दहति (Burns)

दहँ भस्मीकरणे भ्वादिः परस्मैपदी सकर्मकः अनिट्। अयं सकर्मको धातुरस्ति दहत्यग्निः काष्टम् इति दुर्गादासः।
EZJWynOWkAAB3uf

 

अमेरीकादेशे रक्षिपुरुषेण श्रीजोर्जफ्लोयडवर्ये हते विरोधप्रदर्शनाय जनाः इदं भवनमदहन्।
दहँ इति सकर्मकोऽस्ति तथा कथम् the house burns इति कथितव्यम्? निलयः दहति इति तु न कथयितुं शक्यते। मन्ये ज्वलँ दीप्तौ इति अकर्मकः तस्मात् निलयः ज्वलति इति साधु।

धातुः सकर्मकः अकर्मकः वा इत्यस्य चर्चा अनिवार्या किन्तु न तस्य विषयस्य पुस्तकेषु चर्चा भवति। अस्माभिः सदृग्भ्यः छात्रेभ्योऽस्य भेदस्य ज्ञानमति लाभकरं किन्तु न कुत्रापि प्राप्यते।

 

 

२०२०-०५-३१ रविवासरः (2020-05-31 Sunday)

आवपनम् (Vessel, sowing)

वप् डुवपँ बीजसन्ताने छेदने च  (to sowto plantto chop भ्वादिः  उभयपदी  सकर्मकः  अनिट्  भिदादिः  यजादिः
आवपनम् ओप्यते स्थाप्यतेऽत्र आङ् + वप् + आधारे ल्युट् इति कल्पद्रुमे।
आवपनम्, पात्रम्, अमत्रम्, भाजनम्, भाण्डम्, इत्यमरः।
प्रभुरग्निः प्रतपने भूमिरावपने प्रभुः।
प्रभुः सूर्य्यः प्रकाशित्वे सतां चाभ्यागतः प्रभुः॥
Fire is the Lord in heating, the earth is the Lord in holding or sowing, the sun is the Lord in lighting, and the Lord is in virtuous persons.

२०२०-०५-३० शनिवासरः (2020-05-30 Saturday)

केन शुक्लीकृता हंसाः (Who turned swans white?)

केन शुक्लीकृता हंसा मयूराः केन चित्रिताः॥
मनसस्तु हरणं करोति एतद् पादद्वयम्। सरलं सुस्पष्टं न मण्डनं नाभूषणम्। न जाने एतौ पादौ केन अस्त्रेण विध्यतः। नास्मात् लेखनं जाने न जान अस्य परीक्षणं किन्तु जाने केवलमस्य रसास्वादनम्।

२०२०-०५-२९ शुक्रवासरः (2020-05-29 Friday)

घर्मप्रसादः (Heat as a blessing)

पतन्ति दिल्लीनगर अनुकम्पानावरतम्।
घर्ममसोढवद्भ्य न कार्यं न हि संक्रमणम्॥

२०२०-०५-२८ गुरुवासरः (2020-05-28 Thursday)

निरुक्तशास्त्रम् (Nirukta)

न केनापि वोल्टेयरमहाभागाः लाघवं प्राप्तुं शक्यन्ते न च अस्माकं निरुक्तशास्त्रम्। तस्मिन् विषये को गरीयानिति विस्मृत्यास्य वाक्यस्यानन्दमनुभवन्तु।
Etymology will only take you so far — the old joke, wrongly attributed to Voltaire, is that it’s a science where the vowels mean little and the consonants even less.

