकासाय उप्युज्ये तस्मात् तस्य अनुष्ठानं मन्दिरस्य अभिरूपमासीत्| अहं तानसेनः नास्मि किन्तु कर्णसेनः अस्मि तस्मात् अनुष्ठानस्य विवरणं न दातुं शक्नोमि| सः राग-यमनः राग-कल्याणि इत्यादयः रागान् वादितवान्|
      धन्यवादः|
      हिमांशुः|

  • Himanshu Pota 1:39 am on June 29, 2007 Permalink | Reply  

    युगपद् (Together, simultaneous) 

    युगपद् – together – मोनियर-विलियम्स्-शब्दकोशे सः शब्दः अव्ययः अस्ति किन्तु ह्यः मया अखिलभारतीय-संस्कृत-समाचरे श्रुतं युगपदे इति, कथमेतत्।

    युगपत्कर्मन् (simultaneous action) – तौ युगपत्कर्म कुरुतः।

    युगपत्काल (taking place at the same time) – युगपत्काले सर्वस्मिन् देशे मतदानं भविष्यति।

    युगपत्प्राप्ति (reaching simultaneously) – कतिवारं अहं मम भार्या च गृहं युगपत्प्राप्तिं कुरुतः।

    युगपत्भाव (simultaneousness or togetherness) – युगपत्भावः कार्यकरान् बलं ददाति।

    अयुगपद् इति न युगपद्।

    २००७-०६-२९ शुक्रवासरः (2007-06-29 Friday)

     
  • Himanshu Pota 1:38 am on June 28, 2007 Permalink | Reply  

    आशास् धातुः (aashaas – To desire, wish, ask, pray for) 

    आशास् – (wish, desire, hope) – आत्मनेपदी भ्वादिगणीयः धातुः अस्ति।

    विदुषः संसर्गः अतिलाभकरः अस्ति। डॉसदानन्देन अद्य मां एकः संदेशः प्रेषितम्। संदेशे तेन आशासे इति शब्दः प्रयुक्तः। अहं चिरकालात् हिन्दीभाषायाम् – आशा करता हूँ – इति कथं संस्कृतभाषायाम् कथ्यते इति चिन्तितवान्। मया आशा इति धातुः शब्दकोशे दृष्टः किन्तु सः धातुः एव नास्ति। अद्य अजानं तस्मिन् अर्थे आशास् इति धातुः भवति।

    अहं आशासे तव सर्वं कुशलं भवति। सः आशासते तस्य माता आगच्छतु इति। ते आशासन्ते भोजनम्। ते आशासन्ते सुखम्। माता आशासत बालकानां सुखम्।

    २००७-०६-२८ गुरुवासरः (2007-06-28 Thursday)

     
  • Himanshu Pota 1:37 am on June 27, 2007 Permalink | Reply  

    कर्मणि-प्रयोगे दिनचर्या-लेखनम् – २ (Daily activity sentences – Passive construct – 2) 

    डॉ-सदानन्दवर्यः जर्मनदेशतः इमानि वाक्यानि अप्रेषयत।कर्मणि-प्रयोगे कर्ता तृतीया-विभक्त्याम् अस्ति कर्म प्रथमा-विभक्त्याम् अस्ति च।

    प्रार्थना क्रियते। ततः परमल्पाहारः क्रियते। (अवधेहि – आहारः – पुंलिङ्गः शब्दः अस्ति।)

    अनन्तरं सङ्गणकेन किञ्चित्कार्यं क्रियते।

    मया ततो विश्वविद्यालयो गम्यते।

    तत्र कक्षाद्वयं अध्याप्यते। छात्रैः सह किञ्चित् सम्भाषणं क्रियते सम्भाष्यते वा। (अवधेहि – सम्भाषणं – नपुंसकलिङ्गः शब्दः अस्ति।)

    ततः विद्युत्पत्राणि पठ्यन्ते लिख्यन्ते च। (अवधेहि – पठ्यन्ते बहुवचने अस्ति, सः पत्राणि अनुसरति।)

    २००७-०६-२७ बुधवासरः (2007-06-27 Wednesday)

     
  • Himanshu Pota 8:21 pm on June 26, 2007 Permalink | Reply  

    कर्मणि-प्रयोगे दिनचर्या-लेखनम् – १ (Daily activity sentences – Passive construct – 1) 

