वचनं न प्रयच्छसि (You do not give a reply)

साह्लादं वचनं प्रयच्छसि न मे नो वाञ्छितं किञ्चन्
प्रायः प्रोच्छ्वसिषि द्रुतं हुतवहज्वालासमं रात्रिषु।
कण्ठाश्लेषपरिग्रहे शिथिलता यन्नादारच्च्चुम्बसे
तत्ते धूर्त हृदि स्थिता प्रियतमा काचिन्ममेवाऽपरा॥पञ्चतन्त्रे लब्धप्रणाशम् ७॥
वचनम् इति उत्तरम्।

२०१९-०६-३० रविवासरः (2019-06-30 Sunday)

क्लिन्नम् (Wet)

इदानीं भारते वर्षतुः प्रवर्तते। वर्षासु शरीरे क्लिन्ने जाते जनाः न प्रोञ्छन्ति। क्लेदस्य आर्द्रस्य आनन्दमनुभवन्ति।

क्लिन्नः – पुँल्लिङ्गः प्रथमाविभक्तिः एकवचनम्
क्लिद् क्त (क्तक्तवतू निष्ठा (१.१.२६), निष्ठा (३.२.१०२), कर्तरि कृत् (३.४.६७), लः कर्मणि च भावे चाकर्मकेभ्यः (३.४.६९), तयोरेव कृत्यक्तखलर्थाः (३.४.७०))
क्लिद् त (लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९))
क्लिन् न (रदाभ्यां निष्ठातो नः पूर्वस्य च दः (८.२.४२))
क्लिन्न सुँ (कृत्तद्धितसमासाश्च (१.२.४६), स्वौजसमौट्छष्टाभ्यांभिस्ङेभ्याम्भ्यस्ङसिभ्यांभ्यस्ङसोसाम्ङ्योस्सुप् (४.१.२))
क्लिन्न स् (उपदेशेऽजनुनासिक इत् (१.३.२), तस्य लोपः (१.३.९))
क्लिन्नः (ससजुषो रुः (८.२.६६), खरवसानयोर्विसर्जनीयः (८.३.१५))

२०१९-०६-२९ शनिवासरः (2019-06-29 Saturday)

अनुभवंस्तिष्ठ (Stay Experiencing)

माम तत्रागत्य मया सह सुभाषितगोष्ठिसुखमनुभवंस्तिष्ठ। (पञ्चतन्त्रे लब्धप्रणाशम् सिंह-लम्बकर्णयोः कथा)

मतुवसो रु सम्बुद्धौ छन्दसि (८.३.१) मरुत्वः
अत्रानुनासिकः पूर्वस्य तु वा (८.३.२) सँस्स्कर्त्ता
आतोऽटि नित्यम् (८.३.३) महान् अस्ति महाँ असि
अनुनासिकात्‌ परोऽनुस्वारः (८.३.४) संस्स्कर्त्ता
समः सुटि (८.३.५) सँस्स्कर्त्ता संस्स्कर्त्ता (अनचि च (८.४.४७))
पुमः खय्यम्परे (८.३.६) पुँस्कोकिलः पुंस्कोकिलः
नश्छव्यप्रशान् (८.३.७) अनुभवन् तिष्ठ अनुभवंस्तिष्ठ (खरवसानयोर्विसर्जनीयः (८.३.१५), विसर्जनीयस्य सः (८.३.३४))

२०१९-०६-२८ शुक्रवासरः (2019-06-28 Friday)

स्वामिसत्यमित्रानन्दः दिवं गतः (Swami Satyamitranandaji leaves his body)

दुःखमस्ति स्वामिसत्यमित्रानन्दगिरिमहाराजः बुधवासरे २५जून२०१९तिथौ दिवं गतः। सः अमन्यत सेवा साधना अस्ति इति।

अस्माकं केन्बरास्थस्य हिन्दूमन्दिरस्य भूमिपूजनोत्सवे सः स्वस्य उपस्थितेः आशीर्वादप्रदानम् अकरोत्। भूमिपूजनोत्सवे तेन हिन्दीभाषायाम् एकं प्रवचनं विहितम्। उत्सवे प्रायः द्विशतं जनाः आसन्। प्रवचनात् परं सः प्रवचनस्य अनुवादः आङ्ग्लभाषायां भवेत् इति ऐच्छत्। तेन सम्मर्दे सर्वान् दृष्ट्वा अनुवादाय अहं लक्षितः। जीवने प्रथमं वारं मया प्रवचनस्य बिन्दवः लिखिताः तस्मात् अनुवादः सुशकः अभवत्। सः मम अनुवादं श्रुत्वा अतिप्रसन्नः अभवत्। अहं विद्युदौद्योगिकीशास्त्रस्य व्याख्याता अस्मि इति ज्ञात्वा सः अस्मयत।

SwamiSatyamitranandaji2

२०१९-०६-२७ गुरुवासरः (2019-06-27 Thursday)

मूर्खपाण्डित्ये आनन्दः (Joy in being a fool)

ये जनाः मां मूर्खयन्ति ते वस्तुतः माम् आनन्दयन्ति यतो हि अहं मूर्खयित्वा तरुणाये। यः आनन्दः मूर्खपाण्डित्ये अस्ति सः आनन्दः कुत्रापि नास्ति।

