Recent Updates Page 2 Toggle Comment Threads | Keyboard Shortcuts

  • Srinivasa 3:18 pm on February 5, 2017 Permalink | Reply  

    रमुँ क्रीडायाम् (to delight, to satisfy) 

    पोटामहोदयः कथयति – र॒मुँ॒ क्रीडायाम् इति भ्वादिगणीयः आत्मनेपदी अनिट् धातुः अस्ति किन्तु विरम् इति सोपसर्गीयः धातुः परस्मैपदी अस्ति। रम् इति धातोः परस्मैपदरूपमपि क्वचित् दृश्यते । पश्यतु –

    मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् ।
    कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ॥ गीता १०.९ ॥

    भगवान् रामानुजः गीताभाष्ये ‘तुष्यन्ति च रमन्ति च’ इत्यस्य व्याख्यायां ‘वक्तारस्तद्वचनेनानन्यप्रयोजनेन तुष्यन्ति, श्रोतारश्च तच्छ्रवणेनानवधिकातिशयप्रियेण रमन्ते’ इत्युक्त्वान्। अनेन ‘रमन्ति’ इति आर्षपरस्मैपदमिति श्रीभाष्यकारविवरणेनसूचितमिति रसास्वादाख्यटिप्पणकर्त्रा वीरराघवाचार्येण महादेशिकेनोक्तम् ।

    २०१७-०२-०४ शनिवासरः (2017-02-04 Saturday)

     
  • Himanshu Pota 9:41 am on February 5, 2017 Permalink | Reply  

     
  • Himanshu Pota 10:26 am on February 1, 2017 Permalink | Reply  

    विरमति (Stops) 

    र॒मुँ॒ क्रीडायाम् इति भ्वादिगणीयः आत्मनेपदी अनिट् धातुः अस्ति किन्तु विरम् इति सोपसर्गीयः धातुः परस्मैपदी अस्ति।
    प्रतिपलमखिलान् लोकान्मृत्युमुखं प्रविशतो निरीक्ष्यापि।
    हा हन्त किमिति चित्तं विरमति नाद्यापि विषयेभ्यः॥शान्तविलासः २६ भामिनीविलासः-४६॥
    http://gssmurthy.blogspot.com.au/2013/08/bhaminivilasah-46.html
    https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A4%BE%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%B5%E0%A4%BF%E0%A4%B2%E0%A4%BE%E0%A4%B8%E0%A4%83

    २०१७-०२-०१ बुधवासरः (2017-02-01 Wednesday)

     
    • hnbhat 1:22 pm on February 2, 2017 Permalink | Reply

      ‘व्याङ्परिभ्यो रमः’ १,३.८३

      • Himanshu Pota 2:10 pm on February 2, 2017 Permalink | Reply

        धन्यवादः।

        काशिका
        रमु क्रीडायम्। अनुदात्तेत्त्वदात्मनेपदे प्राप्ते प्रस्मैपदं विधीयते। विआङ् परि इत्येवं पूर्वात् रमतेः परस्मैपदं भवति। विरमति। आरमति। परिरमति। एतेभ्यः इति किम्? अभिरमते।

        http://avg-sanskrit.org/sutras/1-3-83.html

  • Himanshu Pota 9:02 am on January 31, 2017 Permalink | Reply  

    न धातुलोप आर्धधातुके॥१।१।४॥ (Not after dhaatulopa due to aardhadhaatuka) 

    प्रथमे वारे यदा अहम् अष्टाध्यायीं सूत्रक्रमेण पठितुम् आरभे तदा मम यानम् अस्मिन् सूत्रे आगम्य व्यरमत्। अद्य मन्ये अहम् इदं सूत्रम् अवगतम्। इदं सूत्रं कदा गुणवृद्धिः न भवति इति सूचयति।

    अस्य सूत्रस्य बोधनाय छात्रैः कानिचित् वस्तूनि ध्यातव्यानि। प्रथमं तु धातुलोप इति सन्धिपूर्वं धातुलोपे एव अस्ति। द्वितीयं तु धातुलोपे इति सतिसप्तमी अस्ति। तृतीयं लोलुवः इति उदाहरणे यत् लोलू इति अस्ति तस्य धातुसंज्ञा भवति।

    २०१७-०१-३१ मङ्गलवासरः (2017-01-31 Tuesday)

     
    • hnbhat 11:21 am on February 2, 2017 Permalink | Reply

      आरभम्? रभ धातुरातमनैपदी.

      अविरमत्????

      • Himanshu Pota 11:48 am on February 2, 2017 Permalink | Reply

        आरभे इति व्यरमत् इति च शुद्धीकृतम्। धन्यवादः।

      • hnbhat 1:37 pm on February 2, 2017 Permalink | Reply

        गुणवृद्धिः न भवति???

