सक्तः (Attached)

सक्तः – पुंलिङ्गः प्रथमाविभक्तिः एकवचनम्
सञ्ज् [षञ्जँ सङ्गे] भ्वादि: परस्मैपदी अनिट् सकर्मकः षोपदेशः नोपदेशः अदित्
सञ्ज् (उपदेशेऽजनुनासिक इत् (१.३.२), तस्य लोपः (१.३.९), धात्वादेः षः सः (६.१.६४))
सज् (अनिदितां हल उपधायाः क्ङिति (६.४.२४))
सज् क्त (उपदेशेऽजनुनासिक इत् (१.३.२), तस्य लोपः (१.३.९), क्तक्तवतू निष्ठा (१.१.२६), निष्ठा (३.२.१०२), कर्तरि कृत् (३.४.६७), लः कर्मणि च भावे चाकर्मकेभ्यः (३.४.६९), तयोरेव कृत्यक्तखलर्थाः (३.४.७०))
सज् त (लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९))
सक्त (चोः कुः (८.२.३०), खरि च (८.४.५५))
सक्त सुँ (कृत्तद्धितसमासाश्च (१.२.४६), स्वौजसमौट्छष्टाभ्यांभिस्ङेभ्याम्भ्यस्ङसिभ्यांभ्यस्ङसोसाम्ङ्योस्सुप् (४.१.२))
सक्त स् (उपदेशेऽजनुनासिक इत् (१.३.२), तस्य लोपः (१.३.९))
सक्तः (ससजुषो रुः (८.२.६६), खरवसानयोर्विसर्जनीयः (८.३.१५))

२०१९-०७-३१ बुधवासरः (2019-07-31 Wednesday)

Advertisements

भिन्नरुचिर्हि लोकः (People have different tastes)

सोऽपि तानि भक्षयित्वा तेन सह चिरं गोष्ठीसुखमनुभूय भूयोऽपि स्वभवनमगात्। पञ्चतन्त्रे लब्धप्रणाशम् इति चतुर्थतन्त्रे प्रथमा वार्ता।
अस्य मुक्तकस्य भाषा अद्वितीया भावः अद्वितीयश्च। गोष्ठीसुखमनुभूय इति गोष्ठीसुखस्य लालसां सर्वेषु जागरयति। मम सौभाग्यमस्ति अहं मम मित्रैः सह गोष्ठीसुखमनुभवितुं शक्नोमि। एकस्मिन् गोष्ठ्यामाचार्येण भिन्नरुचिर्हि लोकः इति उद्धृतम्।
अथाङ्गराजादवतार्य चक्षुर्याहीति जन्यामवदत्कुमारी।
नासौ न काम्यो न च वेद सम्यग्द्रष्टुं न सा भिन्नरुचिर्हि लोकः॥६-३० रघुवंशम्॥
अन्वयः – अथ अङ्गराजात् चक्षुः अवतार्य कुमारी याहि इति जन्याम् अवदत्। न असौ न काम्यः न सा न सम्यग् द्रष्टुं वेद भिन्नरुचिः हि लोकः।
Having lowered her eyes from King Angaraj she asked her mother’s friend to move. It is not that she doesn’t find him desirable or that she doesn’t know how to observe; people have different taste.

२०१९-०७-३० मङ्गलवासरः (2019-07-30 Tuesday)

कान्तिः हिमांशोरिव (Splendour like the moon)

यस्यात्मगेहे नयनाभिरामा कान्तिर्हिमांशोरिव संनिविष्टा।
हर्म्याग्रसंरूढतृणाङ्कुरेषु तेजोऽविषह्यम् रिपुमन्दिरेषु॥६-४७ रघुवंशम्॥
In whose house (the house of king Sushena) there was a lustre pleasing to the eyes like that of the moon. (But) His unbearable (sun-like) heat caused grass shoots to grow on the rooftop of the palaces in the city of his enemies.
अपि इव इत्यस्य संयोगे षष्ठी विभक्तिः भवति? हिमांशोः इति षष्ठिविभक्तौ अस्ति।

२०१९-०७-२९ सोमवासरः (2019-07-29 Monday)

कृदन्तप्रकरणम् (Kridant Discussion)