छिन्ते न छादयते (Cuts but doesn’t cover)

शङ्करः लिखति – भूतं भवत् भविष्यत् इति कालत्रयपरिच्छेद्यं यत्, तदपि ओंकार एव, उक्तन्यायतः।
छिद् द्वैधिकरणे छद् अपवारणे इति द्वयोः अर्थः व्यत्ययः भवति मम स्मृत्यामनेकवारम्।
दोषान् छादयते स्वयं न कुरुते ह्येतत्तत्सतां लक्षणम्।
तृष्णां छिन्ते शमयति मदं ज्ञानमाविष्करोति
नीतिं सूते हरति विपदं सम्पदं संचिनोति।
पुंसां लोकद्वितयशुभदा सङ्गतिस्सज्जनानां
किं वा कुर्यान्न फलममलं दुःखनिर्णाशदक्षा॥सत्सङ्गसूक्तिः २॥

२०२०-०५-२६ मङ्गलवासरः (2020-05-26 Tuesday)

ङेर्यः इति सूत्रम् अवायस्यत् (This sutra separated)

टाङसिङसामिनात्स्याः (७.१.१२) इत्यस्मात् सूत्रात् ङेर्यः (७.१.१३) इति सूत्रं मुनिरवायस्यत्। कथम्? मन्ये ङेर्यः सूत्रात् सर्वनाम्नः स्मै (७.१.१४) इति सूत्रे ङेः इत्यस्य अनुवृत्तिः भवति किन्तु कथं इममेवानुवृत्तिः टाङेङसिङसामिनयात्स्याः इत्यस्मात् गृहीतुं न शक्यम्।
मन्ये किमप्यन्यं कारणमस्ति यत् न जाने किन्तु ज्ञात्वा सूत्राणामवबोधनं वर्धिष्यते।

२०२०-०५-२५ सोमवासरः (2020-05-25 Monday)

न्यक्कृतम् (Slighted)

वारं वारं यथाकाले न्यक्कृतः समयः मया।
बिभेमीप्सिते हि काले भाग्यं मां न्यक्करिष्यति॥
Again and again at the opportune time I slighted (didn’t keep) my promises. I fear at a desired time (when the fortune is most needed), fortune will desert me.

२०२०-०५-२४ रविवासरः (2020-05-24 Sunday)

यासिसीष्ठाः इति अहो आनन्दः (Oh! the great joy)

ॐ त्वं नो॑ अग्ने॒ वरु॑णस्य वि॒द्वान्दे॒वस्य॒ हेळोऽव॑ यासिसीष्ठाः ।
यजि॑ष्ठो॒ वह्नि॑तम॒ः शोशु॑चानो॒ विश्वा॒ द्वेषां॑सि॒ प्र मु॑मुग्ध्य॒स्मत् ॥ऋग्वेदः ४.१.४
अवयासिसीष्ठाः – पृथक् करिये separate.
भट्टमहाभागः सायणाचार्येण सह मिलित्वा अद्य मह्यं महद् सुखमदात्। गतत्रिंशता वर्षैः यदापि हवनं कुर्वन् अवयासिसीष्ठाः इति उक्तं तदा चिन्तितं कः शब्दः कः अर्थः इति। शब्दकोशे अन्वेषितं किन्तु न कुत्रापि ज्ञातं कुतः इदं पदं आयाति। अद्य अज्ञासिषम्। अहो आनन्दः!
अव यासिसीष्ठाः – अपूर्वाद् यसेर्ण्यन्ताद् आशीर्लिङ्। थासि सीयुडागमः। छन्दस्युभयथा इति लिङ् सार्वधातुकत्वात् णिलोपाभावः। अवपूर्वो यासिर्विनाशे वर्तते – सायणः। अथवा, या पापणे (अद. प. अ.) इत्यस्मात् ण्यन्ताद् आशीर्लिङि मध्यमपुरुषैकवचने छान्दसं रूपम्। इति जगन्नाथवेदालङ्कारेण विरचिते श्रीअरविदान्ताराष्ट्रीय-शिक्षाकेन्द्रे प्रकाशिते भर्गो देवस्य धीमहि इति पुस्तके पृष्ठम् ११०।

