कारकप्रकरणम् – तृतीया विभक्तिः पृष्ठम् १५८ (Kaaraka – Instrumental case p 158)

कारकप्रकरणम् (तृतीया विभक्तिः – द्वितीयः भागः) – अष्टापञ्चाशदधिकशततमं पृष्ठम् (१५८)
बृहदनुवादचन्द्रिका – चक्रधर नौटियाल हंस शास्त्री
६. मनोरथों से कार्य सिद्ध नहीं होते हैं — न सिध्यन्ति कार्याणि मनोरथैः।
७. पुत्र के बिना माता दुःख से समय बिताति है — पुत्रं (पुत्रेण, पुत्रात्) विना माता दुःखेन कालं यापयति।
८. वह साबुन से मुँह धोता है — सः फेनिलेन मुखं प्रक्षालयति।
९. विद्यार्थी दोस्तों के साथ गेंद खेलते हैं — छात्राः मित्रैः सह कन्दुकं खेलन्ति।
१०. वीरेन्द्र ने तलवार से चीते को मारा — वीरेन्द्रः खङ्गेन द्वीपिनम् अहन्।
११. जटा से वह तपस्वी प्रतीत होता है — जटाभिः सः तापसः प्रतीयते।
१२. राष्ट्रपति के साथ सेनापति यहाँ आया — राष्ट्रपतिना सह सेनापतिः अत्र आगच्छत्।
१३. यात्रियों ने साधुओं के साथ स्नान किया — यात्रिकाः साधुभिः सह अस्नान्।

२०२०-०२-२९ शनिवासरः (2020-02-29 Saturday)

स्नेहस्तैलमुदाहृतम् (Affection is called oil)

तिलादिस्निग्धवस्तूनां स्नेहस्तैलमुदाहृतम्। तैलस्नेहौ सम्पृक्तौ। स्नेहः कः? दर्शने स्पर्शने वापि श्रवणे भाषणेऽपि वा यत्र द्रवति अन्तरङ्गं स स्नेह इति कथ्यते। स्नेहः लीनः श्लेषः इति शब्दाः तैलत्वमित्यपि सूच्यन्ते।
यत् द्रवति श्लेषयति लीयते स्नेहयति लगति सज्जति इति तत् तैलम्।

२०२०-०२-२८ शुक्रवासरः (2020-02-28 Friday)

डेव-एलनवर्यः (Dave Allen)

मम छात्रकाले वयं डेव-एलनवर्यस्य दूरदर्शने प्रसारितं हास्यमयं रूपकं पश्यामः स्म। अद्य एकेन मित्रेण डेव-एलनवर्यस्य एकस्य रूपकस्य चलचित्रं प्रेषितं येन मम स्मृतिरजागः। इदमस्ति एकमन्यं डेव-एलनवर्यस्य रूपकस्य चलचित्रम्। आनन्दयन्तु।

२०२०-०२-२७ गुरुवासरः (2020-02-27 Thursday)

आस्फालनम् (Flapping)

स्फलँ सञ्चलने इति धातोः आस्फालनम् इति शब्दः निष्पद्यते।
स्फलँ सञ्चलने तुदादिः परस्मैपदी सकर्मकः सेट् कुटादिः।

संस्कृतभाषामज्ञातं प्रतीयते हस्ती यथा कर्णौ चालयति तस्मै कः शब्दः इति किन्तु पश्यतु कथं सारल्येन स्फल् धातोः हस्तिनः तस्यै क्रियायै कथमास्फालनं निष्पद्यते इति।

अनवरतधनुर्ज्यास्फालनक्रूरपूर्वं
रविकिरणसहिष्णु खेदलेशैरभिन्नम् ।
उपचितमपि गात्रं व्यापतत्वादलक्ष्यं
गिरिजर इव नागः प्राणसारं बिभर्ति॥अभिज्ञानशाकुन्तलम् २.४॥

२०२०-०२-२६ बुधवासरः (2020-02-26 Wednesday)

जयतु चारुदेवः (Victory to Charudev Shastri)

