सेवानिवृत्तः (Retired)

मम ज्येष्ठभ्राता अद्य सेवानिवृत्तः अभवत्। सः षट्त्रिंशत् वर्षपर्यन्तं गुजरातविद्युतनिगमे कार्यम् अकरोत्। सः यदा निवृत्तः अभवत् तदा सः मुख्यः अभियन्ता आसीत्। सः विद्युतभियन्ता अस्ति।

२०१०-०८-३१ मङ्गलवासरः (2010-08-31 Tuesday)

समीरवर्यः (Prof Sameer)

अद्य सायंकाले समीरवर्यः मां दूरभाषेण सम्पर्कम् अकरोत्। सः केन्सासराज्ये अमरीकादेशे प्राध्यापकः अस्ति। यदा अहं दशवर्षपूर्वं तत्र आसम् तदा तेन सह मित्रता अभवत्। तेन सह वार्तालापं मह्यं रोचते। वार्तालापाय तस्य विषयचयनं तथा मम वचनस्य तस्य प्रत्युत्तरं रुचिकरम् अस्ति। सः सदैव किञ्चित् नवीनं कथयति। तेन मां आधुनिकस्य मानवस्य सारांशः कथितः  – Are you a man or a resume? इति आदमी हो या पजामा वाक्यस्य आधुनिकम् अनुवादम् इति। तेन सह वार्तालापं कृत्वा माम् आनन्दम् अभवत्।

२०१०-०८-३० सोमवासरः (2010-08-30 Monday)

samiiravaryaH ##(Prof Sameer)##
2010-08-30 somavaasaraH ##(2010-08-30 Monday)##
adya saayaMkaale samiiravaryaH maaM duurabhaaSheNa samparkam akarot. saH kensaasaraajye amariikaadeshe praadhyaapakaH asti. yadaa ahaM dashavarShapuurvaM tatra aasam tadaa tena saha mitrataa abhavat. tena saha vaartaalaapaM mahyaM rocate. vaartaalaapaaya tasya viShayacayanaM tathaa mama vacanasya pratyuttaraM rucikaram asti. saH sadaiva ki~ncit naviinaM kathayati. tena maaM aadhunikasya maanavasya saaraaMshaH kathitaH ##Are you a man or a resume?## iti aadamii ho yaa pajaamaa vaakysa aadhunikam anuvaadam iti.

शोधग्रन्थम् (PhD Thesis)

मम एकः छात्रः मङ्गलवासरे स्वशोधग्रन्थं परिक्षायै दास्यति। तस्मात् अद्य अहं कार्यालयं गत्वा अन्तिमवारे तस्य शोधग्रन्थम् अपठम्। अद्य अपराह्णे अहं एकं गिरिजाघरं गत्वा सर्वधर्मसभायां श्री‍अरविन्दस्य निबन्धात् अंशम् अपठम्।

२०१०-०८-२९ रविवासरः (2010-08-29 Sunday)

कन्ये कार्याय अगच्छताम् (Daughters went to work)

आवां द्वे कन्ये अद्य  मिथः कार्याय एकस्मिन् अपि आपणे अगच्छताम्। आवयोः कनियसी कन्या तस्याः गरीयस्या भगिन्या सह कार्यं कर्तुम् इच्छति। सा सामान्यतया कार्यं कर्तुं न इच्छति किन्तु अद्य सा आनन्दिता आसीत् यतो हि सा स्वभगिन्या सह कार्यम् अकरोत्।

२०१०-०८-२८ शनिवासरः (2010-08-28 Saturday)

प्रतिभागी (Participant)

अस्यां परिषदि शतं प्रतिभागिनः सन्ति।
अहं प्रतिभागिनं वन्दामि।
अहं प्रतिभागिना सह वार्तालापं करोमि।
प्रतिभागिभिः भोजनं खादितम्।
प्रतिभागिने नमः।
प्रतिभागिनः वस्त्रमस्ति।
प्रतिभागिनां कक्षाः सन्ति।
प्रतिभागिनि विश्वसिति।

२०१०-०८-२७ शुक्रवासरः (2010-08-27 Friday)

सम्पदानन्दवर्यः (Dr Sampadananda)

अद्य अहम् अतीव प्रसन्नः अस्मि। अद्य मम सम्पदानन्दवर्येण सह परिचयम् अभवत्। मया न ज्ञातं अहं तस्य लिखितानि पुस्तकानि पठामि स्म। यदापि अहं विद्वद्जनैः सह मिलामि तदा मयि हृदि विशेषानन्दः जायते। सम्पदानन्दवर्यः अधुना पुद्दुचेरीनगरे श्री‍अरविन्दाश्रमे निवसति। तत्र सः संस्कृतशोधकर्ता अस्ति। मम संस्कृतशिक्षणस्य प्रारम्भः श्री‍अरविन्दाश्रमस्य संस्कृतकार्यालयेन लिखिते द्विपुस्तके एव अभवत्। अहं प्रसन्नः अस्मि। ह्यः रघुवंशम् अद्य सम्पदानन्दवर्यः।

२०१०-०८-२६ गुरुवासरः (2010-08-26 Thursday)

रघुवंशम् (Raghuvansha)

अद्य आचार्येण मां कालिदासविरचितरघुवंशम् परिचितम्। पुरा मया रघुवंशं पठितं किन्तु तस्य उपरि विशेषध्यानं न दत्तम्। आचार्येण प्रेणितः अद्य मया पुनः किञ्चित् पद्यानि पठितानि। अहो रघुवंशस्य रसः तस्य – आसीन्महीक्षितामाद्यः प्रणवश्छन्दसामिव – वर्णनं कर्तुं न शक्यते।

२०१०-०८-२५ बुधवासरः (2010-08-25 Wednesday)