सोऽनृणी भवेत् (He be debt free)

एकमप्यक्षरं यस्तु गुरुः शिष्यं प्रबोधयेत्।
संसारे नास्ति तद् द्रव्यं यद् दत्त्वा सोऽनृणी भवेत्॥अत्रिसंशिता १.९॥

२०२१-०६-३० बुधवासरः (2021-06-30 Wednesday)

पुरातनं चित्रम् (An old picture)

एकं मित्रमद्य इदं चित्रमप्रेषयत्। अस्मिन् चित्रे प्राप्ते विश्वसिमि एकं मित्रमभिज्ञातुं शक्नोमि किन्तु सोऽपि प्रमादैवासीत्। मन्ये इदं चित्रं १९८४-८५इत्यस्मात् कालादस्ति यदाहं न्यूकासलनगरे पठामि।

Newcastle NSW Australia – 1984-85

२०२१-०६-२९ मङ्गलवासरः (2021-06-29 Tuesday)

न नीलेशः प्राप्यते (Cannot find Neelesh)

येन रचितानि विविधजालपत्राणि नवञ्च शब्दान्वेषणम्।
यथा व्याप्तस्सर्वत्र न दृश्यते ईश्वरस्तथा कोशे न नीलेशः॥

२०२१-०६-२८ सोमवासरः (2021-06-28 Monday)

अन्ये पञ्च ग्रामाः ( 5 other villages)

इन्द्रप्रस्थं वृकप्रस्थं जयन्तं वारणावतम् ।
प्रयच्छ मे चतुरो ग्रामान् कञ्चिदेकं च पञ्चमम् ।। १.१६ ।।

Give us these four villages – Indraprastha, Vrkaprastha, Jayanta and Varanavata – and any other as the fifth.

इति युधिष्ठिरेण दुर्योधनस्य वेणीसंहारनाटके सन्दिष्टम् । गङ्गालीनिति श्रुत्वा इमं श्लोकमस्मरमहम् ।।

२०२१-०६-२७ रविवासरः (2021-06-27 Sunday)

भग्नः (Broken)

भन्जोँ आमर्दने + क्त + सुँ = भग्नः।

२०२१-०६-२७ रविवासरः (2021-06-27 Sunday)

अपि अस्त्यनुत्तरितः प्रश्नः? (Is there an unanswered question?)

अद्याहमेकं प्रश्नं पिपृच्छिषामि चिन्तयामि च न जाने कथं पृच्छेयम् यस्मात् अन्तर्जाले उत्तरं प्राप्स्यामि इति। किन्तु Sort files by date modified, but folders always before files in Windows 10 इति प्रश्ने पृष्टे उत्तरमागतम्। पश्यतु।

२०२१-०६-२६ शनिवासरः (2021-06-26 Saturday)

पित्रोरेव ताडनस्य अधिकारः (Parents’ is the right to punish)


जनाः देशे आपात्कालशासनस्य निन्दां कुर्वन्ति। अहं पृच्छामि। केन प्रजातन्त्रम् आविष्कृतम्? कस्त्वां मताधिकारं दत्तवान्? केन किं धर्मम् इति शिक्षितम्? कोऽस्माकं जनकोऽस्ति? सोऽस्ति जवाहरलालस्य वंशः। जनकः ताडनस्य अधिकारम् अर्हति। तस्मादापात्कालः आपात्कालः इति चीत्कारं मा कार्षीः। अयं त्वस्माकं जनकस्य आशीर्वाद एव।

Our million blessings

२०२१-०६-२५ शुक्रवासरः (2021-06-25 Friday)

गङ्गालिनग्रामः (Gungahlin Township)

केन्बरा नगरे पञ्च ग्रामाः सन्ति – टगरानोङ्गः, वोडनः, सिविकः, बेलकोननः, गङ्गालिनश्च। तेषु गङ्गालिनग्रामे वयं निवसामः। तस्य ग्रामस्य विषये अद्य जालपत्रे एकः लेखोऽस्ति। रुचिकरमस्ति। पठतु
https://www.abc.net.au/news/2021-06-24/gungahlin-looks-different-to-other-canberra-town-centres/100235902

२०२१-०६-२४ गुरुवासरः (2021-06-24 Thursday)

चतुरब्जं डोलरमितम् अपचयम् (Four Billion Dollar fall)

गतसप्ताहे सामाचारा आसन् रोनाल्डोमहाभागस्य व्यवहारेण कोकोकोलासमवायस्य अंशमूल्ये चतुरब्जं डोलरमितम् अपचयम् अभवत्। अहं तत् न अमन्ये। पश्यतु किं सत्यमस्ति

२०२१-०६-२३ बुधवासरः (2021-06-23 Wednesday)

वैरं पञ्चसमुत्थानम् (Enmity arises due to five reasons)

मन्ये एतेषु पञ्चसु कारणेषु एकमेव कारणमस्ति येन मया वैरस्य उत्थानं न कृतम्।

२०२१-०६-२२ मङ्गलवासरः (2021-06-22 Tuesday)