    डॉ-सदानन्दवर्यः जर्मनदेशतः इमानि वाक्यानि अप्रेषयत।

    कर्मणि-प्रयोगे कर्ता तृतीया-विभक्त्याम् अस्ति कर्म प्रथमा-विभक्त्याम् अस्ति च।

    अद्य मया प्रातः सप्तवादने उत्थीयति (get up)(अवधेहि – मया – तृतीया विभक्तिः।)

    ततः परं मुखं प्रक्षाल्यते (wash or clean)(अवधेहि – मुखम् – नपुंसकलिङ्गः शब्दः अस्ति।)

    दन्तधावनं क्रियते। (अवधेहि – दन्तधावनम् – नपुंसकलिङ्गः शब्दः अस्ति।)

    चायं पीयते।

    ततः परं मम पुत्री बालविद्यालयं नीयते।

    मया अनन्तरमागत्य स्नानं क्रियते स्नायते वा।

    मया ततो देवः पूज्यते।

    प्रार्थना क्रियते प्रार्थ्यते वा।

    २००७-०६-२६ मङ्गलवासरः (2007-06-26 Tuesday)

     
  • Karthik 3:11 pm on June 25, 2007 Permalink | Reply  

    यदा-कदा विकल्पः – रामायणात् उदाहरणानि (Alternative to When-then construct – Examples from Ramayana) 

    श्रीनिवासवर्यः लिखति – यदा-तदा रचनायाम् अन्यः विकल्पः अपि अस्ति। यथा -रामायणे सुन्दरकाण्डात् सर्गः ४६ श्लोकः २४ –

    अर्द्यमानः ततः तेन दुधरेणानिलात्मजः। चकार निनदं भूयो व्यवर्धत च वेगवान्॥

    (When Durdhara attacked Hanuman fiercely, he (Hanuman) enlarged his body further and gave out terrific roars.)

    रामायणे सुन्दरकाण्डात् सर्गः ३८ पङ्क्तिः ६१ –

    हियमाणां तदा विरो न तु मां वेद लक्ष्मणः। ((Sita telling Lakshmana that) When she was

    abducted, Lakshmana was not by her side.)

    रामायणे सुन्दरकाण्डात् सर्गः ४२ श्लोकः ६ –

    कोऽयं कस्य कुतो वाऽयं किन्निमित्तमिहागतः? कथं त्वया सहानेन सम्वादः कृत इत्युत॥

    (Who’s he, whose servant is he? Where did he come here from? What is

    his purpose here? Tell us how you managed to speak with him.)

    २००७-०६-२५ सोमवासरः (2007-06-25 Monday)

     
  • Karthik 3:10 pm on June 24, 2007 Permalink | Reply  

    यदा-कदा विकल्पः (Alternative to When-then construct) 

    श्रीनिवासवर्यः लिखति – यदा-तदा रचनायाम् अन्यः विकल्पः अपि अस्ति। यथा -यदा अहं गच्छामि तदा सा रोदिति। मयि गच्छति सा रोदिति। गच्छति – सप्तमि-एकवचने।

    यदा कन्याः मोदन्ते तदा मातरो मोदन्ते। कन्यासु मोदमानासु मातरो मोदन्ते।

    यदा मुनिः गृहं प्रविष्टः तदैव सङ्कटानि अनश्यन्। गृहं प्रविष्टे मुनौ सङ्कटानि अनश्यन्।

    यदा रामेण रावणो हतः तदा विभीषणो लङ्काधिपतिरभवत्। रामेण रावणे हते विभीषणो लङ्काधिपतिरभवत्।

    २००७-०६-२४ रविवासरः (2007-06-24 Sunday)

     
  • Karthik 3:10 pm on June 23, 2007 Permalink | Reply  

    लघुसिद्धान्तकौमुद्याः तृतीयः पाठः (Third Lession Laghu Siddhanta Kaumudi) 

    अद्य रात्रौ अस्माकं द्वितीयः पाठः आसीत्। वयं अधोलिखितानि सूत्राणि अपठम -४२ अकः सवर्णे दीर्घः ६।१।१०१। दैत्यारिः। श्रीशः। विष्णुदयः। होतृकारः।

