अहम् (I)

वयं भोजनं खादामः। सः अस्मान् पश्यति। त्वम् अस्माभिः सह आगच्छ। अस्मभ्यं धनं न उद्गमति। ते अस्माकं गृहम् आगच्छन्ति। अस्मासु कोऽपि दोषी नास्ति।

२००८-०८-३१ रविवासरः (2008-08-31 Sunday)

तुषारः (Ice)

तुषारं मा द्रावय। पयोहिमं तापेन द्रवीभूतं भवति। तुषारः तापेन द्रुतं भविष्यति। हिमं तापेन गलितं भवति।

२००८-०८-३० शनिवासरः (2008-08-30 Saturday)

निरामयम् (Well being)

वाल्मिकीरामायणे ब्रह्मादेवस्य वाल्मिकीवर्येण सह मिलनस्य वर्णनमस्ति। तस्मिन् वर्णने अस्ति पृष्ट्वा तं निरामयम् इति। कतिवारं अहं विचारं करोमि नूतनाः अभिवादनाः कथं संस्कृतभाषायां कथितव्यम्। किन्तु यदा रामायणे मया पृष्ट्वा तं निरामयम् इति पठितं तदा ज्ञातं यत् वयं नूतनं मन्यामहे तत् पुरातनम् एव अस्ति।

२००८-०८-२९ शुक्रवासरः (2008-08-29 Friday)

स्वामीचिदानन्दः दिवं गतः (Swami Chidanandaji leaves the material world)

अद्य रात्रौ सार्ध-अष्टवादने देहरादूननगरे श्रीचिदानन्दमहाराजः पार्थिवशरीरं त्यक्त्वा दिवं गतः। तस्य पार्थिवशरीरं आगामीदिवसस्य सुर्योदयकाले ऋषिकेशनगरे गङ्गायां प्रवाहितम्। तेन निर्दिष्टवान् यदा सः स्वशरीरं त्यक्ष्यति तदा त्रीहोरायां अन्तरे शरीरं न्यूनातिन्यूनं कर्मकाण्डेन जलसमाधीं दातव्यम्। केवलं त्रिवारं प्रणवः एकवारं महामृत्युञ्जयमन्त्रः व्याहृतव्यः। मया तस्य दर्शनं अप्रेलमासे १९९९तमे वर्षे केन्बरानगरे कृतम्। सः अत्र अस्माकं मन्दिरस्य प्राणप्रतिष्ठाक्रिया कृतवान्। सः महान् योगी आसीत्।

२००८-०८-२८ गुरुवासरः (2008-08-28 Thursday)

करः, अङ्गुष्ठः, अङ्गुलिः (hand, thumb, finger)

करे एकः अङ्गुष्ठः अस्ति चतस्त्रः अङ्गुलयः सन्ति।

२००८-०८-२७ बुधवासरः (2008-08-27 Wednesday)

प्रावरणम् (Binding or cover)

विद्यार्थिनः सत्रस्य प्रारंभे स्वसंचिकासु प्रावरणं योजयन्ति। इदानींतनं विविधानि प्रकाराणि प्रावरणानि क्रेतुं शक्यते। आवयोः कनीयसी कन्या प्रत्येकसंचिकां भिन्नेन प्रावरणेन प्रसाधयति। तस्याः प्रावरणानि काशन्ते।

२००८-०८-२६ मङ्गलवासरः (2008-08-26 Tuesday)

संचिका (Notebook)

अहं संचिकायां सुलेखः लिखामि। सः संचिकायां कलमेन लिखति। संचिका पत्रैः भवति। अद्यतनं संचिका सङ्गणित्रे अस्ति न तु पत्रेषु।

२००८-०८-२५ सोमवासरः (2008-08-25 Monday)

दक्षिणपंथी (Right wing)

अद्य आवयोः ज्यायसी कन्या शुचिता केषां छात्राणां विषये अचर्चयत्। अहं अकथयं ते सर्वे आतन्कवादिनः सन्ति इति। इति कथित्वा अहम् एकस्मिन् कक्षे प्राणायामं कर्तुं उपाविशम्। सा तत् ना जानाति स्म सा अमन्यत् अहं नीचैः अगच्छम् इति। किञ्चित् कालपरं सा तस्याः कनीयसी भगिनीम् अवदत् – अपि त्वया श्रुतम् आवयोः पिता कीदृशः दक्षिणपंथी अस्ति?

२००८-०८-२४ रविवासरः (2008-08-24 Sunday)

दीर्घधावनस्पर्धा दृष्टा (Saw long distance races)

गतद्वाभ्यां सप्ताहाभ्याम् ओलम्पिकस्पर्धा बेजीङ्गनगरे भवति। तस्यां स्पर्धायां मया कापि रुचिकरा स्पर्धा न दृष्टा। किन्तु अद्य मय दीर्घधावनस्पर्धा दृष्टा। तासु स्पर्धासु केनीयादेशस्य ईथोपियादेशस्य च धावितारः अग्रे आसन्। तेषां विजयं दृष्ट्वा अहम् अतीव प्रसन्नः अभवम्।

२००८-०८-२३ शनिवासरः (2008-08-23 Saturday)