मरुत् (पु), विद्युत् (स्त्री), मनस् (न) (wind, lightning, mind)

मरुत् (पु)मरुत् मरुतौ मरुतः

मरुतम् मरुतौ मरुतः

मरुता मरुद्भ्याम् मरुद्भिः

मरुते मरुद्भ्याम् मरुद्भ्यः

मरुतः मरुद्भ्याम् मरुद्भ्यः

मरुतः मरुतोः मरुताम्

मरुति मरुतोः मरुत्सु

हे मरुत् हे मरुतौ हे मरुतः

विद्युत् (स्त्री)

विद्युत् विद्युतौ विद्युतः

विद्युतम् विद्युतौ विद्युतः

विद्युता विद्युद्भ्याम् विद्युद्भिः

विद्युते विद्युद्भ्याम् विद्युद्भ्यः

विद्युतः विद्युद्भ्याम् विद्युद्भ्यः

विद्युतः विद्युतोः विद्युताम्

विद्युति विद्युतोः विद्युत्सु

हे विद्युत् हे विद्युतौ हे विद्युतः

मनस् ()

मनः मनसी मनांसि

मनः मनसी मनांसि

मनसा मनोभ्याम् मनोभिः

मनसे मनोभ्याम् मनोभ्यः

मनसः मनोभ्याम् मनोभ्यः

मनसः मनसोः मनसाम्

मनसि मनसोः मनस्सु-मनःसु

हे मनः हे मनसी हे मनांसि

२००६-१२-३१ रविवासरः (2006-12-31 Sunday)

Advertisements

व्यञ्जनान्ताः शब्दानां रूपाणि (Forms of words ending in consonants)

पुंलिङ्गः स्त्रीलिङ्गः चप्रथमा -स् -औ -अस्

द्वितीया -अम् -औ -अस्

तृतीया -आ -भ्याम् -भिः

चतुर्थी -ए -भ्याम् -भ्यः

पञ्चमी -अस् -भ्याम् -भ्यः

षष्ठी -अस् -ओस् -आम्

सप्तमी -इ -ओस् -सु

सम्बोधनः — -औ -अस्

नपुंसकलिङ्गः

प्रथमा — -ई -इ

द्वितीया — -ई -इ

तृतीया -आ -भ्याम् -भिः

चतुर्थी -ए -भ्याम् -भ्यः

पञ्चमी -अस् -भ्याम् -भ्यः

षष्ठी -अस् -ओस् -आम्

सप्तमी -इ -ओस् -सु

सम्बोधनः — -ई -इ

२००६-१२-३० शनिवासरः (2006-12-30 Saturday)

वर्षस्य अन्तिमः कार्यः दिवसः (Last working day of the year)

अद्य वर्षस्य अन्तिमः कार्यः दिवसः अस्ति। शेषौ द्वौ दिवसौ शनिवासरः रविवासरः स्तौ। अद्य मया कार्यालये गतं किन्तु समापनकालात् पूर्वम् अहं गृहं प्रत्यागच्छम्।

२००६-१२-२९ शुक्रवासरः (2006-12-29 Friday)

विश्व-हिन्दु-परिषदस्य श्रीसदानन्दः (Shri Sadananda from VHP)

अद्य विश्व-हिन्दु-परिषदस्य श्रीसदानन्दः केन्बरानगरम् आगच्छत्। तेन सह सिडनीनगरात् प्रचारकः भीष्माचार्यः वसुवर्यः राजेन्द्रवर्यः रामवर्यः च आगच्छन्। सदानन्दवर्यः पुरातनभारतस्य विज्ञानः इति विषये मन्दिरे प्रवचनं दत्तवान्। प्रवचनः अत्यन्तः रुचिकरः ज्ञानवर्धकः अपि आसीत्। श्रीसदानन्दः भारद्वाज-ऋषयः विमान-शास्त्रस्य चर्चा अकरवत्। सः अकथयत् – पुरातनभारतस्य विज्ञानस्य किञ्चित् प्रत्यक्षाः प्रमाणाः सन्ति किन्तु किञ्चित् अप्रत्यक्षाः प्रमाणाः अपि सन्ति। प्रत्यक्ष-प्रमाणस्य उदाहरणः अस्ति अशोकस्तम्भः। अप्रत्यक्ष-प्रमाणस्य उदाहरणः अस्ति भारद्वाजकृतः विमान-शास्त्रः।

२००६-१२-२८ गुरुवासरः (2006-12-28 Thursday)

ब्रह्मचारी गोपलः (Brother Gopal)

अद्य सिडनीनगरात् श्रीचिन्मयाश्रमस्य ब्रह्मचारी गोपलः केन्बरानगरम् आगच्छत्। सः चन्द्रवर्यस्य गृहे आगतवान्। वयं काश्चित् जनाः तत्र अगच्छन्। श्रीगोपलेन कथं श्रीचिन्मयाश्रमस्य बाल-किशोर-युवा-शिक्षण-पाठ्यक्रमाः चलन्ति इति वर्णितम्। चन्द्रवर्यः इच्छति केन्बरानगरे अपि तादृशाः पाठ्यक्रमाः भवेयुः। अल्पकाले ते बाल-विहारः अत्रापि आरप्स्यन्ते।

२००६-१२-२७ बुधवासरः (2006-12-27 Wednesday)

पिटक-दिवसः (Boxing Day)

अद्य अत्र पिटक-दिवसस्य अवकाशः अस्ति। आवयोः कन्या कार्ये गतवान्। पिटक-दिवसे महत् विक्रयः (big sales) भवति। आवयोः पुत्रः प्रातःकाले विपणम् अगच्छत्।  प्रायः सः दशवादने एकादशवादने वा जागर्ति किन्तु अद्य सः अष्टवादने अजागः सार्ध-अष्टवादने मित्रैः सह विपणम् अगच्छत् च। मम भार्यापि विपणं गन्तुम् ऐच्छत् तर्हि सा अवयोः कनिष्ठया कन्यया सह विपणम् अगच्छत्। अहं मम कार्यालयम् अगच्छम् तत्र मम कार्यालयात् पुरातनवस्तूनि निष्कासितवान्। तस्मात् अयं विक्रयः मामपि लाभम् अददात्।

२००६-१२-२६ मङ्गलवासरः (2006-12-26 Tuesday)

सर्वे गृहे आसन् (All were at home)

विद्यालये विश्वविद्यालये च अधुना अवकाशः अस्ति। तस्मात् आवयोः कन्या पुत्रः च कार्यं कुरुतः। अद्य कोऽपि आपणः न उदघटितः तस्मात् वयं सर्वे गृहे आसन्।

२००६-१२-२५ सोमवासरः (2006-12-25 Monday)