    ४३ एङः पदान्तादति ६।१।१०९। हरेऽव। विष्णोऽव।

    ४४ सर्वत्र विभाषा गोः ६।१।१२२। गो‍अग्रम् गोऽग्रं वा।

    ४५ अनेकाल् शित् सर्वस्य १।१।५५।

    ४६ ङिच्च १।१।५३।

    ४७ अवङ् स्फोटायनस्य ६।१।१२३। गवाग्रम्। गोऽग्रम्।

    ४८ इन्द्रे च ६।१।१२४ गवेन्द्रः।

    ४९ दूराधूते च ८।२।८४।

    ५० प्लुत-प्रगृह्या अचि नित्यम् ६।१।१२५। आगच्छ कृष्ण ३ अत्र गौश्चरति।

    ५१ ईदूदेद् द्विवचनं प्रगृह्यम् १।१।११। हरी एतौ। विष्णू इमौ। गङ्गे अमू।

    ५२ अदसो मात् १।१।१२। अमी ईशाः।

    २००७-०६-२३ शनिवासरः (2007-06-23 Saturday)

     
    • R.subasriAravind 12:25 am on June 30, 2007 Permalink | Reply

      Its a commendable service rendered by u, iam a research scholar doing my ph.d on dharmasastra and modern hindu law in chennai, tamilnadu.iam reminded of my college days when i read these sutras.one thing i wished to know is -where are those vartikakaras interpretation on each sutras and the examples could be even more elaborated with real workings of them in the cited ones.{if Possible)

      samskrtam nama deivivak
      aano bhadrah kratavo yantu visvatah

      once again kudos to u and whomsoever behind this task
      with regards and best wishes
      R.Subasri Aravind

      • pinky 6:57 pm on November 8, 2010 Permalink | Reply

        I want a email subscription

    • Ananta narayan nanda 11:55 pm on May 15, 2013 Permalink | Reply

      I want all theory of laghu sidhanta koumudi

  • Karthik 3:09 pm on June 22, 2007 Permalink | Reply  

    वृषेणेति – नलोपाख्यानपर्वे (From Mahabharat – meaning?) 

    श्रीमहाभारते वनपर्वणि नलोपख्यानपर्वे एकोनषष्टितमोऽध्याये सप्तमः श्लोकः अस्ति –

    आसाद्य तु नलं वीरं पुष्करः परवीरहा।
    दीव्यावेत्यब्रवीद् भ्राता वृषेणेति मुहुर्मुहुः॥७॥

    Pushkara, the slayer of brave enemy, having approached Nala, repeatedly asked him, “Oh brother, let us gamble.”

    अस्मिन् श्लोके प्रथमं तु अहं न जानामि कथं दिव्यावेति इति शब्दस्य सन्धिविग्रहः भवति, द्वितीयं न जानामि वृषेण शब्दस्य कः अर्थः भवति। कृपया पण्डिताः मां बोधयन्तु।

    २००७-०६-२२ शुक्रवासरः (2007-06-22 Friday)

     
    • Himanshu Pota 7:26 pm on June 26, 2007 Permalink | Reply

      Himanshu,
      It should be दीव्यावेत्यब्रवीत्, I think.
      वृषेण दीव्याव means to play dice (first person dual). So that’s fine. That leaves one ‘iti’ too many.

      May be one ‘iti’ could be taken within quotation marks. Thus,

      “वृषेण दीव्याव इति” मुहुर्मुहुः अब्रवीत् इति. Is this whole narration inside another narration. In that case, we can account for the double ‘iti’ else back to the drawing board 🙂

      btw, वृषेण दिव् , अक्षैः दिव् means to gamble. दीव्याव is लोट् लकार, उत्तम पुरुष, द्विवचन् of

      दिव् in दिवादिगण्
      Srini

  • Karthik 2:40 pm on June 21, 2007 Permalink | Reply  

    सेत्स्यते (Will attain) 

    ह्यः अखिलभारतीयसंस्कृत-समाचारे तैः सेत्स्यते इति शब्दं प्रयुक्तम्। प्रथमं तु मया http://sanskrit.inria.fr/DICO/index.html जालपत्रात् ज्ञातं सेत्स्यते इति सिध् धातवः लृट्लकाररूपमस्ति। मया किञ्चित् शब्दकोशे दृष्टं तत्र सिध् दिवादिगणियः परस्मैपदी धातुः अस्ति। तस्मात् कथं सेत्स्यते इति रूपं भवति। कऽपि पण्डितः तत् मां स्पष्टिकरोतु। धन्यवादाः।

    २००७-०६-२१ गुरुवासरः (2007-06-21 Thursday)

     
c
Compose new post
j
Next post/Next comment
k
Previous post/Previous comment
r
Reply
e
Edit
o
Show/Hide comments
t
Go to top
l
Go to login
h
Show/Hide help
shift + esc
Cancel