सः कथं स्मर्तव्यः (How should he be remembered?)

आचार्येण संदिष्टं तारीकफतहमहाभागेन संघपरिवारस्य असदस्येषु सर्वप्रथमं नरेन्द्रमोदिने समर्थनं दत्तम् इति। तस्मात् स्मर्तव्यः।

https://www.indiatoday.in/world/story/tarek-fatah-dead-indian-born-in-pakistan-critic-of-islamic-fundamentalism-sharia-law-2364086-2023-04-24
https://www.ndtv.com/world-news/renowned-pakistani-canadian-writer-tarek-fatah-dies-at-73-3975253#pfrom=home-ndtv_topstories

२०२३-०४-२५ मङ्गलवासरः (२०२३-०४-२५ Tuesday)

कृतागाः जनः (A person at fault)

कृतागाः कौटिल्यो भुजग इव निर्याय नगराद्
यथा नन्दान्हत्वा नृपतिमकरोन्मौर्यवृषलम् ।
तथाहं मौर्येन्दोः श्रियमपहरामीति कृतघीः
प्रकर्षं मद्बुद्धेरतिशयितुमेष व्यवसितः ॥ मुद्राराक्षसम् ३.११॥
कृतागस् mfn. (-गाः-गाः-गः) Criminal, offending, in fault. E. कृत done, आगस् crime.
As Kautilya, on leaving the town after being insulted (faulted), like an (injured) snake, destroyed the Nandas and raised Vrshala, son of Mura (or Maurya), to the throne, so shall I wrench the sovereignty from the moon-like Maurya. (Chanakya saying that this is what Rakshash is thinking.)

२०२३-०४-२४ सोमवासरः (२०२३-०४-२४ Monday)

उपच्छन्दितः (Invited him)

शकुन्तला- तत्क्षणं स मे पुत्रकृतको दीर्घापाङ्गो नाम मृगपोतकमुपस्थितः । त्वयायं तावत्प्रथमं पिबत्वित्यनुकम्पिनोपच्छन्दित उदकेन । न पुनस्तेऽपरिचयाद्धस्ताभ्याशमुपगतः । पश्चात्तस्मिन्नेव मया गृहीते सलिलेऽनेन कृतः प्रणयः । तदा त्वमित्थं प्रहसितोऽसि सर्वः सगन्धेषु विश्वसिति द्वावप्यत्रारण्यकाविति । अभिज्ञानशाकुन्तलम् पञ्चमोऽङ्कः।
छदिँ संवरणे (चुरादिः उभयपदी सकर्मकः सेट्)।
छन्दः, पुं, (छन्द्यते इति छन्द + भावे घञ् ) अभिप्रायः, धातोरनेकार्थत्वात् इह इच्छायाम् अच्।
छन्दः [स्] क्ली, वेदः।

२०२३-०४-२३ रविवासरः (२०२३-०४-२३ Sunday)

व्यञ्जनम् (Paraphernalia)

राक्ष० — (सहर्षम् ) सखे विराघगुप्त, गच्छ त्वमनेनैवाहितुण्डिकच्छद्मना पुनः कुसुमपुरम्। तत्र मे प्रियसुहृद्वैतालिकव्यञ्जनः स्तनकलशो नाम प्रतिवसति । स त्वया मद्वचनाद्वाच्यः यथा चाणक्येन क्रियमाणेष्वाज्ञाभङ्गेषु चन्द्रगुप्तः समुत्तेजनसमथंः श्लोकैरुपश्लोकयितव्यः कार्यं चातिनिभृतं करभकहस्तेन सन्देष्टन्यमिति ।
अञ्ज् अन्जूँ व्यक्तिम्रक्षणकान्तिगतिषु (रुधादिः परस्मैपदी सकर्मकः वेट्)

Rakshas .-(Delightfully) Friend Viradhagupta, go again to Kusurnapura in this very disguise of a snake-charmer. There lives a dear friend of mine, Stanakalasha by name, disguised as a bard. Tell him in my name that as Chanakya will be committing acts of disobedience, he should praise Chandra­gupta with stanzas calculated to influence his spirit (i.e., excite his jealousy); and that whatever business he will have to transact, he should send me word under the profound secrecy, through Karabhaka.

२०२३-०४-२२ शनिवासरः (२०२३-०४-२२ Saturday)

विकचः (Blown, opened, expanded, (as a flower, &c.))

शनैः श्यानीभूताः सितजलधरच्छेदपुलिनाः
समन्तादाकीर्णा: कलविरुतिभिः सारसकुलैः ।
चिताश्चित्राकारैर्निशि विकचनक्षत्रकुमुदैर्
नभस्तः स्यन्दन्ते सरित इव दीर्धा दश दिशः॥ मुद्राराक्षसम् ३.७ ॥
विकचः, स्फुटः, फुल्लः, उत्फुल्लः, विकसितः, संफुल्लः, व्याकोशः, प्रफुल्लः।
विकचः, त्रि, (विकचति विकशतीति . वि + कच्+ अच् .) विकसितः . इत्यमरः।
कचँ बन्धने (भ्वादिः आत्मनेपदी सकर्मकः सेट्)।
श्यान त्रि० श्यै–क्त . सङ्कोचविशेषप्राप्ते घनीभूते “पथश्चा-श्यानकर्दमान्” रघुः।
श्यैङ् गतौ (भ्वादिः आत्मनेपदी सकर्मकः अनिट्)।

Gradually shrinking up, having the strips of white clouds for sand-banks, crowded all around with swarms of sweetly cackling swans, and thick-set at night with asterisms of various forms like so many full-blown lotus flowers, the extensive ten directions flow down from the sky like ten long rivers (flowing in consequence of the rainy season, &c.).

