कार्यं नाभवत् (Work was not done)

अद्य मया किञ्चित् अनिवार्यं कार्यं करणीयम्। दिवसे अहं व्यापृत्तः आसम् तस्मात् चिन्तितं सायंकाले करिष्यामि इति। किन्तु सायंकाले ज्वलिता महाविद्यालयपरीक्षणं कर्तुं मया नेतव्या। अहं तां डिकसनमहाविद्यालयं अनयं रात्रौ सार्धनववादने प्रत्यागच्छाव च। तत् परं मया किञ्चित् कार्यं कृतं किन्तु इदानीम् अपि कार्यम् अवशिष्टम् अस्ति।

२०१२-०५-३१ गुरुवासरः (2012-05-31 Thursday)

सिडनीनगरम् अगमाम (Went to Sydney)

अद्य प्रातःकाले वयं सिडनीनगरम् अगमाम। अपराह्णे प्रत्यागमाव। तत्र गमनसमये दिव्यांशुः यानम् अचालयत् तस्मात् इदानीम् अहं न क्लाम्यामि।
पश्यतु http://www.youtube.com/watch?v=VV5XzxvggTY&feature=related

२०१२-०५-३० बुधवासरः (2012-05-30 Wednesday)

त्यक्ष्यामि (I will quit)

मनमोहनवर्यः निगदति यदि दोषी अस्मि तर्हि पदं त्यक्ष्यामि इति। श्रवणे इदं अति साधुः प्रतीयते किन्तु ये स्मरन्ति सः एव अकथयत् यदि लोकसभासदस्यतायाः निर्वाचने असफलः भविष्यामि तर्हि राज्यसभासदस्यता त्यक्ष्यामि इति ते जानन्ति तस्य वचने कीदृशी सत्यता अस्ति। सः निर्वाचने असफलः अभवत् किन्तु त्याजनस्य स्थाने सः फेवीकोल इति लेपेन स्वयं विलिप्य/श्लेषयित्वा तत्र एव उपविशति। सत्यमेव जयते।

२०१२-०५-२९ मङ्गलवासरः (2012-05-29 Tuesday)

व्यापृतः (Busy)

सोमवासरे अहं प्रायः व्यापृतः अस्मि। अपि सोमवासरे तावत् (really) व्यापृतः अस्मि अथवा द्विदिवसस्य अवकाशस्य परं तत् अनुभवामि इति न जानामि। किन्तु व्यापृतः अस्मि इति भावः मयि अस्ति।

२०१२-०५-२८ सोमवासरः (2012-05-28 Monday)

पूर्वसङ्ग्रहः (Archives)

सर्वे जानन्ति अहं – इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् – इति अस्य प्रशंसकः अस्मि। ह्यः मया ज्ञातम् जालपत्रे पूर्वसमचाराणाम् सङ्ग्रहः अपि अस्ति।
http://www.newsonair.com/language-text-bulletins-archive.asp – text archive
http://www.newsonair.com/language-bulletins-archive.asp – MP3 audio archive
मन्ये इमे समाचाराः शिक्षणाय उत्तमसाधनानि सन्ति।

मुख्यपृष्ठे अपि सङ्केतः अस्ति – Audio/Text Archives.

२०१२-०५-२७ रविवासरः (2012-05-27 Sunday)

चिञ् चयने (To arrange in order)

चिञ् इति धातुः स्वादिगणी उभयपदी धातुः अस्ति।
सः चिनोति। तौ चिनुतः। ते चिन्वन्ति। त्वं चिनोषि। युवां चिनुथः। यूयं चिनुथ। अहं चिनोमि। आवां चिन्वः। वयं चिन्मः।
अस्मात् धातोः उपचयः इति वृधिः अर्थे अपचयः इति क्षयः अर्थे इमौ शब्दौ भवतः।
इदानीं विनिमये रुप्प्यकाणां मूल्ये अपचयः भवति किन्तु डोलरस्य मूल्ये उपचयः भवति।
इदानीं विनिमये रुप्प्यकाणां मुल्यम् अपचिनोति/अपचीयते। किन्तु डोलरस्य मूल्यम् उपचिनोति।

२०१२-०५-२६ शनिवासरः (2012-05-26 Saturday)

सशेषं कार्यं कृतम् (Did Incomplete Work)

अद्य मया कार्यालये सशेषं कार्यम् एव कृतम्। किञ्चित् तथापि अवशेषम् अस्ति तं कार्यं स्वापात् पूर्वं समापयिष्यामि।

२०१२-०५-२५ शुक्रवासरः (2012-05-25 Friday)

ज्वलिता परीक्षते (Jwalita Examines)

आगामिवर्षे ज्वलिता अन्यस्मिन् विद्यालये प्रवेक्ष्यति तस्मात् सा अद्य निकटस्थस्य विद्यालयस्य परीक्षणस्य करणाय/परीक्षणाय मया सह अगच्छत्। विद्यालयः नूतनः अस्ति। अन्तः प्रविश्य अहं न जानामि विद्यालये अस्मि अथवा चलचित्रगृहे।

२०१२-०५-२४ गुरुवासरः (2012-05-24 Thursday)

ज्वलितायाः तरणाभ्यासः (Jwalita’s Swimming Practice)

अद्य सायंकाले ज्वलिता तरणाभ्यासाय अगच्छत्। तदा अहं तां विद्यालयम् अगच्छम्। तस्याः विद्यालये वाद्यवृन्दाय धनार्जनाय श्वः खाद्यसामग्रयां विक्रयस्य कार्यक्रमः अस्ति। तस्मात् अहं वातीन्धनस्य तिस्रः कुप्यः शीनस्य (of ice) त्रयः प्रसेवः च आपणात् आनयम्। इदं कृत्वा ज्वलितां तरणकुण्डात् नयित्वा गृहम् आगच्छम्।

२०१२-०५-२३ बुधवासरः (2012-05-23 Wednesday)

सत्सङ्गत्वे निस्सङ्गत्वम् (Detachment from attachment)

सङ्गः अस्मात् कर्तव्यं यस्मात् निस्सङ्गत्वं जायते। सः सङ्गः सत्सङ्गः एव अस्ति।

२०१२-०५-२२ मङ्गलवासरः (2012-05-22 Tuesday)