    • hnbhat 1:31 pm on February 2, 2017 Permalink | Reply

      धात्ववयवः धातुः, धातोः लोपः यस्मिन् तदिदं धातुलोपम्, तस्मिन् धातुलोपे, उत्तरपदलोपी-बहुव्रीहिसमासः

      • hnbhat 1:34 pm on February 2, 2017 Permalink | Reply

        तस्य धातुः संज्ञा भवति???

        • Himanshu Pota 2:14 pm on February 2, 2017 Permalink

          लू इति धातुः अस्ति इति वयं जानीमः। किन्तु कथं लोलू इति च धातुः अस्ति। मन्ये एकं सूत्रं अस्ति येन सूत्रेण लोलू अपि धातुः अस्ति। यदि नास्ति तर्हि कथं न धातुलोप आर्धधातुके इति सूत्रस्य प्रसक्तिः भवति।

    • hnbhat 8:33 pm on February 2, 2017 Permalink | Reply

      लोलूय इति लूञ् छेदने इति धातोर्यङन्तं रूपम्, तस्य सनादित्वात् सनाद्यन्ता धातवः इति धातुसंज्ञा। तस्य अच्प्रत्यये य इत्यस्य लोपात् तदार्धधातुकं धातुलोपम्, तस्मिन् धातुुलोपे आर्घधातुके अकारप्रत्यये पूर्वस्य इको न गुणवृद्धी न स्तः इति ऊकारस्य न गुण इति लक्षणसमन्वयः।
      धातुुलोपे इति न सतिसप्तमी अस्ति। आर्धदातुके इति अस्य विशेषणम्।

      • hnbhat 8:45 pm on February 2, 2017 Permalink | Reply

        Not after dhaatulopa due to aardhadhaatuka???

        Not before aardhadhaatuka due to which there is dhaatulopa.
        Or when there is aardhadhaatuka before which there is dhaatulopa.

  • Himanshu Pota 7:52 am on January 30, 2017 Permalink | Reply  

    द्वौ वज्राघातौ (Two Blows) 

    गतशनिवासरस्य (२८जनवरी२०१७तिथौ – https://www.youtube.com/watch?v=2QG3KI3sDVE&feature=youtu.be) वार्तावलीकार्यक्रमे दर्शकेषु द्वौ वज्राघातौ अपततः।

    वयम् एकम् अपि घातं कष्टेन सोढुं शक्नुमः तत्र कथम् द्वौ घातौ। यदि भवद्भिः द्वौ घातौ कर्तव्यौ तर्हि न्यूनातिन्यूनम् एकहोरावधौ कालः दातव्यः।

    यथा ऋचामहाभागा काङ्क्षति रसानुभूतिः न विलुप्येत् इति तथैव वयम् अपि इच्छामहे मङ्गलामाहाभागायाः श्रीचमूकृष्णशास्त्रिवर्येण सह सम्भाषणं कदापि न विरमेत्। यावत् सम्भाषणं शृणोमि तावत् साक्षात् अमृतं वर्षति इति मां भाति।

    ज्योतिमहाभागायाः श्रद्धाञ्जलिः अपि मनोहरा आसीत् किन्तु नूनं द्वितीयः घातः च आसीत्।

    भवन्तः न ज्ञातुं शक्नुवन्ति कथम् आनन्देन मनसि वज्राघातः इव पीडा जायते। रोचका पीडा अस्ति यस्याः चिकित्सा ईदृशया अधिकया पीडया एव भवितुम् अर्हति।

    सर्वेभ्यः आयोजकेभ्यः वयं धन्यवादान् व्याहरामः।

    २०१७-०१-३० सोमवासरः (2017-01-30 Monday)

     
  • Himanshu Pota 8:09 am on January 29, 2017 Permalink | Reply  

    न क्त्वा सेट् (For SeT ktvaa is not kit) 

    मम इष्टतमे पुस्तके (सरलसंस्कृतसरणिः – संस्कृतकार्यालयः, श्रीअरविन्दाश्रमः, पुद्दुचेरी) नवमे पाठे अस्ति नृत् + क्त्वा = नर्तित्वा। किति क्क्ङिति च इति सूत्रे किति गुणः न भवति इति मया ज्ञातम् तस्मात् नर्तित्वा इति पदे कथं उपधायां गुणः भवति इति मम प्रश्नः आसीत्। अयं प्रश्नः यावत् विदुषः प्रष्टुम् उद्युक्तः आसम् तावत् अहं मम आचार्यस्य वचनम् अस्मरम्। सः अकथयत् पृष्ट्वा पूर्वं कथं न चिन्तयति कथं उत्तरं न गवेषयति इति।
    तत् वचनं ध्यात्वा मया किञ्चित् गवेषितम्।
    गवेषणे न क्त्वा सेट्॥१.२.१८॥ इति प्राप्तम्।
    तत् परं शङ्काः जाताः कथं कुपित्वा इति भवति। कुप् इति सेट् धातुः तस्मात् कथं न क्त्वा सेट् इति सूत्रेण कोपित्वा न भवति। किञ्चित् गवेषणं परं मया ज्ञातम् अन्यम् एकं सूत्रम् अस्ति येन विकल्पेन कुपित्वा कोपित्वा वा भावति। सूत्रं अस्ति – रलो व्युपधाद्धलादे सँश्च॥१.२.२६॥
    मम प्रश्नस्य उत्तरं स्वयम् एव प्राप्तं तस्मात् इदानीं तुष्यामि आचार्याय धन्यवादं व्याहरामि च।

