पण्डितदीनदयालविश्वविद्यालयम् (Pundit Deenadayal Upadhyaya University)

अद्य अहं पण्डितदीनदयालविश्वविद्यालयम् अगच्छम्। तत्र मम शोधविषये प्रस्तुतिकरणम् अकरवम् तत्रस्थैः शोधकैः सह शोधकार्याय चर्चां च अकरवम्। पूर्णदिवसः लाभकरः आसीत्।

२०१०-०६-३० बुधवासरः (2010-06-30 Wednesday)

अंबामाता (Amba Mata)

अद्य अहं अंबामातामिन्दिरम् अगच्छम्। मया सह मम भ्राता भ्रातृजाया माता च आगच्छन्। मन्दिरे आनदपूर्वकं दर्शनं प्राप्य वयं पुनः कर्णावतीनगरं प्रत्यागच्छाम।

२०१०-०६-२९ मङ्गलवासरः (2010-06-29 Tuesday)

कर्णावतीनगरम् (Ahembdabad)

अद्य प्रातः सार्धत्रिवादने अहं कर्णावतीनगरं प्राप्तवान्। तत्र मम भ्राता भ्रातृसुता च विमानपत्तने मां नयितुम् आगच्छताम्। अत्र यादृशः तापः अस्ति अहं मन्ये अहम् आपाके एव अस्मि। जूनमासस्य अन्तः अस्ति किन्तु वर्षा न दृश्यते।

२०१०-०६-२८ सोमवासरः (2010-06-28 Monday)

भारतं प्रति (Towards India)

अद्य सायंकाले कुवैतदेशतः निर्गम्य भारतं प्रति प्रस्थानम् अकरवम्। प्रथमं तु डुबईविमानपत्तनं प्राप्तं तत् परं कर्णावतीनगरम्। डुबईविमानपत्तने पादकन्दुकस्य विश्वचषक-स्पर्धाम् अपश्यम्। तस्मिन् स्पर्धायां जर्मनदेशेन आङ्ग्लदेशः पराजितः।

२०१०-०६-२७ रविवासरः (2010-06-27 Sunday)

मरुभूमी (Desert)

अद्य प्रातःकाले अहं विनयवर्येण सह याने कुवैतदेशस्य सीमापर्यन्तम् अगच्छम्। तत्र किमपि नास्ति मरुभूमी एव अस्ति। अस्मात् मरुभूम्याः ते वैभवम् अरचयन्। वैभवं तु अस्ति किन्तु तस्य रचनाकाराः कुवैतदिशीयाः ना सन्ति किन्तु भारतीयाः सन्ति।  कथं भारतीयाः स्वदेशे वैभवं रचयितुं न शक्नुवन्ति किन्तु कुवैतदेशे रचयितुं शक्नुवन्ति।

२०१०-०६-२६ शनिवासरः (2010-06-26 Saturday)

कुवैतनगरम् (Kuwait City)

ह्यः सायंकाले अहं कुवैतनगरं प्राप्तवान्। अत्र मम मित्रं विनयवर्यः निवसति। अत्र शुक्रवासरः अवकाशदिवसः रविवासरः कार्यदिवसः च। प्रातःकाले वयं तरणाय अगच्छाम रात्रौ भोजनाय उपहारगृहे अगच्छाम च।

२०१०-०६-२५ शुक्रवासरः (2010-06-25 Friday)

पैतृष्वस्रीयः जितेन्द्रभ्राता (Cousin Jitubhai)

अस्माकं पैतृष्वस्रीयः जितेन्द्रभ्राता गत चत्वारिंशत्वर्षात् डुबईनगरे निवसति। तस्य गृहं मम भाटनिवासात् एकनिमिषामितदूरीम् आसीत्। अहं तं प्रतिदिवसे अमिलम् तस्य गृहे भोजनम् अपि अखादम्।

२०१०-०६-२४ गुरुवासरः (2010-06-24 Thursday)

ज्योतिवर्यः (Jyoti)

ह्यः सायंकाले मम मित्रं ज्योतिवर्यः मां मिलनाय डुबईनगरे मम भाटनिवासम् आगच्छत्। सः मम विद्यालयकालप्रभृति मित्रम् अस्ति। तं मिलित्वा अहम् अतीवप्रसन्नः अभवम्। सः मुम्बईनगरे निवसति किन्तु व्यापाराय अत्र आगाच्छत्।

२०१०-०६-२३ बुधवासरः (2010-06-23 Wednesday)

द्वितीयः दिवसः (Second Day)

अद्य परिषदः द्वितीयः दिवसः अस्ति। अद्य मम किमपि प्रस्तुतिकरणम् नासीत्। तस्मात् अपराह्णे भ्रमणाय अगच्छम्। बुर्ज इति विश्वस्य उच्चतमस्य भवनस्य उपरि अगच्छम्।

२०१०-०६-२२ मङ्गलवासरः (2010-06-22 Tuesday)

परिषद् (Conference)

अद्य परिषदः प्रथमः दिवसः आसीत्। अद्य अपराह्णे मम प्रस्तुतिकरणम् आसीत्। प्रस्तुतिकरणं समीचीनम् आसीत्। मम भाटनिवासात् परिषदः भाटनिवासतः अहं सर्वयानेन अगच्छम्। डुबईनगरस्य सर्वयानव्यवहारः उत्तमः अस्ति। कापि बाधा विना अहं सर्वयानेन यात्राम् अकरवम्।

२०१०-०६-२१ सोमवासरः (2010-06-21 Monday)