परीक्षा (Examination)

मोदिप्रशासनस्य मन्त्रिणां जनाः अस्मिन् सप्ताहे परीक्षां कुर्वन्ति। कृपया पश्यतु – https://www.youtube.com/watch?v=w2MqISb_yn0 अयं तु न कोऽपि उत्सवः किन्तु परीक्षा एव। ये अनयोः भेदं न जानन्ति ते किमपि न जानन्ति। मोदिवर्यः अनेन व्याजेन तान् मन्त्रिणः प्रत्यादेशं ददाति भविष्ये कदापि परीक्षा भवितुं शक्ष्यति तस्मात् भवान् सदैव उद्युक्तः भवतु इति।

२०१६-०५-३१ मङ्गलवासरः (2016-05-31 Tuesday)

परीक्षणम् (Examining)

सप्ताहद्वयं पूर्वम् मया छात्रेभ्यः एका परीक्षा कल्पिता। अद्य तस्यां परीक्षायां लिखितानि छात्राणाम् उत्तराणि परिक्षितानि। अस्मिन् कार्ये अहं मम सप्ताहस्य प्रियं Four Corners दूरदर्शनकार्यक्रमम् अपि न अपश्यम्। किन्तु प्रतिक्षितं कार्यं समाप्तम् इति सन्तोषः अस्ति।

२०१६-०५-३० सोमवासरः (2016-05-30 Monday)

पूर्णतां गतः (Completed)

गत मासद्वयात् एकं पाठ्यक्रमं पाठयामि स्म। सः पाठ्यक्रमः अद्य पूर्णतां गतः। अद्य प्रभृति पुनः संस्कृताभ्यासं आरप्स्यामि।

२०१६-०५-२९ रविवासरः (2016-05-29 Sunday)