व्योमसंस्कृतपाठशालायां नीलेशवर्यः वैयाकरणसिद्धान्तकौमुदी – कृदन्तप्रकरणम् इति पाठ्यक्रमं अध्यापयति। पूर्वं व्योमसंकृतपाठशालया सौम्यामहाभागया पाठितः तिङन्तप्रक्रिया इति पाठ्यक्रमः मया अधीतः।
कथं नीलेशवर्यः सौम्यामहाभागा च पाठयतः तदनुभवितव्यम्। तयोः अध्यापनस्य गुणस्तरः उच्चत्तमः अस्ति। यथा तौ अध्यापयतः यथा तौ पाठ्यसामग्रीं कल्पयतः तत् मत्कृते एकः अमोघः पाठः अस्ति।
यदि भवन्तः किमपि अध्यापयितुमिच्छन्ति तर्हि यथा तौ पाठयतः तथा प्रयतितव्यम्।

२०१९-०७-२८ रविवासरः (2019-07-28 Sunday)

हल् लुप्यते (The consonant disappears)

हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्॥६.१.६८॥
लोपो व्योर्वलि॥६.१.६६॥ इत्यस्मात् सूत्रात् लोपः इत्यस्य अनुवृत्तिः भवति तस्मात् सम्पूर्णसूत्रमस्ति –
दीर्घात् हल्-ङी-आब्भ्यः सु-ति-सि-अपृक्तम् हल् लोपः।
बाला कुमारी ज्योतिः अहन् मनः वारि नाम धनुः।
अत्र लोपः इति वस्तुतः लुप्यते इति पठितव्यम्। अन्येषु सूत्रेषु यस्य लोपः भवति तत् षष्ठीविभक्तौ अस्ति किन्तु न अत्र तस्मात् हल् लुप्यते इति। यत् हल् सुतिसेः अस्ति तस्य लोपः भवति। सुतिस्यपृक्तम् इति षष्ठीतत्पुरुषसमासः सुतिसेः अपृक्तम्।
अन्यं सूत्रमस्ति संयोगान्तस्य लोपः॥८.२.२३॥ तस्मात् हलन्तशब्देषु हलात् सुँ इत्यनेन स् इत्यस्य लोपः भवितुं शक्यते किन्तु अनेन सूत्रेण राजा इत्यादीनि रूपाणि न भविष्यन्ति तस्मात्॥६.१.६८॥ इत्यस्मिन् सूत्रे हल् इत्यपि अस्ति।

संयोगान्तस्य लोपे हि नलोपादिर्न सिध्यति।
रात्तु तेर्नैव लोपः स्याद् हलस्तस्माद्विधीयते॥काशिका॥

२०१९-०७-२७ शनिवासरः (2019-07-27 Saturday)

सः तरति तस्मात् तेन तीर्णम् (He swims so he crossed)

सः सुष्ठु तरति तस्मात् तेन अनायासेन नदी तीर्णा।
तॄ शप् तिप् तरति। यथा ॠत इद्धातोः (७.१.१००) इत्यनेन सूत्रेण तीर्णः इति क्तप्रत्ययरूपं प्रभवति तस्मातत्रापि तॄ इत्यस्य तिर् इति भवितुम् अर्हति। किन्तु एकं वार्तिकमस्ति इत्वोत्वाभ्यां गुणवृद्धौ विप्रतिषेधेन इत्यस्मात् पिति विकरणेन गुणः भवति तस्मात् तर् अ तिप् तरति भवति।

२०१९-०७-२६ शुक्रवासरः (2019-07-26 Friday)

पूर्तः (Full, Complete)

पॄ क्तः सुँ पूर्तः अत्र उदोष्ठ्यपूर्वस्य (७।१।१०२) इति सूत्रं ॠत इद्धातोः (७।१।१००) इत्यस्य अपवादः अस्ति तस्मात् इत् इत्यस्य स्थाने उत् इति भवति। तत् परं रदाभ्यां निष्ठातो नः पूर्वस्य च दः (८।२।४२) इति सूत्रं बाधित्वा न ध्याख्यापॄमूर्छिमदाम् (८।२।५७) इति सूत्रेण तकारस्य नकारः न भवति तस्मात् पूर्तः इति रूपमस्ति।
पॄ  [पॄ पालनपूरणयोः ] जुहोत्यादि: परस्मैपदी सेट् सकर्मकः

पूर् णि क्तः सुँ पूर्णः।  वा दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः (७।२।२७) इत्यनयोः पूर्णः इति रूपं भवति। अपरञ्च मन्ये दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः (७।२।२७) इति सूत्रं न सम्यग् बोधामि यतो हि अस्य सूत्रस्य व्याख्यानेषु निपातने इति अस्ति। न जाने व्याकरणे निपातनम् इति किमस्ति। कृपया अवबोधयन्तु।

२०१९-०७-२५ गुरुवासरः (2019-07-25 Thursday)