न्यूकासलनगरतः प्रत्यागच्छम् (Returned from Newcastle)

अद्य वयं न्यूकासलनगरतः प्रत्यागच्छाम। वयं द्वाभ्यां यानाभ्यां यात्राम् अकुर्म। मार्गे प्रायः षड्-होरा जाता। अहं रात्रौ सार्धाष्टवादने गृहं प्राप्तवान्। प्रतिमङ्गलवासरे अहम् अस्मिनेव काले हिन्दी-पाठात् गृहं आगच्छामि तस्मात् गृहकार्ये कोऽपि अन्तरः नासीत्।

२०१०-११-०९ मङ्गलवासरः (2010-11-09 Tuesday)

न्यूकासलनगरे उपवेशनम् (Workshop in Newcastle)

अद्य अहं मम अष्टभिः छात्रैः सह न्यूकासलनगरे एकस्मिन् उपवेशने अस्मि। उपवेशनं लघुविद्युत-उत्पादनं वितरणव्यवस्था (minigrid) च कथं भविष्यति इति विषये अस्ति। लघु-उत्पादनव्यवस्थायाः प्राथमिकता अक्षय-ऊर्जायाः (of renewable energy) उपयोगाय अस्ति। अक्षय-ऊर्जायाः उत्पादनं इदनीम् लघुमात्रायाम् अस्ति।

२०१०-११-०८ सोमवासरः (2010-11-08 Monday)

अभिजितेन आमन्त्रिताः (Invited by Abhijit)

अद्य अभिजितेन वयम् आमन्त्रिताः। अभिजितस्य पितरौ भारतदेशतः अत्र किञ्चित् कालाय आगच्छतः स्तः। अभिजितस्य पुत्रः गतमासे एव अजायत च। तस्मात् सः आवाम् आमन्त्रयत। सः न तु स्वगृहे भोजनस्य आयोजनम् अकरोत् किन्तु जलपानगृहे। आयोजनं सम्यगासीत्।

२०१०-११-०७ रविवासरः (2010-11-07 Sunday)

अवकाशः (Intermediate Time)

गुर्जरप्रदेशे दीपोत्सवस्य आगामिदिवसे नूतनवर्षः आगच्छति। सम्प्रति तत्र किं भवति अहं न जानामि किन्तु यदा अहं तत्र अस्मि स्म तदा दीपोत्सवं प्रायः कोऽपि न पालयति केवलं नूतनवर्षस्य आगमनं पालयन्ति। अस्मिन् वर्षे अद्यतनस्य दिवसे अवकाशः अस्ति यतो हि नूतनवर्षः श्वतः भविष्यति।

२०१०-११-०६ शनिवासरः (2010-11-06 Saturday)

शीतः न गच्छति (Winter doesn’t go)

अयं मासः वसन्त-ऋतोः तृतीयः अन्तिमः च मासः अस्ति तथापि अत्र शीतः न गच्छति। प्रायः अस्मिन् काले उष्णः भवति किन्तु न तु अस्मिन् वर्षे। यदा उष्णः भविष्यति तदा अकस्मात् एव भविष्यति प्रचण्डतापः अपि पीडिष्यति। ऋतुनां कुसुमाकरः इति अस्मिन् वर्षे अहं मन्ये वयं न अनुभविष्यामः।

२०१०-११-०४ गुरुवासरः (2010-11-04 Thursday)

शक् स्वादिगणी परस्मैपदी धातुः (shak – to be able to)

सा सर्वम् कर्तुं शक्नोति। अपि त्वमपि इदं कर्तुं शक्नोषि? अहं न कर्तुं शक्नोमि।
सः किमपि न कर्तुम् अशक्नोत्। त्वम् तत्र गन्तुम् अशक्नोः। अहम् अत्र आगन्तुम् अशक्नवम्।
अवधेही ओ इति प्रथमपुरुषे मध्यमपुरुषे एकवचने।
सः गन्तुं शक्नोतु। त्वं गन्तुं शक्नुहि। अत्र केवलं प्रथमपुरुषे एकवचने ओ इति अस्ति।

२०१०-११-०३ बुधवासरः (2010-11-03 Wednesday)

सीनावर्यायाः गृहे (Sinaji’s House)

अद्य अस्माकं हिन्दीपाठः सीनावर्यायाः गृहे आसीत्। अद्य ऐलनवर्याः केन्बरानगरे नासीत् तस्मात् वयं विश्वविद्यालयस्य पुस्तकालयस्य उपयोगं न कर्तुम् अशक्नुम। सीनावर्या सर्वेभ्यः भोजनम् अपि अपचत्। वयं यह-उसने-उसको-उससे-उस के लिये-उससे-उस का/के/की-उस में/पर इति शब्दानाम् उपयोगं कथं भवति अस्य अभ्यासम् अकुर्म।

२०१०-११-०२ मङ्गलवासरः (2010-11-02 Tuesday)

समालोकनम् (Review)

अद्य कार्यालये शोधक्रीयमाणानां छात्राणां समालोकनम् अकुर्म। पञ्च छात्राः आसन् तेषां सर्वेषां समालोकनस्य परिणामः सन्तोषकरः आसीत्।

२०१०-११-०१ सोमवासरः (2010-11-01 Monday)