यासिसीष्ठाः – आशीर्लिङ्लकारः आत्मनेपदी मध्यमपुरुषः एकवचनम्
यस् यसुँ प्रयत्ने दिवादिः परस्मैपदी अकर्मकः सेट् पुषादिः
यसुँ (भूवादयो धातवः (१.३.१))
यस् (उपदेशेऽजनुनासिक इत् (१.३.२), तस्य लोपः (१.३.९))
यस्+लिँङ् (आशिषि लिङ्लोटौ (३.३.१७३))
यस्+ल् (लस्य (३.४.७७), हलन्त्यम् (१.३.३), तस्य लोपः (१.३.९), उपदेशेऽजनुनासिक इत् (१.३.२), तस्य लोपः (१.३.९))
यस्+थास् (तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् (३.४.७८), तङानावात्मनेपदम् (१.४.१००), तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः (१.४.१०१), तान्येकवचनद्विवचनबहुवचनान्येकशः (१.४.१०२), युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः (१.४.१०५), लिङाशिषि (३.४.११६))
यस्+णिच्+थास् (सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् (३.१.२५))
यास्+णिच्+थास् (अत उपधायाः (७.२.११६))
यास्+इ+थास् (हलन्त्यम् (१.३.३), चुटू (१.३.७), तस्य लोपः (१.३.९), न विभक्तौ तुस्माः (१.३.४))
यास्+इ+सीय्+थास् (लिङः सीयुट् (३.४.१०२))
यास्+इ+सीय्+स्थास् (सुट् तिथोः (३.४.१०७))
यास्+इ+सीस्थास् (लोपो व्योर्वलि (६.१.६६))
यास्+इ+सीष्थास् (आदेशप्रत्यययोः (८.३.५७))
यासि+सीष्थारुँ (ससजुषो रुः (८.२.६६))
यासि+सीष्थार् (उपदेशेऽजनुनासिक इत् (१.३.२), तस्य लोपः (१.३.९))
यासि+सीष्थाः (खरवसानयोर्विसर्जनीयः (८.३.१५))
यासिसीष्ठाः (ष्टुना ष्टुः (८.४.४१))

२०२०-०५-२३ शनिवासरः (2020-05-23 Saturday)

अपाठि (Was studied)

वेदेष्वधीतेषु विचारितेऽर्थे शिष्यानुरागी गुरुराह तं स्म॥
अपाठि मत्तः सषडङ्गवेदो व्यचारि कालो बहुरत्यगात्ते॥श्रीमच्छङ्करदिग्विजयः २.८
The disciple loving guru, who had studied and meditated on the Vedas, said to him, “A lot of your time has been spent learning from me and thinking of six branches of the Vedas.”
अपाठि – लुङ्लकारः कर्मणि प्रथमपुरुषः एकवचनम्
पठ् पठँ व्यक्तायां वाचि भ्वादिः परस्मैपदी सकर्मकः सेट्
पठ् (उपदेशेऽजनुनासिक इत् (१.३.२), तस्य लोपः (१.३.९))
पठ् लुँङ् (लुङ् (३.२.११०))
पठ् ल् (उपदेशेऽजनुनासिक इत् (१.३.२), हलन्त्यम् (१.३.३), तस्य लोपः (१.३.९))
अट् पठ् ल् (लुङ्लङ्लृङ्क्ष्वडुदात्तः (६.४.७१))
अपठ् ल् (हलन्त्यम् (१.३.३), तस्य लोपः (१.३.९))
अपठ् त (भावकर्मणोः (१.३.१३), तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् (३.४.७८))
अपठ् चिण् त (च्लि लुङि (३.१.४३),चिण् भावकर्मणोः (३.१.६६))
अपठ् इ त (चुटू (१.३.७), हलन्त्यम् (१.३.३), तस्य लोपः (१.३.९))
अपाठि त (अत उपधायाः (७.२.११६))
अपाठि (चिणो लुक् (६.४.१०४))

२०२०-०५-२२ शुक्रवासरः (2020-05-22 Friday)