रजनीशपुरम् (Rajneeshpuram)

गतकेभ्यश्चिद् दिवसेभ्यः अहं Wild Wild Country (https://en.wikipedia.org/wiki/Wild_Wild_Country) इति वृत्तचित्रं पश्यामि।
मया न ज्ञातम् आचार्यरजनीशस्य अनुयायिनः रजनीशपुरम् (https://en.wikipedia.org/wiki/Rajneeshpuram) इति एकस्य पूर्णस्य नगरस्य निर्माणम् अकुर्वन्। ते एकं मरुस्थलं एकस्मिन् रमणीयनगरे पर्यवर्तन्त। यत्र किमपि नासीत् तत्र जलम् खाद्यपदार्थाः भवनानि मार्गाः सर्वयानानि आपणाः विमानपत्तनम् इत्यादि अभवन्। रजनीशस्य शिष्यानां त्वाष्ट्रः (creative energy) प्रशंसनीयः खलु। मन्ये प्रतिवेशिनां सहिष्णुतायाः अभावे शिष्याः आचार्यरजनीशः च सङ्कटापन्नाः।

२०१८-०५-२६ शनिवासरः (2018-05-26 Saturday)

दिवसस्य प्रगतिः (Day’s Progress)

प्रातःकाले मया द्वाभ्यां पण्डिताभ्यां सह किरातार्जुनीयम् इत्यस्य प्रथमस्य सर्गस्य अष्टादशमः श्लोकः अधीतः।
उदारकीर्तेरुदयं दयावतः प्रशान्तबाधं दिशतोऽभिरक्षया।
स्वयं प्रदुग्धेऽस्य गुणैरुपस्नुता वसूपमानस्य वसूनि मेदिनी॥१.१८॥
तत् परम् अहं मम भार्यया प्रह्लादेन च सह पादाभ्यां भ्रमणाय अगच्छम्। होरापर्यन्तं भ्रमणं कृतम्। अस्माकं भ्रमणमार्गः अस्ति गृहतः एकगिरिशिखरपर्यन्तम्। भ्रमणकालः अस्ति प्रायः एकहोरा। अद्य भ्रमणकाले अहं गीतापाठम् अपि अकरवम्।
तत् परम् एकस्मिन् मेक्सिकन-उपाहार-स्थले गत्वा भोजनम् अखादाम।
सायङ्काले सार्धपञ्चवादने प्रह्लादवर्यं विमानस्थले नयिष्यामि। सः ततः मेल्बोर्ननगराय विमाने आरोक्ष्यति।

२०१८-०५-२० रविवासरः (2018-05-20 Sunday)

आनन्दाकीर्णम् (Filled with Joy)

बलदेवानन्दसागरेण वर्णिता पञ्चतन्त्रस्य व्यालाकीर्णस्य वनस्य वार्ता (https://youtu.be/eFt6hiDwbYU) श्रुत्वा मम मनः आनन्दाकीर्णम् अभवत्।

२०१८-०५-१९ शनिवासरः (2018-05-19 Saturday)

मातृदिवसः (Mother's Day)

अद्य मातृदिवसः अस्ति। सामान्यतः अस्मिन् दिवसे सर्वे मातृभ्यः उपहारान् ददति। किन्तु अद्य मम भार्या मह्यम् एव एकः अद्वितीयः उपहारः अददात्।

अद्य अत्र तीव्रः शीतः अस्ति। सा अकथयत् मम पादौ हिमवतौ स्तः इति। अहं विनम्रस्वरेण अमन्त्रयं कृपया पादच्छदौ धारयतु इति। सा झटिति उदतिष्ठत् तत् दृष्ट्वा मया चिन्तितं मयि उपरि अचिरम् आक्रमणं भविष्यति इति। किन्तु सा कक्षस्य अन्तः गत्वा पादच्छदाभ्यां सह बहिः आगच्छत् पादच्छदौ अधारयत् च।

MitaSocksMothersDay13May2018

मन्ये सा प्रथमं वारं मम मन्त्रणां अशृणोत् तस्मात् एकः अद्वितीयः उपहारः इति।

२०१८-०५-१३ रविवासरः (2018-05-13 Sunday)

कर्नाटकनिर्वाचनम् (Karnataka Election)

सर्वे समाचारमाध्यमानि विरुवन्ति कर्णाटकराज्यस्य निर्वाचनस्य परिणामः अतिमहत्वपूर्णः अस्ति। यं दलं पराजितं भविष्यति तस्य २०१९वर्षस्य महति निर्वाचने पराजयः निश्चितः अस्ति इति पण्डिताः वदन्ति। अहं मन्ये सर्वं मिथ्या अस्ति। मईमासस्य अन्ते जनाः इदं विस्मरिष्यन्ति।तस्मात् परिणामविश्लेषणे कालः नष्टः न कर्तव्यः।

२०१८-०५-१२ शनिवासरः (2018-05-12 Saturday)

अविद्यया मृत्युं तीर्त्वा (By the ignorance crosses beyond death)

अद्य अहं कूटमुन्द्राग्रामे हिन्दूमतम् इति विषये वक्तुं गमिष्यामि (http://www.cootamundra-u3a.org/find/index.html)।
वक्तव्यस्य कल्पने मम मनसि ईशावास्योपनिषदः वाक्यम् अविद्यया मृत्युं तीर्त्वा इति आगच्छत्।
अहम् अस्य वाक्यस्य उपरि मम मित्राणां पण्डितानां च स्वचिन्तनं श्रोतुं पठितुं वा इच्छामि।

२०१८-०५-०९ बुधवासरः (2018-05-09 Wednesday)

जन्मदिवसः आयव्ययपत्रम् च (Birthday & Budget)

अद्य आवयोः कन्यायाः जन्मदिवसः अस्ति। अद्य औस्ट्रेलियादेशस्य आयव्ययपत्रम् अपि उदघुष्टम्। आवयोः कन्या वित्तविभागे कार्यं करोति सा आयव्ययपत्रस्य कल्पने अपि साहाय्यम् अकरोत्। मन्ये तत् उदघोषणं जन्मदिवसस्य समीचीनम् उपायनम् अस्ति। सा उदघोषणस्य उत्सवे अपि आमन्त्रिता अस्ति।

२०१८-०५-०८ मङ्गलवासरः (2018-05-08 Tuesday)