पाठनम् आरब्धवान् (Teaching Started)

अद्य नवीनसत्रम् आरब्धवान्। यदा सत्रं समाप्नोति तदा अहं निश्चयं करोमि इदं करिष्यामि इदं करिष्यामि इति किन्तु एकमपि कार्यं पूर्णं भूत्वा पूर्वं नवीनसत्रम् आगच्छति।

२०११-०२-२८ सोमवासरः (2011-02-28 Monday)

सन्तुष्टः (Satisfied)

अद्य प्रातः उत्थाय कार्यालयम् अगच्छम् तत्र किञ्चित् अनिवार्यं कार्यम् अकरवम्। सायंकाले मन्दिरे क्रियायोगस्य अभ्यासम् अकरवम् तत् परं परिवारेण सह भोजनं कृत्वा अल्पकालाय दूरदर्शनम् पश्यन् मया शोधकार्याय एकः अध्यायः लिखितः च। अन्ते सचिनवर्यस्य शतकस्य वार्तां पठित्वा सन्तुष्टः अस्मि तथा इदानीं स्वपितुं गच्छामि।

२०११-०२-२७ रविवासरः (2011-02-27 Sunday)

तस्मादसक्तः (Therefore unattached)

तस्मादसक्तः सततं कार्यं कर्म समाचर।
असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः॥३।१९॥

२०११-०२-२६ शनिवासरः (2011-02-26 Saturday)

ते भ्रष्टाः सन्ति (They are corrupt)

भारतीयकाँग्रेसदलस्य एका विशिष्टता अस्ति। यदि जनाः कथयन्ति काँग्रेसदलः भ्रष्टः अस्ति तर्हि काँग्रेसदलीयाः न कथयन्ति वयं कदापि भ्रष्टाः न स्मः इति किन्तु ते कथयन्ति विरोधपक्षः अपि भ्रष्टः अस्ति इति।
बाबारामदेवः सत्यं अकथयत् अनैकाः संसदीयाः भ्रष्टाः सन्ति इति किन्तु काँग्रेसनेतारः कथयन्ति वयं भ्रष्टाः स्मः इति प्रश्नस्य उत्तरं न दास्यामः किन्तु बाबारामदेवः अवैधधनस्य उपयोगं जनहितकारेषु करोति तस्मात् तेन वयं किमपि न कथितव्याः।

२०११-०२-२५ शुक्रवासरः (2011-02-25 Friday)

कुसीदम् (Loan with interest)

कुसीदं तु केवलं ऋणं नास्ति। कुसीदं अस्ति वृद्धिना सह ऋणम्। अधिकोषात् मया कुसीदं गृहीतम्। अहं न मन्ये अस्मिन् जन्मनि अहं कुसीदात् मुक्तिं प्राप्स्यामि इति।

२०११-०२-२४ गुरुवासरः (2011-02-24 Thursday)

हिन्दीकक्षा (Hindi Class)

ह्यः एका नवीना हिन्दीकक्षा आरब्धवान्। तस्यां कक्षायां द्वादश छात्राः सन्ति। मया मम कन्या ज्वलिता कथिता द्वादश छात्राः सन्ति इति। सा अकथयत् आगामिमङ्गलवासरे कति छात्राः प्रत्यागमिष्यन्ति तत् दृष्टव्यम् इति।

२०११-०२-२३ बुधवासरः (2011-02-23 Wednesday)

भूकम्पः (Earth Quake)

न्यूजीलेण्डदेशे क्रा‍इस्टचर्चनगरे अद्य मध्याह्ने एकः भूकम्पः अभवत्। तस्मिन् भूकम्पे पञ्चसप्ततिः जनाः मृताः। सर्वेभ्यः क्रा‍इस्टचर्चनगरिकेभ्यः अहं प्रार्थनां करोमि।

२०११-०२-२२ मङ्गलवासरः (2011-02-22 Tuesday)

विरोधपक्षाः बलान्विताः (Strengthened Opposition)

मिस्रदेशस्य विरोधपक्षस्य विजयं परं अनेकस्मिन् देशे विरोधपक्षाः बलान्विताः अभवन्। याः विकसितदेशानां सर्वकाराः पूर्वं इमान् शासकानां समर्थनं कुर्वन्ति स्म ते अद्य तेषामेव शासकान् भर्त्स्यन्ति। यदि तेषां लज्जा भवेत् तर्हि तैः न्यूनातिन्यूनं मासैकं गुप्तवासं कर्तव्यम् किन्तु ते सन्ति लज्जाहिनाः।

२०११-०२-२१ सोमवासरः (2011-02-21 Monday)

वधूवरम् (Bride and Groom)

शब्दकोषे अस्ति यदि वधूवरं एकवचने अस्ति तदा नपुंसकलिङ्गशब्दः अस्ति किन्तु यदि बहुवचने अस्ति तर्हि पुंलिङ्गशब्दः अस्ति। वधूवराः इति शब्दस्य अर्थः कदाचित् अस्ति एकः वरः किन्तु अनैकाः वध्वः इति। कोऽपि पण्डितः इमं विषयं प्रकाशयतु।

२०११-०२-२० रविवासरः (2011-02-20 Sunday)

विकासस्य विवाहः (Vikas’s Wedding)

अद्य विकासस्य विवाहः आसीत्। सः अस्माकम् मित्रस्य लालचन्दस्य पुत्रः अस्ति। विकासः सेरिकानाम कन्यया सह विवाहम् अकरोत्। विवाहे अस्माकं मित्रः राजेन्द्रः एडमन्टननगरतः केनेडादेशतः आगच्छत्। चन्द्रशेखरः अपि विवाहोत्सवाय मेल्बोर्नतः आगच्छत्। विवाहे एकम् आश्चर्यं तु अस्ति अहं पुरोहितः आसम् इति। कन्या ओस्ट्रेलियादेशीया अस्ति तस्मात् अनेकाः जनाः अभारतीयाः सन्ति स्म। तेभ्यः अहम् अमुकवर्णनं आङ्ग्लभाषायाम् अकरवं किञ्चित् हास्यं अपि अकरवम्। तस्मात् ते अपि विवाहोत्सवात् अतीव प्रसन्नाः अभवन्।

२०११-०२-१९ शनिवासरः (2011-02-19 Saturday)