ज्वलिता तरणं पुनः आरब्धवती (Jwalita restarted swimming)

अद्य ज्वलिता पुनः तरणम् आरब्धवती। पुरा सा सप्ताहे एकवारं तरणाय अगच्छत्। इदानीम् अहं विस्मरामि किन्तु द्विवर्षपूर्वं कस्मात् कारणात् तरणकार्यक्रमे भङ्गः अभवत् तत् परं सा न गतवती। अद्य अहं कार्यालये व्यस्तः आसम् तस्मात् दिव्यांशुः ज्वलितां तरणकुण्डे अनयत्।

२०१०-०४-३० शुक्रवासरः (2010-04-30 Friday)

वर्तनयन्त्रम् (Motor)

अद्य आगामीसत्रस्य पाठ्यक्रमाय एकं प्रयोगं सज्जीकर्तुं मया प्रयोगशालायां वर्तनयन्त्रेण किञ्चित् कार्यं कृतम्। मां पूर्णसाफल्यं न प्राप्तं किन्तु आंशिकसाफल्यं तु प्राप्तम्। श्वः अग्रं कार्यं करिष्यामि।

२०१०-०४-२९ गुरुवासरः (2010-04-29 Thursday)

आपूरितः (Filled)

आपूरितं चषकं मां देहि। आपूरितां घटीं उत्थाय मा चल। सखेदम् आपूरितस्य यानस्य अभ्याचारम् (accident) अभवत्। इदं चलचित्रगृहम् आपूरितम् अस्ति।

२०१०-०४-२८ बुधवासरः (2010-04-28 Wednesday)

दशन् विंशति च (Ten & Twenty)

प्रथमा – दश विंशतिः
द्वितीया – दश विंशतिम्
तृतीया – दशभिः विंशत्या
चतुर्थी – दशभ्यः विंशत्यै-विंशतये
पञ्चमी – दशभ्यः विंशत्याः-विंशतेः
षष्ठी – दशानाम् विंशत्याः-विंशतेः
सप्तमी – दशसु विंशत्याम्-विंशतौ
दश बालकाः। दश कन्याः। दश फलानि।
विंशतिः बालकाः। विंशतिः कन्याः। विंशतिः फलानि।
त्रिषु लिङ्गेषु एकरूपं भवति।

२०१०-०४-२७ मङ्गलवासरः (2010-04-27 Tuesday)

उच्चैः स्वरैः (Loud Voice)

अद्य अवकाशः आसीत्। प्रातःकाले शुचिता तस्याः मातरम् अकथयत् अपि अद्य वयं आपणम् गच्छेम इति। अहं उच्चैः स्वरैः अकथयम् अद्य कोऽपि आपणं न गमिष्यति गृहे एव तिष्ठन् स्वकार्यं करोतु इति। सा हसन् माम् अवदत् हे पितः ज्वलिता अपि भवतः उच्चैः स्वरैः न बिभेति भवान् कथं अपेक्षते अहं बिभेमि इति।

२०१०-०४-२६ सोमवासरः (2010-04-26 Monday)

तुर्किस्तानः (Turkey)

अद्य अस्मिन् देशे एन्ज़ेक-दिवसस्य अवकाशः अस्ति। 25 April 1915 इति दिवसे गलिपली इति स्थाने तुर्किस्तानदेशे अनेकाः ओस्ट्रेलियादेशस्य योद्धाः मारीताः। तस्य दिवसस्य स्मृत्यां प्रत्येकवर्षे 25 April इति अवकाशदिवसः अस्ति।
अद्य सायंकाले समाचारे ते अकथयत् तुर्किस्तानदेशेन अद्यतनस्य समारोहे भागं गृहितम् इति। इदं श्रुत्वा ज्वलिता अकथयत् कथं इदानीं सर्वथा असम्बधाः राष्ट्राः अस्मिन् आयोजने भागं गृहितवन्तः इति। ज्वलितायाः इदं वाक्यं मयि वज्राघातः इव अपतत्। ते विद्यालये प्रत्येकवर्षे एन्ज़ेक-दिवस्य विस्तारेण महात्म्यं कथयन्ति। सा कथं न जानाति गलिपोली इति तुर्किस्तानदेशे एव अस्ति।

२०१०-०४-२५ रविवासरः (2010-04-25 Sunday)

सर्वे कार्यं कुर्वन्ति (Everyone Works)

अद्य शनिवासरे आवयोः अपत्यानि कार्यं कुर्वन्ति किन्तु आवां गृहे एव स्वः। अद्य मन्दिरे जलपानापणः आयोजितः तत्र अहं मीता च सहायं कर्तुम् अगच्छाव तस्मात् आवां सर्वथा अकर्मकरौ नास्व।

२०१०-०४-२४ शनिवासरः (2010-04-24 Saturday)

दीर्घसप्ताहान्तः (Long weekend)

अद्य प्रभृति दीर्घसप्ताहन्त्स्य आरम्भः भवति। आगामी सोमवासरः अवकाशदिवसः अस्ति। दिव्यांशुः नववादने कार्यं समाप्तम् अकरोत्। ज्वलिता तस्याः मित्रस्य गृहे अगच्छत् सा नववादने प्रत्यागच्छत्। शुचिता नववादने स्व मित्रस्य गृहे अगच्छत्। अहम् अस्मात् आवागमनात् क्लान्तः अस्मि।

२०१०-०४-२३ शुक्रवासरः (2010-04-23 Friday)

रुधादिगणः (Rudh group 7)

अस्य गणस्य धातुसूच्यः रुध् इति धातोः आरम्भः भवति तस्मात् अस्य गणस्य नाम रुधादिगणः इति अस्ति। अस्मिन् गणे पञ्चविंशतिः धातवः सन्ति। धातोः प्रथमस्य स्वरस्य परं श्नं (न-कारः) युज्यते। यथा रुध् + ति = रु + न + ध् + ति = रुणद्धि।

२०१०-०४-२२ गुरुवासरः (2010-04-22 Thursday)

ज्वलितायाः मित्रे (Jwalita’s friends)

अद्य ज्वलितायाः द्वे मित्रे अस्माकं गृहे क्रीडाकरणाय तत् परं स्वपितुं च आगच्छताम्। यादृशं ते उत्पातं कुरुतः अहं ना मन्ये ते मानवजाये स्तः। दानवानाम् इव उत्पातं कुरुतः। श्वः गृहे कानि वस्तूनि खण्डितानि भविष्यन्ति अहं न जानामि। गतवारं यदा ताः आगच्छन् प्रातःकाले अनेकानि वस्तूनि खण्डितानि प्राप्तानि।

२०१०-०४-२१ बुधवासरः (2010-04-21 Wednesday)