Updates from February, 2012 Toggle Comment Threads | Keyboard Shortcuts

  • Himanshu Pota 10:43 pm on February 28, 2012 Permalink | Reply  

    शोधप्रस्तावः (Research Proposal) 

    अद्य मम दिवसः एकस्य शोधप्रस्तावस्य अन्तिमे निरीक्षणे अगच्छत्। इमं शोधप्रस्तावम् अहं जनवरीमासतः सज्जीकरोमि।  रात्रौ किञ्चित् अन्यं कार्यं अकरवं किन्तु सर्वाधिककालः तस्मिन् एव कार्याय अगच्छत्।

    २०१२-०२-२८ मङ्गलवासरः (2012-02-28 Tuesday)

     
  • Himanshu Pota 10:23 pm on February 27, 2012 Permalink | Reply  

    सप्ताहस्य व्यस्ततमः दिवसः (Busiest Day of the Week) 

    सोमवासरः मह्यं व्यस्ततमः दिवसः अस्ति। प्रातः सार्धदशवादने शोधव्याख्यनम् अस्ति। अद्य तु प्रातः दशवादने वितन्तुककार्यक्रमाय संवादसञ्चयनम् आसीत्। एकवादनात् सार्धत्रिवादनपर्यन्तं छात्रैः सह शोधचर्चाम् आसीत्। सोमावासरे मम प्रियदूरदर्शनकार्यक्रामाः सन्ति किन्तु अद्य मया ते अपि न दृष्टाः।

    २०१२-०२-२७ सोमवासरः (2012-02-27 Monday)

     
  • Himanshu Pota 10:09 pm on February 26, 2012 Permalink | Reply  

    निवृत्तिप्राप्तम् (Retired) 

    गत शुक्रवासरे मम मित्रं सहकर्मी च लालचन्दः कार्यनिवृत्तिं प्राप्नोत्। अहं तं १९८२तमात् वर्षात् जानामि। सः पिलानीग्रामे यदा विश्वविद्यालये आसीत् तदा अहं तस्मिन् एव ग्रामे विद्यालये आसम्। सः किञ्चित् कालाय स्वपितुः सेवार्थं राजस्थानराज्यस्य एकस्मिन् ग्रामे पित्रा सह निवसिष्यति। तस्य माता किञ्चित् वर्षपूर्वं दिवं गता।

    २०१२-०२-२६ रविवासरः (2012-02-26 Sunday)

     
  • Himanshu Pota 1:11 pm on February 25, 2012 Permalink | Reply  

    पञ्चाशत्तमः जन्मदिवसः (50th Birthday) 

    अद्य अस्माकं मित्रस्य प्रकाशवर्यस्य भार्ययाः पञ्चाशत्तमः जन्मदिवसस्य आयोजनमस्ति। समारोहे महालक्ष्मीपूजनं भोजनं गरबानृत्यम् च सन्ति।

    २०१२-०२-२५ शनिवासरः (2012-02-25 Saturday)

     
    • hnbhat 11:17 pm on February 25, 2012 Permalink | Reply

      पञ्चाशः, इत्यपि तत्रैवार्थे, (50th).

      एवम् – विंशतिः – विंशः – विंशतितमः, त्रिंशत् > त्रिंशः, त्रिंशत्तमः, चत्वारिंशत् – चत्वारिंशः , चत्वारिंशत्तमः, इत्यादयः।

      • hnbhat 1:55 am on February 26, 2012 Permalink | Reply

        But, षष्टिः – (६०) – षष्टितमः, सप्ततितमः, अशीतितमः, नवतितमः, शततमः, सहस्रतमः इत्येव।

        Note: एकषष्टः – एकषष्टितमः, सप्ततिः + १ – एकसप्तः, एकसप्ततितमः, इति, द्विसप्तः, त्रिसप्तः, चतुःसप्तः, पञ्चसप्तः इत्यादिः।

        Special:

        एकान्नविंशतितमः – 19th. एकोनविंशतितमः वा।

  • Himanshu Pota 12:56 pm on February 24, 2012 Permalink | Reply  

    फेसबुकपत्रम् (Face Book) 

    मम भार्या आवयोः कन्याम् अकथयत् ह्यः अहं क्लान्ता आसं तस्मात् मया फेसबुकपत्रम् अपि न नविनीकृतं तस्मात् कथं तव पिता मत् अन्यकार्यस्य अपेक्षां करोति इति। तस्याः जीवने फेसबुकपत्रं सर्वोपरि अस्ति।

    २०१२-०२-२४ शुक्रवासरः (2012-02-24 Friday)

     
    • hnbhat 5:14 pm on February 25, 2012 Permalink | Reply

      अहं क्लान्ता आसीत् तस्मात् मया
      ————
      अहं क्लान्ता आसम्/अभवम् इति वा संस्कृतम्।

      • Himanshu Pota 10:51 pm on February 25, 2012 Permalink | Reply

        धन्यवादः ।

        • rajagopal 3:25 am on March 9, 2012 Permalink

          सम्यक् परन्तु मम संस्कृतं फेसबुकपत्रेण कृते प्रसीदति। शुभचिन्तकाः अनिर्दिशन् । ते उत्साहयन्ति समर्थनं च अपि करिष्यन्ति। दन्यवादः