    २०१७-०१-२९ रविवासरः (2017-01-29 Sunday)

     
  • Himanshu Pota 11:21 pm on January 26, 2017 Permalink | Reply  

    https://www.youtube.com/channel/UC0hjxSl7vsrnYKuADFg1ITw – Samskrita Shikshanam

    इदं स्वर्णखातम् अस्ति। संस्कृतभारतीसंस्थया आयोजिताः संस्कृतपाठाः अत्र निहिताः सन्ति। पश्यतु। महान्तम् आनन्दम् प्राप्स्यति।

     
  • Himanshu Pota 7:56 pm on January 26, 2017 Permalink | Reply  

    मरुता प्रकम्पमानं, उच्चैर्विराजमानम् |
    रुचिरं त्रिवर्णकान्तं, राष्ट्रध्वजं नमामि ||

    जनैः जनहितार्थाय जनानाम् एव निर्मितम्|
    लोकतन्त्रं भारतस्य वसुधायां विराजते॥

    मया श्रीसुभाषबखेडीवर्येण प्रेषितौ श्लोकौ।

     
  • Himanshu Pota 11:59 am on January 22, 2017 Permalink | Reply  

    मृत्युञ्जयमन्त्रम् (Maha Mrityunjaya Mantra) 

    मृत्युञ्जयः इति शब्दस्य का व्युत्पत्तिः। अपि अयं समासः अस्ति वा सन्धिः?

    २०१७-०१-२२ रविवासरः (2017-01-22 Sunday)

     
    • Srinivasa 1:16 pm on January 22, 2017 Permalink | Reply

      संज्ञायां भृतृृवृजिधारिसहितपिदमः (३।२।४६)

      मृत्यु ङस् जि खच्

      • Himanshu Pota 1:48 pm on January 22, 2017 Permalink | Reply

        धन्यवादः।

        मृत्यु जि खच् -> मृत्यु जि अ -> मृत्यु मुम् जि अ -> मृत्यु म् जि अ -> मृत्यु म् जे अ -> मृत्यु म् जय -> मृत्युञ्जय सुँप् -> मृत्युञ्जयः। संज्ञायां भृतृृवृजिधारिसहितपिदमः (३।२।४६) अरुर्द्विषदजन्तस्य मुम्⁠⁠⁠⁠ (६.३.६६)

    • Vardhan 6:15 pm on January 28, 2017 Permalink | Reply

      यथा कुम्भं करोति इति कुम्भकारः इति उपपदसमासः तथैव अत्र मृत्युं जयति इति मृत्युंजयः इति उपपदसमासः इति भासते

  • Himanshu Pota 8:04 pm on January 21, 2017 Permalink | Reply  

    अतिपन्नम् (Missed) 

    अहं प्रतिदिनं डीडी-संस्कृतवार्तां पश्यामि। किन्तु अद्य प्रमादेन मया संस्कृतवार्ताः अतिपन्नाः किन्तु ताः यूट्यूबजालपत्रे लब्धाः
    अतिपन्नम् – अति पद् क्त सुँ – अतिपन्नम् (रदाभ्यां निष्ठातो नः पूर्वस्य च दः॥८.२,४२॥)
    लट्लकारः
    पद्यते पद्येते पद्यन्ते
    पद्यसे पद्येथे पद्येध्वे
    पद्ये पद्यावहे पद्यामहे
    लोट्लकारः
    पद्यताम् पद्येताम् पद्यन्ताम्
    पद्यस्व पद्येथाम् पद्यध्वम्
    पद्यै पद्यावहै पद्यामहै
    लङ्-लकारः
    अपद्यत अपद्येताम् अपद्यन्त
    अपद्यथाः अपद्येथाम् अपद्यध्वम्
    अपद्ये अपद्यावहि अपद्यामहि
    विधिलिङ्-लकारः
    पद्येत पद्येयाताम् पद्येरन्
    पद्येथाः पद्येयाथाम् पद्येध्वम्
    पद्येय पद्येवहि पद्येमहि

    २०१७-०१-२१ शनिवासरः (2017-01-21 Saturday)

     
c
Compose new post
j
Next post/Next comment
k
Previous post/Previous comment
r
Reply
e
Edit
o
Show/Hide comments
t
Go to top
l
Go to login
h
Show/Hide help
shift + esc
Cancel