२०१९-०६-२६ बुधवासरः (2019-06-26 Wednesday)

विदथम् (Knowledge)

सोमस्य मा तवसं वक्ष्यग्ने वह्निं चकर्थ विदथे यजध्यै।
देवाँ अच्छा दीद्यद् युञ्जे अद्रिं शमाये अग्ने तन्वं जुषस्व॥ऋग्वेदः ३.१.१॥
Bear me that I may be strong to hold the wine, O Fire, for thou hast made me a carrier flame of sacrifice in the getting of knowledge: I shine towards the gods, I put the stone to its work, I attain to the peace; O Fire, take delight in my body. Sri Aurobindo, Hymns to the Mystic Fire, Sri Aurobindo Ashram, Pondicherry, 1985.
विदथं ज्ञानम् इति श्रीअरविन्दः विदथं यज्ञम् इति सायणाचार्यः।
शमाये शान्तये इति श्रीअरविन्दः शमाये स्तोमि इति सायणाचार्यः।
वह्निः यः वहति।
श्रीअरविन्दः वेदान् ज्ञानाय अर्थयते किन्तु सायणाचार्यः कर्मकाण्डाय।

२०१९-०६-२५ मङ्गलवासरः (2019-06-25 Tuesday)

अनुबन्धचतुष्टयम् (Four Connections)

मन्यते विनानुबन्धं किमपि कार्यं न अनुष्ठीयेत्। तस्मात् मन्ये प्रयोजनं तु सर्वप्रथमं ज्ञायेत्।
सम्बन्धश्चाधिकारी च विषयश्च प्रयोजनम्।
विनानुबन्धं ग्रन्थादौ मङ्गलं नैव शस्यते॥
तर्कसङ्ग्रहस्य टीकायां श्रीनिवासमुखोल्लासिनी इत्यस्याम् अस्ति – द्रव्यादयः सप्त पदार्था अस्य ग्रन्थस्य विषयः, पदार्थतत्त्वज्ञानं प्रयोजनम्, पदार्थतत्त्वजिज्ञासुरधिकारी, विषयग्रन्थयोः प्रतिपाद्यप्रतिपादकभावः सम्बन्धः।
अत्र सम्बन्धः इति अहं सम्यग् न बोधामि। कृपया बोधयतु।
गीतायामस्ति –
परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम्।
यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः॥गीता १४.१॥
अत्र ब्रह्मविद्या विषयः अस्ति, प्रयोजनं ब्रह्मज्ञानमस्ति, अधिकारी अस्ति अर्जुनः, अर्जुनश्रीकृष्णयोः साधर्म्यम् इति सम्बन्धः अस्ति। इति मम मतिः। अपि इदं सम्यग् प्रतिभाति?

२०१९-०६-२४ सोमवासरः (2019-06-24 Monday)

मानसकार्यम् (Work done in the mind)

अद्य मम द्वितीया कथयति स्म अहं क्लान्ता अस्मि यतो हि गृहे अनन्तकार्याणि कर्तव्यानि। तदा अहं प्रत्यभाषे गृहस्य नवतिं प्रतिशतं कार्यम् अहम् एव करोमि तथापि भवती क्लान्ता अस्ति इति। तत् श्रुत्वा मम माता अकथयत् मन्ये सः मानसकार्यं करोति इति। मम मातुः वचनं श्रुत्वा उच्चैः हसित्वा मम द्वितीया मम मातुः आलिङ्गनम् अकरोत्। न कोऽपि मन्यते अहं गृहे कार्यं करोमि इति।

MitaMa23June2019

२०१९-०६-२३ रविवासरः (2019-06-23 Sunday)

मम छात्रः शेननवर्यः (My student Professor Shanon Vuglar)

गतगुरुवासरे २०जून२०१९तिथौ मम छात्रः शेननः मया सह मेलितुम् आगच्छत्। मम त्रिंशतः वर्षस्य असफलशिक्षणजीवने मया प्रायः पञ्च छात्राः शिक्षिताः इति मन्ये। तेषां शेननः एकः अस्ति। अत्र विद्यावाचस्पतिः इति उपाधिम् अर्जयित्वा सः शोधकार्याय अमेरिकादेशम् अगच्छत् तत्र सः इदानीं प्राध्यापकः अस्ति। तेन सह मिलित्वा माम् आनन्दः अभवत्। छात्रान् शिक्षयितुं यत् मया कृतं तत् न कार्यम् इति मया सः निर्दिष्टः किन्तु सः न अशृणोत्। सः छात्रान् सम्यग् शिक्षयितुम् इच्छति। छात्राः अङ्कार्जनाय पठन्ति न अवबोधनाय इति सः जानाति किन्तु सः चिन्तयति यत् कर्तव्यं तत् एव कार्यम्।

ShanonVuglar20June2019

२०१९-०६-२२ शनिवासरः (2019-06-22 Saturday)

अन्ताराष्ट्रीयः योगदिवसः (International Yoga Day)

अद्य मया श्रीमोदिना सह द्वात्रिंशत् योगासनानि कृतानि। मन्ये न केवलं श्रीमोदिना सह किन्तु अन्यैः लक्षशः जनैः सह अपि।

WhatsApp Image 2019-06-21 at 3.10.49 PM

२०१९-०६-२१ शुक्रवासरः (2019-06-21 Friday)