  • Srinivasa 3:17 pm on February 23, 2012 Permalink | Reply  

    भस्मबुधवासरः (Ash Wednesday) 

    कार्यवशादद्य न्यूयारिकनगरगतोऽहमनेकजनानामलिकलेखान् दृष्ट्वा अतीव विस्मयभूतोऽऽसम्। अद्य भस्मबुधवासरमिति कार्यव्यग्रत्वात् मया विस्मृतमेव। ख्रिस्तवानां क्रूसचिह्नालङ्कृतललाटान् दृष्ट्वा अहं गतभानुवासरे मन्दिरे महाशिवरात्रिसमारोहे समागतानां शिवभक्तानां भस्मललाटिकान् अस्मरम् । अनन्तरमस्मदीयानां स्वधर्मपरिपालनं च स्वसंप्रदायसंरक्षणं प्रति मयि अभिमानमजायत ।

    कामं खलु सर्वस्यापि कुलानुष्ठानं बहुमतं न पुनरस्माकं सनातनसंप्रदायं प्रति मिथ्यागौरवम्।

    २०१२-०२-२२ बुधवासरः (2012-02-20 Wednesday)

     
    • Himanshu Pota 1:58 pm on February 25, 2012 Permalink | Reply

      कानिचित् शोधनानि –
      न्यूयारिकनगरगतोऽहम् अनेकजनानाम् अलिकक्त्खान् – अस्मरम् – अनन्तरम् अस्मदीयानां – अभिमानम् अजायत इति |
      अहम् अन्तिमवाक्यस्य अर्थम् अवगन्तुं न शक्नोमि।

  • Himanshu Pota 12:48 pm on February 23, 2012 Permalink | Reply  

    अयोघनः (Hammer) 

    सः करपत्रेण (with a saw) प्रथमं तु काष्ठम् अवखण्डयति तत् परम् अयोघनेन खण्डानि कीलयति।

    २०१२-०२-२३ गुरुवासरः (2012-02-23 Thursday)

     
  • Himanshu Pota 11:03 am on February 22, 2012 Permalink | Reply  

    हिन्दीभाषाशिक्षणम् (teaching Hindi) 

    अद्य हिन्दीशिक्षणस्य नवसत्रम् आरब्धम्। कक्षायां चतुर्दश छात्राः सन्ति। एकः पुरुषः त्रयोदश स्त्रियः सन्ति। मम सकाशे पर्याप्तकालः नास्ति तथा अहं शिक्षयितुं न इच्छामि किन्तु अन्यं शिक्षकम् अनवेष्टुं न शक्नोमि।
    (भट्टवर्येण सूचितैः शोधनैः सह।)

    २०१२-०२-२२ बुधवासरः (2012-02-22 Wednesday)

     
    • hnbhat 11:19 am on February 25, 2012 Permalink | Reply

      अद्य हिन्दीशिक्षणस्य नवसत्रम् आरब्धवान्। *\\\ I
      (आरब्धम्_ इति युक्तम्)

      मम सकाशे पर्याप्तकालं (_कालः?) नास्ति तथा अहं शिक्षयितुं न इच्छामि, किन्तु अन्यः शिक्षकः अन्वेषितुं (अन्यं शिक्षकमन्वेष्टुम् इति युक्तम्) न शक्नोमि।

  • Himanshu Pota 10:58 am on February 21, 2012 Permalink | Reply  

    जोन-फेयरफेक्सवर्यः (John Fairfax) 

    जोनवर्येण एकलेन अरित्राभ्यं नौकायां (in a boat with oars) एटलान्टिक-महासागरः अतिक्रमितः (crossed the Atlantic ocean). तदा एपोलो-११-खधूपस्य अन्तरिक्षयान्त्रिके अवदन्
    Yours, however, was the accomplishment of one resourceful individual, while ours depended upon the help of thousands of dedicated workers in the United States and all over the world. As fellow explorers, we salute you on this great occasion.
    http://en.wikipedia.org/wiki/John_Fairfax_(rower)
    जोनवर्यः ८-फेब्रुरी-२०१२तिथौ दिवं गतः।

    २०१२-०२-२१ मङ्गलवासरः (2012-02-21 Tuesday)

     
  • Himanshu Pota 11:26 pm on February 20, 2012 Permalink | Reply  

    शिवरात्रिपर्व (Shivaratri) 

    अद्य शिवरात्रिपर्व अस्ति। मया न ज्ञातं शिवरात्रिपर्व इति कथं परिपाल्यते। प्रायः पर्वाणि जन्मदिवसानाम् उत्सवाः सन्ति किन्तु शिवः तु अनादि अस्ति तस्मात् शिवरात्रिपर्व कथम्। आकाशवाण्यां संस्कृतवार्ताः कथयति शिवरात्रिपर्व शिवस्य पार्वतीदेव्या सह विवाहस्य उत्सवः अस्ति।

    २०१२-०२-२० सोमवासरः (2012-02-20 Monday)

     
    • Asha Joglekar 6:53 pm on February 21, 2012 Permalink | Reply

      शिवरात्रिपर्व शिवस्य पार्वतीदेव्या सह विवाहस्य उत्सवः अस्ति।

c
Compose new post
j
Next post/Next comment
k
Previous post/Previous comment
r
Reply
e
Edit
o
Show/Hide comments
t
Go to top
l
Go to login
h
Show/Hide help
shift + esc
Cancel