इदं सर्वकारस्य एकम् अधिकरणम् अस्ति। इदम् अधिकरणं भ्रष्टाचारस्य अन्वेषणं करोति। शिक्षाधिकरणं शिक्षणस्य कार्यं करोति।
२०११-०५-२९ रविवासरः (2011-05-29 Sunday)
Learn Sanskrit while blogging
इदं सर्वकारस्य एकम् अधिकरणम् अस्ति। इदम् अधिकरणं भ्रष्टाचारस्य अन्वेषणं करोति। शिक्षाधिकरणं शिक्षणस्य कार्यं करोति।
२०११-०५-२९ रविवासरः (2011-05-29 Sunday)
यदि भारतदेशे कोऽपि जनः ख्याति इच्छति तर्हि सः नरेन्द्रमोदीवर्यम् अपवदतु। अन्नाहजारेवर्यः इदम् अधुना अवागच्छत्। सः अनेकेभ्यः वर्षेभ्यः भ्रष्टाचारम् अपाकर्तुं यतति किन्तु तं तस्मिन् कार्ये साफल्यं न अलभत्। अन्नाहजारेवर्यः एकः महान् पुरुषः अस्ति। तेन भ्रष्टाचारनिवारणस्य कार्यम् एव करणीयम्। नरेन्द्रमोदीवर्यं हन्तुं नैकाः जानाः उद्युक्ताः सन्ति ते नरेन्द्रवर्यं हनिष्यन्ति तस्मिन् विषये कापि शङ्का नास्ति। भ्रष्टाचारनिवारणाय अत्यल्पाः जनाः सन्ति तस्मात् अन्नाहजारेवर्येण तत् कार्यम् एव करणीयम्।
२०११-०५-२८ शनिवासरः (2011-05-28 Saturday)
अवशिष्टं कार्यं कदा करिष्यसि। अधुनैव सर्वं कार्यं समापय।
अवशिष्टेषु विषयेषु आवां चर्चयावः। अनेके विषयाः अस्माभिः पूर्वमेव अनुमोदिताः।
ते अवशिष्टेषु विषयेषु चर्चयन्ति।
२०११-०५-२७ शुक्रवासरः (2011-05-27 Friday)
दक्षिणे राजति अम्मा पूर्वे दीदी उत्तरप्रदेशे बहनजी।
दिल्लीनगरे चाची अखण्डभारते तु राजति मेडम।
गृहे राजति भार्या इदं खलु नारीराज्यम्॥
२०११-०५-२६ गुरुवासरः (2011-05-26 Thursday)
अकाले अत्र अतिशीतता अभवत्। प्रायः मई-मासे अस्मात् शीतता न भवति। अद्य जलं न वर्षति प्रातःकाले एव सूर्यदेवस्य दर्शनम् अभवत् किन्तु अतिवेगकरं वातम् अस्ति। बहिः गत्वा एव कथं शीततायाः आक्रमणम् अस्ति इति ज्ञास्यामि।
२०११-०५-२५ बुधवासरः (2011-05-25 Wednesday)
अद्य प्रातः पादोनसप्तवादने दिव्यांशुः संयानेन केन्बरानगरतः सिडनीनगरम् अगच्छत्। मम व्याख्यानं अष्टवादने आसीत् तस्मात् तं संयानस्थले अवतीर्य अहं कार्यालयम् आगच्छम्।
२०११-०५-२४ मङ्गलवासरः (2011-05-24 Tuesday)
अधुना अत्र केन्बरानगरे जलं वर्षति। यदा प्रातःकाले वर्षति तदा यातायातं मन्दगती भवति। यदा मार्गे सम्मर्दः न भवति तदा गृहात् कार्यालयं गमनाय विंशति-निमिषाः भवन्ति। किन्तु अद्य अहं मन्ये गमनाय एकहोरा भविष्यति।
२०११-०५-२३ सोमवासरः (2011-05-23 Monday)
अद्य ज्वलितायाः वाद्यवृन्दः एकस्मिन् समारोहे सहभागित्वम् अकरोत्। तस्याः वृन्दं स्वर्णपदकः प्राप्तवान्।
२०११-०५-२२ रविवासरः (2011-05-22 Sunday)
पाकिस्तानदेशे एकः बालकः न्यायाधीशस्य सम्मुखः अभवत्। तस्य बालकस्य उपरि लघुमूल्यस्य वस्तु चोरितकस्य आरोपः आसीत्। न्यायाधीशेन बालकः पृष्टः कथं अस्य लघुमूल्यस्य वस्तुने त्वया अपराधः कृतः इति। बालकः प्रत्यावदत् मया श्रुतम् अस्मिन् देशे चोरीकरणम् अधुना अपराधः नस्ति इति। न्यायाधीशः अवदत् तस्मै जनैः महाचोरी कर्तव्या लघुचोरी तु अपराधः एव इति।
२०११-०५-२१ शनिवासरः (2011-05-21 Saturday)
मम मनः अन्यत्र व्यापृतम् आसीत् तस्मात् चिरकालात् किमपि न लिखितम्। अद्य प्रभृतिः पुनः लेखनं करिष्यामि।
२०११-०५-२० शुक्रवासरः (2011-05-20 Friday)