पुनः मासस्य अन्तिमदिवसः (Again the last day of the month)

पुनः मासस्य अन्तिमदिवसः आगच्छत्। मया अनेकानि कार्याणि पुनः न सम्पादितवान्। किं करोमि? अहं मन्ये यदपि सम्भवम् अस्ति तत् तु पर्याप्तम्। परह्यः राज-आचार्यवर्यः अलिखत् मया लिखितं वाक्यानि तं उपयोगी भवति इति। यदि मया सह अन्यसंस्कृतपण्डिताः अपि वाक्यानि लिखन्ति तर्हि अवशमेव सर्वेभ्यः जनेभ्यः लाभः स्यात्। किन्तु पण्डिताः ईदृशं न अवबोधन्ति। अहं यदपि कर्तुं शक्नोमि तद् करिष्यामि।

२००६-१०-३१ मङ्गलवासरः (2006-10-31 Tuesday)

ग्रीष्मसमयः (Summer Time)

ह्यः ग्रीष्मसमयः आरब्धवान्। अद्य प्रातः जागरणे किञ्चित् कष्टः अभवत्। नित्यम् अहं सार्धषट्-वादने जागर्मि किन्तु अद्य सप्तवादने अजागरम्। अद्य कार्यालयात् चतुर्वादने प्रत्यागच्छम्। यदा अहं प्रत्यागच्छमि तदा मध्याह्नम् इति अन्वभवम्। सायंकाले किञ्चित् कार्यम् अकरवम् तर्हि बहिः न अगच्छाम। सामान्यतः वयं ग्रीष्मकाले सायंकाले विहाराय गच्छामः।

२००६-१०-३० सोमवासरः (2006-10-30 Monday)

विज्ञान-ईश्वरवादिनोः भेदः (Science and Religion Separation)

THE GOD DELUSION By Richard Dawkins. 406 pp. Houghton Mifflin पुस्तकस्य समीक्षा मया पठितम्। तस्मिन् पुस्तके लेखकः लिखति अनेकलोकाः कथयन्ति – विज्ञानस्य ईश्वरवादस्य पृथकौ क्षेत्रौ स्तः – इति। एकस्य क्षेत्रः भौतिकः अन्यस्य क्षेत्रः अभौतिकः। लेखकः कथयति – लोकाः विज्ञानस्य संमुखगमनं कर्तुं न शक्नोति तथा ईदृशं वदन्ति किन्तु ते भौतिकक्षेत्रे प्रचुरः उपदेशानि ददति।अहं तस्य मतम् अनुवदामि। सत्यस्य पथिनः सर्वे एकस्मिन् पथि एक चलन्ति। विज्ञानः ईश्वरवादः च सत्यस्य अन्वेषणं कुरुतः। यः विज्ञाने सत्यः अस्ति सः ईश्वरवादे अपि सत्यः अर्हति। यदि ईश्वरवादिनः स्वस्मिन् मते सत्यं दर्शयितुम् इच्छन्ति तर्हि स्वमतस्य प्रमाणः भौतिकक्षेत्रे अपि ददतु।

२००६-१०-२९ रविवासरः (2006-10-29 Sunday)    

पारिभाषिककोषः (Technical Dictionary)

श्रीरामचन्द्रवर्यः मां 3-Oct-2006 अलिखत् -हिमांशुपोटामहोदय!

स्वस्ति। भवतः वचनोपहारेण हृष्यामि। धन्यवादाः। अपेक्षितं पारिभाषिकनिबन्धम् अनेन प्रेष्यते। ते शब्दाः अनेकग्रन्थेभ्यः यथावसरम् आहृताः। बर्हित्रं सङ्कुचच्चक्रं च इति शब्दौ मया कल्पितौ। तयोः व्याकरणसौष्ठवं विद्वद्भिः निश्चितं भवतु।

सौहार्दपूर्वकं

रामचन्द्रः (M R Rao)

– तं कोषं पश्यतु http://www.ee.adfa.edu.au/staff/hrp/personal/sanskrit/sarani/techdict.htm

२००६-१०-२८ शनिवासरः (2006-10-28 Saturday)

जयवर्यस्य समस्या (Shri Jay’s Difficulty)

ह्यः मया जयवर्यः एकं निवेदनं कृतम्। तस्य उत्तरं सः इदम् अददात्।हिमांशु  स्वस्ति।

शोभनः खलु भवतः प्रयत्नः। परन्तु मम संगणक-यन्त्रे देवनागर्याः लिप्याः पठनम् कृच्छ्रतः एव शक्यम्। यथाशक्ति मया स्थापिता लिपिः (“Windows enable indic fonts”, “Unicode fonts”) मम यन्त्रे। अद्यापि एकैका प्रक्रिया तदनुसारी एकैका तु न।