२०२३-०४-२१ शुक्रवासरः (२०२३-०४-२१ Friday)

ईश्वरो दृष्टः (Saw God)

अद्य मया ईश्वरो दृष्टः। सोऽस्ति https://chat.openai.com/।
Please translate: मय्येव विस्मरणदारुणचित्तवृत्तौ
वृत्तं रहः प्रणयमप्रतिपद्यमाने
भेदाद्भ्रुवो कुटितयोरतिलोहिताक्ष्या
भग्नं शरासनमिवातिरुषा स्मरस्य ॥
The text you provided is in Sanskrit, an ancient language of India. Here is a possible translation of the text into English:

“In me alone, forgetting cruel-minded thoughts, the mind was engaged. While my mind was being engrossed in love, the arrow of Cupid shattered into pieces, struck between the eyebrows by the glances of my beloved with eyes like lotus petals.”

Please note that this is just one possible translation, and the precise meaning and interpretation of Sanskrit texts can vary depending on context, grammar, and other factors.

२०२३-०४-२० गुरुवासरः (२०२३-०४-२० Thursday)

धुरम् (load)

सुविश्नब्धैरङ्गैः पथिषु विषमेष्वप्यचलता
चिरं धुर्येणोढा गुरुरपि भुवो यास्य गुरुणा ।
धुरं तामेवोच्चैर्नववयसि वोढुं व्यवसितो
मनस्वी दम्यत्वात्स्वलति च न दुःखं वहति च ॥ मुद्राराक्षसम् ३.३ ॥
धुर् – स्त्रीलिङ्गः (load – feminine)
धूः धुरौ धुरः
धुरम् धुरौ धुरः
धुरा धूर्भ्याम् धूर्भिः
धुरे धूर्भ्याम् धूर्भ्यः
धुरः धूर्भ्याम् धूर्भ्यः
धुरः धुरोः दुराम्
धुरि धुरोः धूर्षु
हे-धूः हे-धुरौ हे-धुरः

२०२३-०४-१९ बुधवासरः (२०२३-०४-१९ Wednesday)

रहः (Lonely place)

मय्येव विस्मरणदारुणचित्तवृत्तौ
वृत्तं रहः प्रणयमप्रतिपद्यमाने
भेदाद्भ्रुवो कुटितयोरतिलोहिताक्ष्या
भग्नं शरासनमिवातिरुषा स्मरस्य ॥अभिज्ञानशाकुन्तलं पञ्चमोऽङ्कः २३॥

भीमसेनशास्त्रिणा रहस् इति अव्ययप्रकरणे स्थापितम्। स लिखति रहस् शब्द सकारान्त नपुंसक भी है इति।

२०२३-०४-१८ मङ्गलवासरः (२०२३-०४-१८ Tuesday)

मूर्खतमा जनाः (The most stupidest people)

यदि मया भवन्तं प्रति कोऽपि अपराधः कृतः तर्हि स न मम दोषः यतो ह्यहं यत्र मूर्खतमा जना वसन्ति तत्र वसामि।

https://www.abc.net.au/news/2023-04-17/cybercrime-hacker-chats-about-medibank-revil-russia-ukraine/102179776

२०२३-०४-१७ सोमवासरः (२०२३-०४-१७ Monday)

अतिसृष्टः (Gave)

राक्ष०–किं वातिसृष्टः पर्वतकभ्रात्रे वैरोचकाय पूर्वप्रतिश्रुतः राजायार्धविभागः।
विरा०-स खलु मुर्खस्तं युष्माभिरतिसृष्टं महान्तमर्थराशिमवाप्य महता व्ययेनोपभोक्तुमारब्धवान् । ततः कुतोऽयं भूयान्धनागम इति पृच्छ्यमानो यदा वाक्यभेदान्बहूनगमत्तदा चाणक्यहतकेन विचित्रवधेन व्यापादितः।
मुद्राराक्षसम् द्वितीयोऽङ्कः।
अति + सृज–क्त . दत्ते, प्रेरिते च।
अति सृजँ विसर्गे (दिवादिः आत्मनेपदी अकर्मकः अनिट्) – To give, present, bestow, grant; अतिसृष्टो राज्यार्धविभागः Mu.2; पुरा नारायणेनेयमतिसृष्टा मरुत्वते V.1.17; राघवाय तनयां…अतिसृष्टवान् R.11.48।

२०२३-०४-१६ रविवासरः (२०२३-०४-१६ Sunday)