बुत बिहार इति शब्दयोः उत्पत्तिः (Origin of the words – but and Bihar)

अरुणवर्यः स्वपुस्तके लिखति बुत इति शब्दः बुद्धः इति शब्दस्य विकारः अस्ति तथा बिहार इति शब्दः विहारः इति शब्दस्य विकारः अस्ति। कृपय पठतु – http://indianexpress.com/article/opinion/columns/how-history-was-made-up-at-nalanda/99/

२०१४-०६-२९ रविवासरः (2014-06-29 Sunday)

न गतम् (Did not go)

अद्य केन्बरानगरे मातामीरा आगच्छत्। तस्याः आशीर्वादसभायां गमिष्यामि इति मया पूर्वं सूचितं किन्तु अद्य किञ्चित् कारणेन तस्यां सभायां न अगच्छम्। खेदः अस्ति।

२०१४-०६-२८ शनिवासरः (2014-06-28 Saturday)

वर्षति (Raining)

अस्मिन् सप्ताहे केन्बरानगरे अनिशं वर्षति किन्तु तस्याः मन्दगतिः एव अस्ति। इदानीम् अत्र शीतः वर्षा च मिथः बाधेते।

२०१४-०६-२७ शुक्रवासरः (2014-06-27 Friday)

सदृशो मया (Like Me)

गीतायाम् १६.१५ श्लोके अस्ति कोऽन्योस्ति सदृशो मया इति। कथं मया इति शब्दे तृतीयाविभक्तिः अस्ति। कृपया अवबोधयतु।

२०१४-०६-२६ गुरुवासरः (2014-06-26 Thursday)

कदापि न क्रुद्धा (Never Angry)

अद्य फीजीदेशनिवासिन्याः श्रीमतीकमलावर्यायाः अन्त्येष्टिक्रिया आसीत्। तस्याः कन्या पुत्रः च केनबरानगरे निवसतः। श्रीमतीकमलावर्यायाः भ्राता तस्यां सभायाम् अवदत् मया मम भगिनी कदापि क्रुद्धा न दृष्टा इति। अहम् एकमपि दिवसपर्यन्तं क्रोधं विना न स्थातुं शक्नोमि सा कथं जीवनपर्यन्तं क्रोधात् दूरम् अतिष्ठत्। धन्याः सन्ति तादृशाः जनाः।

२०१४-०६-२५ बुधवासरः (2014-06-25 Wednesday)

उपयुक्तौ शब्दौ (Appropriate Words)

Subjective, objective इति शब्दाभ्यां संस्कृतभाषायां कौ उपयुक्तौ शब्दौ स्तः। Subjective truth, objective truth इति संदर्भे उपयुक्तौ शब्दौ ज्ञातुम् इच्छामि।

२०१४-०६-२३ सोमवासरः (2014-06-23 Monday)

अस्माकं कन्या (Our Daughter)

अद्य सायंकाले रामकृष्णाश्रमस्य सिडनीस्थः श्रीस्वामिश्रीधरानन्दमहाराजः गीतायाम् उपरि प्रवचनं दास्यति। गत सप्ताहे अस्माकं कन्यायाः विद्यालये तस्याः परीक्षाम् आसीत्। परीक्षायाः परं सा ह्यः प्रभृतिः स्वयं संपूर्णां मनोरञ्जने एव निमज्जयति। प्रातःकाले मया सा निवेदिता – इदानीं तव सकाशे अवकाशम् अस्ति तदा अद्य सायंकाले मया सह गीताप्रवचने कृपया आगच्छ इति। सा अपृच्छत् – अपि स्वामी सम्पूर्णगीतापाठं करिष्यति इति। सा अवदत् – यदि सः सम्पूर्णगीतापाठं करिष्यति तर्हि आवाभ्यां बहुकालं यावत् तत्र स्थातव्यम् इति मम चिन्ता अस्ति।
माम् अत्यन्तम् आश्चर्यं भवति कथं मम कन्या गीता-प्रवचनपाठयोः भेदं न जानाति। यदा अहं तया सह वार्तालापं करोमि तदा सा किमपि शृणोति वा न शृणोति इति मां संशयः अस्ति।

२०१४-०६-२२ रविवासरः (2014-06-22 Sunday)

निष्क्रयधनम् (Ransom)

इयम् आकाशवाणी कथयति इराकदेशे अपहृतेभ्यः भारतीयश्रमिकेभ्यः निष्क्रयधनार्थम् इदानीं यावत् का अपि सूचना न अस्ति इति। निष्क्रयधनम् इति निष्क्रयणम् अपि कथ्यते।

२०१४-०६-२१ शनिवासरः (2014-06-21 Saturday)