षष्ठी शेषे (२।३।५०) – शेष अर्थात् कर्मादि से भिन्न प्रातिपदिकार्थव्यतिरिक्त स्व-स्वामि-सम्बन्ध आदि की विवक्षा में (विशेषण से) षष्ठी होती है। इसे शैषिकी षष्ठी कहते हैं। राज्ञः पुरुषः। वृक्षस्य शाखा। सुवर्णस्य कङ्कणम्। हिरण्यस्य कुण्डलम्। अश्वस्य घासः। वासस्य भवनम्। वसन्तु मे भगवन्त (सामीप्य-सम्बन्ध)।
कारकत्व की अविवक्षा में भी षष्ठी होती है – कच्चिद् भर्तुः स्मरसि सुभगे त्वं हि तस्य प्रियेति। क्या तू हे सुन्दरी, भार्ता का स्मरण करती है, तू उसकी प्यारी है न। यहाँ भर्तृ-सम्बन्धी स्मरण ऐसा कहने की इच्छा है, भर्तृ-कर्मक समरण ऐसा कहने की इच्छा नही।
द्वितीया – दयस्वेमं कृपणं जनम्। दय् से दान, गति, रक्षण, (=दया करना), हिंसा, और आदान (लेना) ये पांच अर्थ हैं॥
व्याकरणचन्द्रोदय – प्रथम खण्ड (कारक और समास), चारुदेव शास्त्री, मोतीलाल बनारसीदास, १९६९।

२०२०-०२-२५ मङ्गलवासरः (2020-02-25 Tuesday)

त्रीणि सोपानानि (Three Steps)

शिक्षणसोपानानि श्रवणं पठनं लेखनम्।
क्रमेण कृत्वा सुखं दुःखमक्रमेणेति दासः॥

२०२०-०२-२४ सोमवासरः (2020-02-24 Monday)

यत्र दोषत्रयम् (Where all three faults there)

अज्ञानमवधानमनभ्यासः च दोषत्रयम्।
एकोऽपि विनाशाय किं पुनः यत्र दोषत्रयम्॥

२०२०-०२-२३ रविवासरः (2020-02-23 Sunday)

दोषत्रयम् (Three faults)

सम्भाषणे दोषत्रयमिति वक्ति सदानन्दः।
अज्ञानमनवधानमनभ्यासः तत् क्रमेण॥

२०२०-०२-२२ शनिवासरः (2020-02-22 Saturday)

सदानन्दमहाभागाः (Dr Sadananda Das)

सम्भाषणसंस्कृतशिक्षणस्य शिरोमणिः सदानन्ददासमहाभागः बुधवासरे अस्माकं संस्कृतशिक्षणवर्गे आगच्छत्। तस्य उपस्थानेन वयमनुगृहिताः स्मः। तस्य परिचय एक एवास्ति नास्ति किमपि कथनीयं यत् सः सहजेन सारल्येन रोचकतया संस्कृतभाषायां न कथयितुं शक्नोति इति। तस्य औपचारिकः परिचयोऽस्तिhttps://www.gko.uni-leipzig.de/indologie-zaw/institut/mitarbeiter/dr-sadananda-das.html

WhatsApp Image 2020-02-20 at 8.08.53 AM
Dr Sadananda Das (centre front) with the HTCC Sanskrit Class on Wed 19 February 2020

२०२०-०२-२१ शुक्रवासरः (2020-02-21 Friday)

तेषां सततयुक्तानाम् (Of those who are always united)

तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम्।
ददामि बुद्धियोगं तं येन मामुपयन्ति ते॥श्रीमद्भगवद्गीता १०.१०॥
कथं तेषां सततयुक्तानां भजतां इत्यत्र षष्ठी विभक्तिरस्ति?
मम मतेनानुवादः अस्ति –
I give the buddhiyoga of those who are always united and worshipping (me) with love (and) with which they come to me.
प्रायः To them who are ever devoted and worship Me with love, I grant that possession of wisdom by which they reach Me. इत्यनुवादः दृश्यते। कथं चतुर्थ्यर्थे षष्ठी प्रयुक्तास्ति (चतुर्थी सम्प्रदाने (२.३.१३))?

२०२०-०२-२० गुरुवासरः (2020-02-20 Thursday)