अद्य राजीवस्य स्वसा अस्मान् आपणं सिडनीक्षयणसेतुं च भ्रमणाय अनयत्। रात्रौ अहं मम मित्रेण राजीवेन सह विलीयमवर्यस्य गृहम् अगच्छम्। राजीवस्य स्वसा अतिथिभ्यां सह भ्रमणाय अगच्छत् च।
२००९-०६-१३ शनिवासरः (2009-06-13 Saturday)

राजीवः नाम मम अन्यम् मित्रमपि भारते वसति। अद्य प्रातः सपाद-पञ्चवादने तस्य भार्या आरतीवर्या कन्या वेणुवर्या च भारतात् औस्ट्रेलियादेशं भ्रमणाय आगच्छताम्। ते नेतुम् अहं विमानस्थले गतवान्। विमानस्थलात् ते मया राजीवस्य भगिन्याः गृहं नीते। ते द्वादशवादनपर्यन्तं सुप्तवत्यौ ततः परं सिडनीक्षयणं (Sydney Harbour) गतवन्तः। रात्रौ अष्टवादने प्रत्यागच्छाम।
२००९-०६-१२ शुक्रवासरः (2009-06-12 Friday)
अहम् अद्य प्रातःकाले चतुर्वादने अजागरम्। पञ्चवादने सिडनीं प्रति प्रस्थितवान्। सार्ध-अष्टवादने विश्वविद्यालयं प्राप्तवान्। नववादनात् सार्धद्वादशवादनपर्यन्तं कार्यगोष्ठी आसीत्। तत् परं जयन्तवर्येण सह किञ्चित् कार्यं कृतवान्। ततः राजीवस्य कार्यालयं गतवान्। रात्रौ राजीवस्य पितरौ गृहे भोजनाय अगच्छम्। अन्ते राजीवस्य गृहे स्वपितुम् अगच्छम्।
२००९-०६-११ गुरुवासरः (2009-06-11 Thursday)
अद्य मम भार्यायाः मितायाःजन्मदिवसः अस्ति। प्रातःकाले तस्याः माता दूरभाषेण अभिनन्दं दत्तवाती। सायंकाले मम माता भारतदेशात् दूरभषया सम्पर्कम् अकरोत्। तदा सा गृहे नासीत्। यदा सा गृहं प्रत्यागच्छत् तदा मम मात्रा सह दूरभाषेण वार्तालापम् अकरोत्।
२००९-०६-१० बुधवासरः (2009-06-10 Wednesday)
अद्य शीत-ऋतवः प्रथमः शीतलः दिवसः अस्ति। सायंकाले अहं हिन्दीभाषां अशिक्षम्। पाठः द्विहोरात्मकः अस्ति। द्वयोः होरयोः (In two hours) अहं हिमः इव अभवम्। पाठाभ्यन्तरे अहं चलामि स्म तस्मात् किञ्चित् उष्णतां प्राप्नोमि स्म किन्तु छात्राः कियान्तः शीतग्रस्ताः आसन् तस्य कल्पनाम् एव करोमि।
२००९-०६-०९ मङ्गलवासरः (2009-06-09 Tuesday)
२००९-०६-०८ सोमवासरः (2009-06-08 Monday)
अद्य अस्मिन् देशे आङ्ग्लराज्ञ्याः (English Queen’s) जन्मदिवसाय अवकाशः आसीत्। अद्य मया अनेकानि कार्याणि कृतानि। प्रातःकाले मम एकस्य छात्रस्य शोधग्रन्थः पठितः। तत् परं मन्दिरस्य किञ्चित् कार्यम् आसीत् तत् कृतम्। सायंकाले मन्दिरस्य आगामिसमीतिरचनायै एकस्य मित्र गृहं गत्वा मेलने अभवम्। तत् परं अस्माकं गृहे एन्ड्रीयावर्यया सह हिन्दीभाषया वर्तालापं कृतम्। तत् परं मम एकस्यै मित्राय एकं सूचनापत्रं (recommendation letter) लिखितम्। अन्ते इदं वृत्तपत्रं लिखामि लिखित्वा स्वप्स्यामि।

अद्य अहं स्वामीश्रीधरानन्दस्य गीताप्रवचनं श्रोतुम् अगच्छम्। सः पञ्चमस्य अध्यायस्य द्वादशस्य श्लोकस्य व्याख्याम् अकरोत्। पञ्चमोऽध्यायः संन्यासयोगः इति अस्ति। स्वामीश्रीधरानन्दः अकथयत् संन्यासः इति सम्यग् न्यासः। इयम् अतिसुन्दरव्याख्या अस्ति। पुरा सः पुरुषः इति शब्दस्य व्याख्याम् अकरोत्। पुरुषः इति यः उषः (light) पुरस्य अन्तः वसति। पुरम् इति अस्माकं शरीरम्। शरिरस्य अन्तः एकः उषः अस्ति इति सर्वदा ध्यातव्यम्।
२००९-०६-०७ रविवासरः (2009-06-07 Sunday)
संस्कृतभाषायां काश्चित् शब्दाः बहुवचने सन्ति यद्यपि ते एकवचनार्थाः। उदाहरणार्थाय – दाराः, अप्, वर्षा, सिकता, अक्षता, असु, प्राण इत्यादयः।
मम दाराः सुशीला अस्ति। मम प्राणाः यदा निष्काष्यति तदा कृष्णस्मरणं भवेत्।
The Student’s Guide to Sanskrit Composition, VS Apte, Article 6, p. 3.
२००९-०६-०६ शनिवासरः (2009-06-06 Saturday)