जुष्टम् (Pleased)

जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः।
जुष्टं शब्दः जुष् इति धातोः उत्पन्नः शब्दः अस्ति। जुष् इति उभयपदी चुरादिगणीयः धातुः अस्ति।
सः जोषयति। He is happy.

२०१४-०५-३१ शनिवासरः (2014-05-31 Saturday)

सप्ताहस्य अन्तः (Week’s End)

सप्ताहस्य अन्तः आगच्छत्। अस्मिन् सप्ताहे अद्य खलु सप्ताहस्य अन्तः अस्ति। सामान्यतः अहं शनिवासरे रविवासरे अपि कार्यं करोमि किन्तु श्वः सिडनीनगरं गमिष्यामि तस्मात् किमपि कार्यं कर्तुं न शक्ष्यामि।

२०१४-०५-३० शुक्रवासरः (2014-05-30 Friday)

मातामहः प्रकाशवर्यः (Maternal Grandfather Prakashbhai)

अद्य अस्माकं मित्रं प्रकाशमेहतावर्यः मातामहः अभवत्। तस्य कन्या नीतिमहाभागा अद्य एकां कन्यां प्रासूत।

२०१४-०५-२९ गुरुवासरः (2014-05-29 Thursday)

करपत्राणि (Tax Papers)

ह्यः मया २०१२-१३वर्षस्य करपत्राणि मेहुलवर्यं दत्तानि। मया एकं कार्यं विहितम् तस्मात् सन्तुष्टः अस्मि।

२०१४-०५-२८ बुधवासरः (2014-05-28 Wednesday)

मन्त्रिमण्डलम् (Ministry)

अहं मन्ये मया नरेन्द्रमोदीवर्याय पर्याप्तं कृतम्। मया सः प्रधानमन्त्रिपदे स्थापितः। किम् अधिकम्। अहं मन्ये तेन मन्त्रिमण्डलस्य चयनं स्वयमेव कर्तव्यम्। अहं आगामिपञ्चवर्षाय विश्रामं करिष्यामि। नरेन्द्रमोदीवर्यः प्रशासनं कुर्यात्।

२०१४-०५-२७ मङ्गलवासरः (2014-05-27 Tuesday)

शपथविधिः (Oath Ceremony)

राष्ट्रपतिभवने सम्पत्स्यमानं शपथविधिम् अधुना अहं न पश्यामि। प्रारम्भे यदा किञ्चित् शपथविधिम् अपश्यं तदा राहुलवर्यं द्वितीये अनीकेषु (second row) उपविष्टं दृष्ट्वा भृशम् आनन्दम् अन्वभवम्। सः आनन्दः अद्यतनाय पर्याप्तः अस्ति।

२०१४-०५-२६ सोमवासरः (2014-05-26 Monday)

महामान्यः मेघनाददेसाईवर्यः (Lord Meghnad Desai)

महामान्यः मेघनाददेसाईवर्यः स्वलेखे उद्धरति The Guardian has described the result (of the 2014 Indian General Election) as the final departure of the British इति। महामान्यमेघनादवर्यस्य लेखं पठतु http://indianexpress.com/article/opinion/columns/out-of-my-mind-revolution-or-renaissance/99/

२०१४-०५-२५ रविवासरः (2014-05-25 Sunday)