Received on WhatsApp नववर्ष स्वागतम् ************** १ हे…

Received on WhatsApp

नववर्ष स्वागतम्
**************
(१)
हे शुक्लप्रतिपत्तिथे मधुमधो
हे नूत्नसंवत्सर
हे सृष्टीष्ट सदा जगद्धितकर
प्राणीश हे प्रीतिद।
हे मैत्रीगुणवर्द्धक प्रतिजने
हे शान्तिसौख्यार्पक
सानन्दं तव कुर्महे हि सकलाः
सुस्वागतं स्वागतम्॥
(२)
त्वं सृष्टेराद्यवर्षं युगशकसहितं
विक्रमार्कस्यवर्षं
त्वत्तोजीवस्य तत्त्वं विकसति जगति
प्राणदं सर्वसृष्टेः।
सत्ता ते भाति विश्वे ग्रहनिकरयुता
पञ्जिकासारयुक्ता
त्वां च स्वीकृत्य लोकाः सहृदयनमनं
कुर्वते भो प्रसीद॥
(३)
प्राप्तेऽस्मिन्नववत्सरे सहृदयः
साह्लादकः प्रार्थये
मित्राणां शुभकामनां बहुविधां
राजन्तु सर्वे सदा
आनन्दं कुशलं सुखं च विभवं
ज्ञानं प्रशान्तिं यशः
नित्यं रातु नवीनवत्सरवरं
हिन्दुप्रणम्यं मुहुः॥

Advertisements

गणनम् (Counting)

अधुना सौम्यामहाभागा अन्तर्जालमाध्यमेन कृदन्ताः इति पाठ्यक्रमम् अध्यापयति http://www.sanskritfromhome.in/course/krdantas।
तस्मिन् पाठ्यक्रमे ह्यः सा  छात्रान् गणिताय अधोलिखितान् कृदान्तपदान् पर्यचाययत्।
गणनम् counting, सङ्कलनम् adding, व्यवकलनम् subtracting, गुणनम् multiplying, विभजनम् dividing, आवर्तनम् revising।

२०१७-०३-२६ रविवासरः (2017-03-26 Sunday)

सिंहः पाणिने अहरत् प्राणान् (A lion took away Panini’s life)

सिंहो व्याकरणस्य कर्तुरहरत्प्राणान् प्रियान् पणिनेर्मीमांसाकृतमुन्ममाथ सहसा हस्ती मुनिं जैमिनिम्।
छन्दोज्ञाननिधिं जघान मकरो वेलातटे पिङ्गलमज्ञानावृतचेतसामतिरुषां कोऽर्थस्तिरश्चां गुणैः॥
उन्ममाथ मथयामास व्यापादयामासेत्यर्थः, तिरश्चाम् पश्वादीनाम्।
व्याकरणशास्त्र के कर्ता पाणिनि को सिंह ने मार डाला था, मीमांसाशास्त्र के प्रवर्तक जैमिनि मुनि को सहसा एक हाथी ने कुचल डाला था और छन्दःशास्त्र के प्रवर्तक आचार्य पिङ्गल को समुद्र के किनारे किसी ग्राह ने मार डाला था। पशुओं को किसी के गुण से कोई प्रयोजन नहीं होता है। (अनुवादः श्रीश्यामाचरणपाण्डेयेन लिखिते पञ्चतन्त्रस्य ग्रन्थस्य व्याख्यायाम् अस्ति।)
अपि इदं सत्यम्?

२०१७-०३-२५ शनिवासरः (2017-03-25 Saturday)

वीरराजगुरुः (Rajaguru)

आचार्येण अद्य एकस्य लेखस्य सङ्केतः प्रेषितः – https://swarajyamag.com/ideas/shivaram-rajguru-the-lesser-known-martyr-of-the-three-revolutionaries। अयं लेखः वीरराजगुरोः विषये अस्ति। लेखे अस्ति राजगुरुः लघुसिद्धान्तकौमुदिं कण्ठस्थ्यकरोत् इति। कथम् एकः पुरुषः एकस्मिन् लघुजीवने इदं सर्वं कर्तुं शक्नोति। सः खलु आदरपात्रम् अस्ति।

२०१७-०३-२४ शुक्रवासरः (2017-03-24 Friday)

दिव्यांशुः लन्दननगरे (Divyanshu in London)

ह्यः रात्रौ यदा लन्दननगरे संसदसदनस्य बहिः आक्रमणं प्रचलति तदा आवयोः पुत्रः दिव्यांशुः लन्दनविमानपत्तने अवातरत्। सः मेट्रो इति संयानेन यत्र सः स्थास्यति तत्र प्राप्नोत्। अद्य सः सन्देशं प्रैष्यत् सः कुशली अस्ति इति।

२०१७-०३-२३ गुरुवासरः (2017-03-23 Thursday)

योग्यादित्यनाथः (Yogi Adityanath)

योगीवर्यस्य उत्तमप्रदेशस्य मुख्यमन्त्रिपदस्य आरोधने ये जनाः चीत्कुर्वन्ति ते बिभ्यति योगीमाहाराजः उत्तमप्रदेशम् एकं सफलप्रशासनं दास्यति इति। तेषां चिन्ता सः अधर्मं करिष्यति इति नास्ति किन्तु सः राजधर्मस्य पालनं करिष्यति इति अस्ति। यावत् ते उच्चैः चीत्कुर्वन्ति तावत् सुप्रशासनम् अस्ति इति जानातु।

२०१७-०३-२२ बुधवासरः (2017-03-22 Wednesday)