सर्वत्र ह्रस्व-इकार-चिह्नं व्यंजनात्परम् एव दृश्यते। व्यंजन-संयोगा सर्वत्र लिखित-हलन्त-शृन्खलाः। अत्र “rendering” इत्याख्य-प्रक्रियायाः दोषः इति ज्ञापितोऽस्मि।तन्निवारणम् तु माम् दुष्करम् इति अनुभवः।

नम्रः

धनंजयः

२००६-१०-२७ शुक्रवासरः (2006-10-27 Friday)

नित्य-संस्कृत-ग्रन्थः देवनागरीलिप्याम् (Sanskrit Digest in Devanagari)

हिमांशुऽदय  स्वस्ति।शोभनः खलु भवतः प्रयत्नः। परन्तु मम

संगणक-यन्त्रे देवनागर्याः लिप्याः पठनम्

कृच्छ्रद् एव शक्यम्। यथाशक्ति मया स्थापिता

लिपिः (“Windows enable indic fonts”, “Unicode fonts”)

मम यन्त्रे। अद्यापि एकैका प्रक्रिया तदनुसारी एकैका

तु न।

सर्वत्र ह्रस्व-इकार-चिह्नं व्यंजनात्परम् एव

दृश्यते। व्यंजन-संयोगा सर्वत्र

लिखित-हलन्त-शृन्खलाः। अत्र “rendering”

इत्याख्य-प्रक्रियायाः दोषः इति ज्ञापितोऽस्मि।

तन्निवारणम् तु माम् दुष्करम् इति अनुभवः।

नम्रः

धनंजयः

२००६-१०-२६ गुरुवासरः (2006-10-26 Thursday)

निकोल-कीथ-युगलः (Nicole and Keith’s Pair)

किञ्चित् मासपूर्वम् औस्ट्रेलियावासिनी सुप्रसिद्धा अभिनेता निकोल-किडमेन-वर्या सुप्रसिद्धेन गायकेन कीथ-अरबन्-वर्येण सह लग्नम् अकरोत्। गत सप्ताहे वयम् अशृणुम कीथवर्यः माद्यपदार्थान् विरमिताय (for stopping) चिकित्सालये प्रावेशत् इति। यदा तयोः लग्नम् अभवत् तदा निकोलवर्या जानाति सः माद्यपदार्थन् अनियन्त्रणपूर्वकं सेवनम् करोति इति तदापि सा तेन सह लग्नम् अकरोत्। अहं कल्पनां न कर्तुं शक्नोमि तेषां जीवनं कीदृशं भयन्करं दुःखकरं च अस्ति यतो हि ते ईदृशं लग्नं कुर्वन्ति।

२००६-१०-२५ बुधावासरः (2006-10-25 Wednesday)

अग्निदमनवाहनः (Fire Engine)

अद्य यदा अहं कार्यलये गच्छामि तदा एकः अग्निदमनवाहनः (fire engine) पृष्ठतः आगच्छति। मार्गे द्वौ कतारौ (lanes) स्तः। वाहनः दक्षिणकतारे आसीत्। किन्तु अहो आश्चर्यं दक्षिणकतारस्य यानाः वामकतारे न आगच्छन्ति तथा वामकतारस्य यानाः तान् अगामनस्य स्थानं न ददति। लोकाः कीदृशाः अधीराः भवन्ति इति मया पूर्वं न दृष्टम्। अग्निदमनवाहनम् मार्गं न ददति इति अधीरतायाः परिकाष्ठा एव अस्ति।

२००६-१०-२४ मङ्गलवासरः (2006-10-24 Tuesday)

गुर्जर-नूतनवर्षः (Gujarati New Year)

अद्य गुर्जर-नूतनवर्षस्य प्रथमः दिवसः। प्रातः प्रभृति अहं मम पितराभ्यां सह दूरभाषेण वक्तुम् इच्छामि किन्तु सर्वे दूरभाषाः संयोगाः व्यस्ताः सन्ति। अहं ताभ्यां सह श्वः वदिष्यामि। अद्य अहं भवतः मम नूतनवर्षस्य शुभेच्छा पाठयामि।

२००६-१०-२३ सोमवासरः (2006-10-23 Monday)

नूतनवर्षः (New Year)

दीपोत्सवस्य आगामी दिवसे गुर्जरप्रदेशे नूतनवर्षः आरम्भते। अद्य प्रातः मम धर्मपत्नी प्रातः उत्थाय शाटीका (saree) अधारयत्। तदा सा सुस्वादुं भोजनम् अपि पक्तुम् आरब्धवान्। अहं यदा अजागरम् तदा ताम् अकथयत् अस्मिन् वर्षे नूतनवर्षः दीपोत्सवस्य आगामी दिवसे नास्ति। अद्य भंगः अस्ति श्वः नूतनवर्षः अस्ति। सा अकथयत् अधुना किं करोमि वयम् अद्य एव नूतनवर्षः पालयामः इति।

२००६-१०-२२ रविवासरः (2006-10-22 Sunday)