कुसीदिकः कुसीदं ददाति। कुसीदवृद्ध्ये जनाः स्वपुञ्जी अधिकोशे रक्षन्ति। कुसीदपथः न वरं पथः अस्ति।
२००८-०२-१८ सोमवासरः (2008-02-18 Monday)
Learn Sanskrit while blogging
कुसीदिकः कुसीदं ददाति। कुसीदवृद्ध्ये जनाः स्वपुञ्जी अधिकोशे रक्षन्ति। कुसीदपथः न वरं पथः अस्ति।
२००८-०२-१८ सोमवासरः (2008-02-18 Monday)
मम सकाशे एकः संस्कृत-हिन्दी-आङ्ग्लभाषा-शब्दकोशः अस्ति। तस्मिन् कोशे अकाण्डः इति विशेषणशब्दः अस्ति। तस्य संज्ञाशब्दः incident इति मया चिन्तितः। किन्तु तदा incident संस्कृतभाषायाम् अनुवादः कः भवति इति चिन्तितम्। मम स्मरणकोशे एकोऽपि शब्दः नागतः किन्तु यदा आप्टेवर्यस्य शब्दकोशे दृष्टं तदा ज्ञातं तत् अर्थे अनेकाः शब्दाः सन्ति।
एकं अकाण्डं वृत्तम् अभवत्। एकः अकाण्डः वृत्तांतः अभवत्। एकः अकाण्डः प्रसंगः अभवत्। एका अकाण्डा घटना अभवत्।
२००८-०२-१६ शनिवासरः (2008-02-16 Saturday)
अनेकमासेभ्यः वयं लघुसिद्धान्तकौमुद्यां रूपाणि कुर्मः स्म। गत शनिवासरे अस्माकम् आचार्येण परीक्षापत्रं प्रकाशितम्। अद्य मया तस्य करणस्य प्रयासः कृतः। मया चिन्तितम् अहं सर्वं जानामि इति किन्तु यदा परीक्षापत्रस्य करणस्य प्रयासः कृतः तदा अजानं अहं अत्यल्पं जानामि इति। यावत् परीक्षायां सफलीभूताः न भवन्ति तावत् सम्यक् न जानन्ति।
२००८-०२-१५ शुक्रवासरः (2008-02-15 Friday)
अद्य आवयोः कन्यायै ज्वलितयै मया सेक्साफोन-वाद्ययन्त्रं क्रीतम्। अहं न जानामि किञ्चित् कालयावत् तस्यै इदं वाद्ययन्त्रं रोचिष्यते।
२००८-०२-१४ गुरुवासरः (2008-02-14 Thursday)
लोकाः कीदृशं प्रयत्नं कुर्वन्ति इति दृष्ट्वा अहं विस्मितः भवामि। पश्यतु http://opinion.currentsamachar.com/sanskritblogs.php।
२००८-०२-१३ बुधवासरः (2008-02-13 Wednesday)
अद्य केन्बरानगरे प्रथमः अन्तरराष्ट्रीयः फालकायाः स्पर्धा (cricket tournament) आसीत्। सामान्यतः केन्बरानगरे अतिन्यूनं वृष्टिः भवति किन्तु अद्य प्रातः प्रभृति वर्षति। यस्मिन् एकस्मिन् दिवसे जनाः वर्षा न इच्छन्ति तस्मिन् एव दिवसे जलं वर्षति।
२००८-०२-१२ मङ्गलवासरः (2008-02-12 Tuesday)
महेश-योगी-महारजस्य शरीरस्य अन्तिमक्रिया त्रिवेणीसंगमे प्रयागनगरे अद्य भविष्यति। तस्य शरीरं होलेण्डदेशात् भारतदेशम् आगच्छत्। यद्यपि महर्षिः भारतदेशात् बहिः न्यवसत् किन्तु भारतदेशः तम् अतीव प्रियः आसीत्।
२००८-०२-११ सोमवासरः (2008-02-11 Monday)
अस्मिन् सप्ताहे केन्बरानगरे बहुसंस्कृत्याः मेलनमस्ति (multi-cultural festival)। तस्मिन् मेलने अद्य खाद्यविक्रयः दिवसः आसीत्। अस्मिन् विक्रणे अस्माकं मन्दिरस्यापि एकं स्वसरं आसीत् (stall)। याः भक्ताः स्वसरं स्थापयितुम् आगतवन्तः ते विस्थापयितुं न आगन्तुं शक्ष्यन्ति इति वयं ज्ञातम्। तत् ज्ञात्वा अहं सपरिवारेण स्वसरं प्राप्तवान् विस्थापने सहाय्यं कृतवान् च। सवसरात् पात्राणि मन्दिरं नीत्वा तस्यां प्रक्षालनम् अपि कृतवन्तः। तत् परं यदा गृहं प्रप्तवन्तः तदा व्याकरणपाठस्य कालं पूर्णमभवत्।
२००८-०२-१० रविवासरः (2008-02-10 Sunday)
बाबा-आमटे आनन्दवन नाम तस्य स्थापिते आश्रमे चतुर्नवतिः वयसि दिवं गतः। सः स्वतन्त्रतानानी अधिवक्ता कुष्ठरोगिनः सेवकः नर्मदाबंधेन पीडीतानां प्रवक्ता च आसीत्। सः खलु एकः महात्मा आसीत्।
२००८-०२-०९ शनिवासरः (2008-02-09 Saturday)
इदानीं दक्षिणगोलार्धे ग्रीष्मकालः अस्ति। किन्तु केन्बरानगरे अधुनापि शीतदिनानि (cold weather) भवन्ति। अद्य मया सिडनीनगरं गतम्। तत्र सामान्यतया ऊष्णदिनानि एव भवन्ति किन्तु तत्रापि शीतदिनम् आसीत्। अहो मम भाग्यं शीतदिनानि मां न मुञ्चन्ति।
२००८-०२-०८ शुक्रवासरः (2008-02-08 Friday)